________________
-पृ०३३६]
उपासकाध्ययनटीका
मदेन मानेन चाध्माता वर्तन्ते तेषां सच्छाया धर्मस्य प्रभावना न जायते ॥९३२॥ मायया हानि दर्शयतियावदिति-यावत् यावत्कालम् आत्माम्बुषु जोवजलेषु मायानिशालेशोऽपि माया कपट सैव निशा रात्रिः तस्या लेशोऽपि अल्मांशोऽपि कृतास्पदः विहितवसतिर्वर्तते । तावत् तावत्कालं चित्ताम्बुजाकरः मनःकमलसमूहः प्रबोधश्रियं विकाशलक्ष्मी न धत्ते न धारयति ।।९३३॥ लोभाद् गुणहानि निगदति-लोभेति--धन्याः पुण्यवन्तो गुणाः लोभकोकसचिह्नानि लोभ एव वर्तमानकाले अर्थप्राप्तिगृद्धिः एव कीकसम् अस्थि तदेव चिह्नम् अभिज्ञानं येषां तानि चेतःस्रोतांसि मनोजलप्रवाहाः तानि दूरतः त्यजन्ति परिहरन्ति । कामिव चाण्डालसरसीमिव चाण्डालानां मातङ्गानां सरसोमिव तडाममिव ॥९३४॥ क्रोधादिशल्यानां जनविधिमाह-तस्मात इति तस्मात् ततः । अस्मिन्मनोनिकेते अस्मिश्चित्तगेहे । इदं शल्यचतुष्टयम् । आत्मज्ञः स्वस्वरूपज्ञः मुनिर्ग्रहस्थश्च । क्षेमाय कल्याणाय । शमकीलकः क्रोधादिचतुष्टयाभावकोलकैः शङ्कुभिः उद्धत्तुं यतेत निष्कासयितुं यत्नं कुर्यात् । क्षमाकीलकेन क्रोधशल्यम्। मार्दवशकुना मानशल्यम्। आर्जवशङ्कुना मायाशल्यम् । शौचकी लोभशल्यं निष्कासयेत् ॥ ९३५।। बुधैर्विषयेभ्यो मनसा सहेन्द्रियाणि व्यावानीत्युपदिशति-षस्वितिषट् इन्द्रियाणि स्पर्शन-रसन-घ्राण-नयन-श्रोत्र-मनांसि तानि स्वभावादेव षट्स अर्थेषु, विषयेषु स्पर्शेषु अष्टसु । मधुराम्लादिषु पञ्चसु रसेषु । द्वयोर्गन्धयोः । पञ्चविधेषु रक्तपीतादिवर्णेषु । सप्तसु स्वरेषु । मनस्तु एतेषु सर्वविषयेषु आसक्ति जनयत्यतः सर्वेऽपि स्पर्शादयो विषया मनसो भवन्ति इति । तत्स्वरूपति-तेषां विषयाणां स्वरूपाणां परिज्ञानात बोधात् सर्वदा प्रत्यावर्तेत मुनिग्रंहस्थश्च व्यावर्तेत ।।९३६।। विषयेभ्यो नात्मनः कुशलमिति निवेदयति-आपाते इति-तत्काले भुक्तिसमये सुन्दरारम्भैः सुन्दरो मनोहर आरम्भः आदिर्येषां ते तथाभूतैः । विपाके फलकाले विरसक्रियः विरसा अमनोज्ञा दुःखदा क्रिया येषां तैः तथाभूतैः अन्ते दुर्गतिदानशीलः विषैर्वा गरलैरिव विषयः ग्रस्ते व्याकुले आत्मनि कुतः कुशलं भद्रं स्यात् ॥