________________
पं० जिनदासविरचिता
[पृ० ३३६ - आधारो यस्य स यतीनां धर्मः श्रुतात् आचाराङ्गाज्ज्ञेयः ज्ञातव्यः ॥९४१।। इत्थमिति एवं पूर्वोक्तरीत्या । तदर्भकयुगाचरणप्रचारं तौ च तो अर्भको बालको च तदर्भको। तयोर्युगं युगलं तस्य आचरणस्य देशयत्याचारस्य क्षुल्लकक्षुल्लिकाचारस्य प्रचारो यत्र । एतादृशं मुनेः सुदत्ताचार्यात् द्वितयधर्मकथावतारं द्वितययोधर्मयोः कथाया अवतारो यत्र तं श्रत्वा, सा देवता चण्डमारोनामा। स नपतिः मारिदत्तः । स च पौरलोकः मारिदत्तनपतिप्रजाजनः। भवभाववृत्तेः भवो देवभवो मनुष्यभवश्च, भावः तत्तद्गतियोग्य भावाः परिणामाः तेषां वृत्तिः प्रवृत्ति : तस्या उचितं योग्यं धर्म जग्राह ग्रहणं चकार ।।९४२॥ मुनिकुमारयुगलमिति-अभयरुचिनामा क्षुल्लकः अभयमतिनाम्नी क्षल्लिकेति मुनिकुमारयुगलं प्रोक्तम् । तत्क्रमेण व्यतिक्रान्तबालकालं यापितकुमारकाल सत् चारित्रम् आचर्य प्रतिपाल्य, कथंभूतं तत् । सुधेति-सुधाशना देवाः तेषां वेश्म स्वर्गः स अधिरुह्यते येन तत् चारित्रं सुधाशनवेश्माधिरोहणम् । पुनः कथंभूतम् यतिविरतीत्यादि यतिर्मुनिः चिरतिरार्या तयोर्वेषी नग्नता, एकशाटकधारित्वं च । भाषितं भाषासमितिपालनम् । एतयोरनल्पा बहवो ये विकल्पा भेदाः स एव प्रासादः सोधः तदुपरि कलशारोपणमिव चारित्रम् अतिचिरं दीर्घकालम् आचर्य प्रतिपाल्य । ऐशानस्वर्गम् अवापदिति निवेदयति ग्रन्थकारः । तद्यथा-अभयरुचिरिति-स मुनिकुमारीऽभयरुचि: सानुजः अनुजा लघुभगिनी अभयमतिः तया सहितः । तत्र देवीवनरहसि देव्या वनं देवीवनं तन्नामकम् अरण्यं तस्य रहः विजनप्रदेशस्तत्र । प्रायम् उपवासं कृत्वा । ऐशानकल्पं द्वितीयस्वर्गम् अवापत प्राप्तः । मारदत्तोऽपि भूपः राजा धृतेति-धृतं पालितं यतिपतिवृत्तं मनीन्द्रचरणं येन स तथाभतः सन तथैव अभयरुचिरिव स्वर्गलक्ष्मीविलासं सरलोकरमासूखम अभजत प्राप्तः ।।९४३॥ रत्नद्वयेनेति-रत्नयोयं सम्यग्दर्शनसम्यग्ज्ञानयुगलमिति भावः तेन समलंकृतेति समलंकृता विभूषिता चित्तवृत्तिः मनोव्यापारो यस्याः । सा चण्डमारोति देवताऽपि गणिनो महं सुदत्ताचार्यस्य पूजाम् आरचय्य प्रविधाय । द्वीपान्तरेति--अन्ये द्वीपा: द्वीपान्तराणि धातकीपुष्करार्धनन्दीश्वरादयः । धुनगाश्च दिवो नाकस्य स्वर्गस्य नगाः पर्वता: पञ्चमेरवश्च तेषां जातं समहः तस्य यानि जिनेन्द्रसद्मानि जिनालयाः तान् वन्दते इति वन्दारुर्वन्दनशीला तस्या भावः वन्दनशीलता तया अनुमतः मान्यः युक्तः यः कामः अभिलाषः तत्र परायणा तत्परा अभूत् अभवत् ।।