Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० ३३२]
उपासकाध्ययनटीका
हेत्वभावनिर्जराम्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः इति बन्धमोक्षयोः ज्ञातृत्वं फलं जायते ॥९१९॥
[पृष्ठ ३२९-३३२] जीवस्थानादिकानां बोध्यत्वमाह-जीवस्थानेति-जोवस्थानमिति जीवसमासानामियं संज्ञा ज्ञेया। तानि च चतुर्दश यथा एकेन्द्रियसूक्ष्मपर्याप्तः । एकेन्द्रियसूक्ष्म अपर्याप्तः । एकेन्द्रियबादरपर्याप्तः । एकेन्द्रियबादरापर्याप्तः । इति चत्वार एकेन्द्रियजीवेषु समासाः अत्र चतुर्षु एते जीवाः सम्यगासते। द्वीन्द्रियेषु द्वौ जीवसमासौ-द्वीन्द्रियबादरपर्याप्तः । द्वीन्द्रियबादरापर्याप्तः । त्रीन्द्रियबादरपर्याप्तः त्रीन्द्रियबादरापर्याप्तः । इति त्रीन्द्रियजीवानां द्वौ। चतुरिन्द्रियबादरपर्याप्तः । चतुरिन्द्रियबादरापर्याप्तः । इति चतुरिन्द्रियात्मनां द्वौ। पञ्चेन्द्रियाणां चत्वारो जीवसमासा एवम् - पञ्चेन्द्रियसंज्ञिपर्याप्तः । पञ्चेन्द्रियसंश्यपर्याप्तः । पञ्चेन्द्रियासंज्ञिपर्याप्तः । पञ्चेन्द्रियासंध्यपर्याप्तः, एवं जीवसमासाश्चतुर्दश । गुणस्थानानि च चतुर्दश-तानि यथा-मिथ्यात्वम्, सासादनम्, मिश्रम्, अविरतसम्यग्दष्टिः, संयतासंयतम्, प्रमत्तविरतम्, अप्रमत्तविरतम्, अपूर्वकरणम्, अनिवृत्तिकरणम्, सूक्ष्मसाम्परायम्, उपशान्तमोहम्, क्षीणमोहम्, सयोगकेवलि, अयोगकेवल्याख्यमिति । मार्गणाश्चतुर्दश, ता यथा-गतिः, इन्द्रियाणि, कायः, योगाः, वेदाः, कषायाः, ज्ञानानि, संयमाः, दर्शनानि, लेश्याः, भव्यः, सम्यक्त्वम्, सज्ञिनः, आहारः इति । जीवस्थानगुणस्थानमार्गणास्थानानि गच्छतीति जीवस्थानगुणस्थानमार्गणास्थानगः विधिः प्रत्येकं चतुर्दश प्रकारः ज्ञातव्यः । यथागमम् आगमानतिक्रमेण ॥९२०॥ चतसषु गतिषु गुणस्थानान्याह-आदित इति-आदिगुणस्थानं मिथ्यात्वमारभ्येति । तिर्यक्ष पशषु पञ्च । मिथ्यात्वं, सासादनं, मिश्रम, अविरतसम्यग्दष्ट्याख्यं, संयतासंयतं चेति । श्वभ्रनाकिनोः नारकदेवयोः आद्यानि चत्वारि ज्ञेयानि । नृषु चैव चतुर्दश मनुष्येषु चतुर्दश मिथ्यात्वमारभ्य अयोगकेवलिपर्यन्तानि भवन्तीति मन्यन्ते ॥९२१॥ तपो वर्णयति-पद्याभ्याम्-अनिगूहितेति-अनिगूहितम् अनिहन्तं वीर्यम् आत्मसामर्थ्य येन स तस्य अनिगहितवीर्यस्य पुरुषस्य यतेः श्रावकादेश्च कायक्लेशः तपः स्मृतं प्रोक्तम् । तच्च मार्गो रत्नत्रयं तस्य अविरोधेन विरोधमकृत्वा रत्नत्रयमनुसत्येति भावः । गुणाय आत्मिकगणोत्कर्षाय, जिनर्गदितम् । अथवा-अन्तरिति-तत्तपः अन्तर्बहिर्मलप्लोषात् अन्तर्मलो रागादयः बहिर्मल: रसरक्तादयः । उभयोमलयोः प्लोषात दाहात आत्मनः शद्धिकारणं जीवस्य । नर्मल्यहेतयंत शारीरं मानसं कर्म अनशना शारीरं कर्म । प्रायश्चित्तादिकरणं मानसं कर्म । तथाभूतं द्विविधं कर्म तपोधनाः तपः प्राहः तपांसि एव धनं येषां ते तपस्विनः महातपस्विनः इत्यर्थः ॥९२२-९२३ ॥ संयममाह-कषायेति-कषायाणां क्रोधमानमायालोमानां विजयः स्ववशोकरणम् । इन्द्रियाणां विजयो विनिग्रहः, इन्द्रियविषयेभ्यो इन्द्रियाणां मनसश्च व्यावर्तनं कृत्वा चैतन्यात्मनि प्रवर्त्तनं विजयः । दण्डानां च विजयः दण्डा इव दण्डाः अशुभमनोवाक्कायाः परपीडाकरत्वात्, तेषां विजयः अशुभमनोवाक्कायप्रवृत्तिम्य आत्मनो निवारणम् । प्रतपालनम् पञ्चानाम् हिंसासत्यचौर्यमैथुनपरिग्रहेभ्यो विरतिः, तत्तवतभावनानां च व्रतस्थैर्यार्थ पालनम् एतत्सर्वमाचरणं संयमः संयमाख्यं षट्कर्मसु पञ्चमं कर्म । अयं संयमः संयतैः मुनिभिः श्रेयः श्रयितुमिच्छतां प्रोक्तः मोक्षमाश्रयितुम् इच्छतां प्रोक्तः कथितः ॥९२४॥ अधुना कषायस्य निरुक्तिपूर्वकं वर्णनं क्रियते-कषन्तीति-कषन्ति सन्तापयन्ति दुर्गतिसंगसंपादनेनात्मानमिति कषायाः क्रोधादयः । कषायेभ्यः दुर्गतयः प्राप्यन्ते। तत्र च आमरणं जीवानां संतापो भवति । अथवा यथा विशुद्धस्य वस्तुनः नयग्रोधादयः कषायाः कालुष्यकारिणः तथा निर्मलस्यात्मनो मलिनत्वहेतुत्वाकषाया इब कषायाः । न्यग्रोधस्य वटस्य कषायो रसः नयग्रोधः स आदी येषां ते रसाः नैयग्रोधादय उच्यन्ते । वटप्लक्षोदुम्बरादीनां कषायाः वस्त्र लग्नाः तस्य निर्मलता विलोपयन्ति । तथा निर्मलस्यात्मनः कषाया रागादी
जनयन्तो मालिन्यमुत्पादयन्ति । क्रोधलक्षणम् -स्वपरापराधाभ्याम् आत्मेतरयोः अपायोपायानुष्ठानम् अशुभपरिणामजननं वा क्रोधः। स्वस्य अपराधेन अपरस्य वा अपराधेन स्वस्य इतरस्य वा अपायस्य विनाशस्य उपायानुष्ठानम् उपायविधानम् अशुभपरिणामोत्पादनं वा क्रोधः । विद्याविज्ञानश्वर्यादिपूजाव्यतिक्रमहेतुरहंकारो युक्तिदर्शनेऽपि दुराग्रहापरित्यागो वा मानः । विद्या मन्त्रादिज्ञानम् । विज्ञानं शिल्पादिज्ञानम् । ऐश्वयं विपुला धनधान्यादिका संपत । आदिशब्देन कुलजातितपःशरीरसौन्दर्यबलानां ग्रहणम । विद्याविज्ञानादिभिः पज्यानां शानवयस्तपोभिवंडानां श्रेष्ठानां पूजायाः व्यतिक्रमे हेतुः कारणं या चित्तसमुन्नतिः अहंकारः । अथवा युक्तः

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664