९३७। व्रतविशुद्धयं व्रतिकः किं त्यजेत, आह-दुश्चिन्तनमिति-व्रती व्रतानि अहिंसादीनि सन्ति अस्येति व्रती। व्रतविशुद्धयर्थ व्रतानां विशद्धयर्थम उत्कर्षप्रापणार्थ । मनोवाकायसंश्रयं मनः चित्तं, वाक भाषणं, कायः शरीरम् एषां संश्रयः अवलम्बनं यस्य तथाभूतं । दुश्चिन्तनं हिंसाद्यध्यवसायः तत् मनःसंश्रयं नाचरेत् त्यजेदित्यर्थः । दुरालापं वाक्संश्रयम् असत्यनिन्दाकलहादिदोषयुक्तं दुर्भाषणं नाचरेत् । दुर्व्यापारं च कायसंश्रयं देहाधारं परस्त्रीसंभोगादिकं नाचरेत् ।।९३८॥ कि नाम व्रतपालनमित्याह-अभङ्गति-अभङ्गः व्रतस्य अविकलं प्रतिपालनम् । अतिचारः व्रतस्य देशभङ्गात कियतोंऽशस्य रक्षणाच्च अतिचारो भवति । न अतिचारोऽनतिचारः व्रतस्य बाह्याभ्यन्तराभ्याम् अङ्गाभ्यां रक्षणम् अनतिचारः। यथा अहिंसावतसंरक्षणे कोपं न करोति, प्राणिवधबन्धनं न करोति, दयाहीनश्च न भवति । गृहीतेषु प्रतेषु भङ्गम् अकृत्वा, अतिचारपरिहारं च कृत्वा शश्वत् आजन्म तेषु व्रतेषु रक्षणं पालनं क्रियते तत् व्रतपालनं भवेत् ॥९३९॥ यमनियमेषु यत्नकर्तव्यतामुपदिशति-वैराग्येति-यमेषु इति यमेषु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । यच्छति नियच्छति इन्द्रियग्राममनेनेति यमः। नियमेषु बाह्याभ्यन्तरशोचतपःस्वाध्यायप्रणिधानानि नियमाः । एतेषु नित्यं यत्नः कर्तव्यः । एतेषां पालनं सदा कर्तव्यमिति भावः । नित्यं वैराग्यभावना कर्तव्या । ये विषयाः दृष्टाः ये च श्रुताः ये चानुभूतास्तेभ्यो निवृत्ततृष्णस्य प्रतिनः मनसो वशीकरणं तस्यैव संज्ञा नाम वैराग्यमिति । तस्य नित्यं भावना अभ्यासः करणीयः। नित्यं तत्त्वविचिन्तनं कर्तव्यम् । किं नाम तत्त्वविचिन्तनम् । प्रत्यक्षेण इन्द्रियानिन्द्रियप्रत्यक्षेण, अनुमानेन, आगमेन च जिनकथितेन ये अनुभूनाः ज्ञाताः जीवादिपदार्थसार्थाः ते विषया यस्याः एतादृशी या असंप्रमोषस्वभावा दृढधारणासंस्कारजाता स्मृतिः स्मरणं तत्त्वानुचिन्तनं तस्मिन्नित्यं यत्नः कर्तव्यः । एतः कारणीतपालनं निर्दोष भवति ॥९४०॥
इस्युपासकाध्ययने प्रकीर्णकविधिर्नाम षट्चत्वारिंशत्तमः कल्पः ॥४६॥
[पृष्ठ ३३६] इत्येष इति-हे क्षितिपतीश्वर, क्षित्याः पृथ्व्याः पतयः स्वामिनः क्षितिपतयः भूपाः तेषाम् ईश्वरः राजराजः तत्संबोधनं हे क्षितिपतीश्वर, इति पूर्वोक्तप्रकारेण गृहिणां धर्मः प्रोक्तः (सुदत्तसूरिणा) हे क्षितिपतीश्वर, मूलोत्तरगुणाश्रयः मूलगुणाः अष्टाविंशतिः आचेलक्यादयः । उत्तरगुणाश्च चतुरशीतिलक्षणास्ते आश्रयः
६५