९४४॥ ध्यानेति-सिद्धगिरी तन्नामके पर्वते रेवानद्यास्तीरे पश्चिमभागे सिद्धवरकूटपर्वते स मुनिः मुनिभिर्यतिभिः सह वर्तते इति समुनिः सुदत्ताह्वयः सुदत्ताभिधानः सूरिः सम्यक् देवत्वाद्यभिलाषरहितं निर्दोष ध्यानं विधाय लान्तवनाम्नि सप्तमे कल्पे स्वर्गे सर्वेति-सर्वेषाम् अमराणाम् ग्रामणोः अग्रणीः सुरो देव: अजायत । ये च अन्ये यशोमतिप्रभृतयः यशोमतिनृपादयः तेऽपि प्रक्लुप्तप्रताः समाचरितचरिताः । सुकृतिभिः पुण्यवद्भिर्जनैः सुरश्च संकीय॑मानश्रियः वर्ण्यमानविभवाः 'त्रिदशेश्वराः सुरपतयः संजाताः समभवन ॥९४५॥ कृतग्रन्थनिर्वाहः सोमदेवसरिरन्त्यमङ्गलमाह-जयविति-जिनोक्तिसधारसः जिनवचनामतरसः यः जगदानन्दस्यन्दी जगतः आनन्दस्य स्यन्दः स्रवणं यत्र अस्ति तथाभूतः जयति सर्वोत्कर्षेण वर्तते । तदनु तदनन्तरं सतां सज्जनानां कामारामः अभिलाषोद्यानं फलसंगमैः स्वर्गादिफललाभ: जयतात उत्कर्ष समदि प्राप्नुतात् । ततश्च तदनन्तरं कवितादेवी सरस्वती, कविताशक्तिर्वा शश्वत् सततं जयताद । यदाश्रयात् यस्याः कवितादेव्याः साहाय्यमवलम्न्य मम इयं कृतिमतिः कृतिकरणसमर्था मतिः बुद्धिः कृती कविः तस्य मतिर्बुद्धिः वा जगत्त्रयभूषणां सूक्ति सूते त्रिलोकालङ्कारां सूक्तिं सुभाषितं सूते जनयति ॥९४६॥ अभिधानेति-अभिषानानां शब्दानां निधाने अक्षयनिधिभूते। यशोधरमहाराजचरिते कथंभूते यशस्तिलकनामनि यशस्तिलकास्ये । सतां मतिः सत्पुरुषाणां मतिः बुद्धिः स्तात् सततं प्रवर्तताम् । एतद्यशोधरमहाराजचरितं सन्तः निजकर्णातिथि सन्ततम् कुर्वन्त्विति भावः ।।९४७।। एतच्चरितस्य पठनं कुर्वतः यशः प्रसरतु कवितारहस्यमुद्रां च लभतामिति कविराशास्ते-एतामिति-अनुपूर्वशः आचार्यपरम्पराम् अनुसृत्य एताम् अष्टसहस्रीम् अष्टसहस्रीति अपरनामघेयां कृति विमशन् कृती धन्यः कविकवितारहस्यमुद्रां कविता एव स्त्री तस्याः रहस्यं भोगः तस्य मुद्राम् अनुज्ञां तथा च कवितायाः गूढतत्वस्य मुद्रां प्रत्ययम् अवाप्नुयात् । आसमुद्रगं च यशः लभेत ॥९४८।। ग्रन्थसमाप्ती निजगुरुपरम्परां कथयति कविः-श्रीमानिति-सदैव सततं श्रीमान् आगमचातुर्यशोभा एव श्रीः सा यस्यास्ति स श्रीमान् संघतिलक: देवसंघस्य भूषणम् यशःपूर्वक: देवः अस्ति । यशोदेवाभिषः सूरिः देवसंघस्य भूषणं अस्तीति भावः । तस्य यशोदेवसूरेः सद्गुणनिधिः सन्तश्च ते गुणाः तेषां निधिः निधानभूतः श्रीनेमिदेवाह्वयः'