Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० ३३६]
उपासकाध्ययनटीका
५१५
श्रीनेमिदेवाभिधः शिष्यः बभूव । तस्य नेमिदेवस्य शिष्यः सोमदेव: अभूत् । कथंभूतस्य नेमिदेवस्य आश्चर्यतपःस्थितेः आश्चर्यकारिणी तपःस्थितिस्तपोमर्यादा यस्य । पुनः कथंभूतस्य महावादिनां त्रिनवतेर्जेतुः महान्तो वादिनः अन्यदर्शनमहापण्डिताः । तेषां त्रिनवतः जेतुः सोमदेव इति यः शिष्यः इह गङ्गधारायाम् अभूत् । तस्य एष यशस्लिकचम्पूर्नाम काव्यक्रमः अस्ति ।।९४९।। अस्य यशस्तिलकस्य काव्यस्य पुस्तकलेखनं रच्छुकेन लेखकेन कृतमिति स्वयं लेखक एव निवेदयति--विद्याविनोदेति-विद्याया विनोदः लीला स एव वनं तेन वासितं सुगन्धीकृतं हृत् हृदयमेव शुको यस्य तेन रच्छुकेन तन्नामवता रच्छुकेन यशोधरस्य यशोधरचरितस्य पुस्तं पुस्तकम् कथंभूतम् विलसल्लिपि विलसन्तो शोभभाना सुन्दरा लिपिः अक्षरविन्यासो यस्मिन् तत् । कथंभूतस्य यशोधरस्य श्रोसोमदेवरचितस्य, पुनः कथंभूतस्य । सल्लोकमान्यति-सन्तश्च ते लोकाश्च सज्जनाः तेषां मान्यः । आदृता या गुणरत्नानां मही तस्या धरस्य पर्वतस्य ॥९५०॥ अपि च । रच्छुकलेखकस्य प्रशंसापरोऽयं श्लोक: यस्येति-यस्य रच्छुकस्य अक्षरावलिः अक्षरपङ्क्तिः अधीरविलोचनाभिः चञ्चलनयनाभिः रामाभिः मदन. शासनलेखनेषु आकाक्ष्यते अभिलष्यते। विवेकिषु जनेषु तस्मै रच्छ काय कः नाम सज्जनः लेखकशिखामणिनामधेयं लेखकचूडारत्नेति पदं न यच्छति अपि तु यच्छत्येव । अयं रच्छको लेखकः कविसमकालमेवाभवदिति विज्ञायते श्लोकेनानेन ॥९५१॥ शकनृपेति-शकनपः सातवाहनस्तस्य य: काल: उत्सत्तिसमयः, तस्य अतीतानि यानि संवत्सराणां वर्षाणां शतानि, कति । अष्टौ तेषुगतेषु पुनः कथंभूतेषु एकाशीत्यधिकेषु गतेषु यातेषु ( अङ्कतः ८८१ ) इदं काव्यं निर्मापितमिति । कस्मिन् संवत्सरे मासे तिथाविति कथयति, सिद्धार्थसंवत्सरान्तर्गतचैत्रमासमदनत्रयोदश्याम् । गङ्गधरायां नगर्याम् इदं काव्यं विनिर्मापितम् । कथंभूतायां श्रीमद्वागराजप्रवर्धमानवसुधारायां श्रीमतो राज्यलक्ष्मीवतो वागराजस्य नपस्य प्रवर्धमाना वसुधारा धनधारा यस्याम् । अयं वागराजः कस्य पुत्र इति कथ्यते । कृष्णराजस्य सामन्तचूडामणे: अरिकेसरिणः प्रथमपुत्र : आसीत् । कृष्णराजेन पाण्डय. सिंहल-चोलचेरमप्रभृतयो महीपतयः जिताः, मेल्याट्यां च तस्य राज्यप्रभाव: प्रवर्धमान आसीत् । अयं अरिकेसरी चालुक्यवंशजन्माभूत् । संप्राप्तपञ्चमहाशब्दानां महासामन्तानाम् अधिपतिरभवत् । इति सकलताकिकलोकचूडामणे: श्रीमन्नेमिदेवभगवतः शिष्येण सद्योऽनवद्यगपद्यविद्याधरचक्रवतिशिखण्डमण्डनोभवच्चरणकमलेन श्रीसोमदेवसूरिणा विरचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्नि महाकाव्ये धर्मामतवर्षमहोत्सवो
नाम अष्टमः आश्वासः ॥८॥ वणः पदमिति-वर्णः ककाराद्यक्षरम्, पदं शब्दः, वाक्यविधि: सुपतिङन्तचयो वाक्यं तस्य विधि: विधानं रचना, समासः समसनं समासः पदयोः पदानां वा एकपदीकरणं समासः । लिङ्गं स्त्रीनपुंसकं लिङ्गम्। क्रिया क्रियापदम् । कारक कर्मकरणादि । अन्यतन्त्रम् अन्यशास्त्राणां विषयाः प्रसंगेन समागताः । छन्दः वृत्तानि । रसः शृङ्गारादयः, अलंक्रिया उपमानरूपकादयः । अर्थ: काव्यकथाविषयः। नायकचरित्रम । लोकस्थितिः लोकानाम् आचार: इति अत्र- चतुर्दश विषयाः स्युः ॥९५२।। अब्दे इति-अस्य श्लोकस्य विमर्श कृते सति कविना यः काव्यरचनाकाल: शकनृपकालातीतादिवाक्ये दर्शितः तेन सह विरोधः प्रतिभाति अतः अयं इलोकः कवेर्नास्ति इति मे मतिः। तथा चापरोऽत्र विमर्शः काव्ये पूर्णतां नीते पुनः वर्णः पद वाक्यमिति श्लोकलेखनम् अब्दे इति श्लोकलेखनं च सयुक्तिकं न प्रतिभाति । अतः अन्येन केनापि एतच्छ्लोकयुग्मं रचितं स्यादिति मनसि विकल्प उत्पद्यते । तथा च सटिप्पणपुस्तकेषु अब्दे इतिश्लोकोऽपि न वर्तते । अतोऽस्य श्लोकस्याभिप्रायो न व्यक्तीकृतः इति ज्ञेयम् । श्रुतसागराचार्यैरकृतटीकस्य अस्य यशस्तिलकास्यकाव्यांशस्य यथामति टीका विहिता। अत्र टोकायां व्याकरणाद्य नभिज्ञतया मत्तो बहवो दोषाः जाता इति मन्ये तान् संशोध्य पाठकास्तं काव्यांशं पठन्तु इति निवेद्यते ॥
जिनदासेन पाश्वनाथतनूजेन फडकुलत्युपायेन ।

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664