Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
५१२
५० जिनदासविरचिता
[पृ० ३३३
परिज्ञानेऽपि दुराग्रहस्थापरित्याग: अपरिहरणं वा मानः । मनोवाक्कायक्रियाणाम् अयाथातथ्यात् परवञ्चनाभिप्रायेण प्रवृत्तिः माया। मनसः वाचः कायस्य चित्तस्य भाषणस्य शरीरस्य च याः क्रियाः कार्याणि तासाम् अयाथातथ्यात् यथार्थरूपत्वाभावात्, असरलरूपत्वात् परेषां लोकानां वञ्चनाभिप्रायेण प्रतारणेच्छया प्रवृत्तिः प्रवर्तनं माया कपटमित्यर्थः । अथवा ख्यातिः प्रशंसा, पूजा लोकादरः, लाभः धनधान्यादिप्राप्तिः एतेषाम् अभिवेशेन अभिप्रायेण या परप्रतारणप्रवृत्तिः सा मायेति । चेतनाचेतनेषु वस्तुषु स्त्रीदासीदासाश्वगज-गो. महिषादिषु चेतनपरिग्रहेषु, अचेतनेषु गृहवस्त्रमौक्तिकादिषु चित्तस्थः महान् ममेदं भावः ममत्वपरिणामः लोभः । अथवा तदभिवृद्धयाशयो महानसन्तोषः क्षोभो वा लोभः । तेषां चेतनाचेतनवस्तूनाम् अभिवृद्धघाशयः अभि समन्तात् वृद्धिः प्रवर्धनं तस्याः आशयः अभिप्रायः लोभः, अथवा महान् असन्तोषः अतीव मनसि तीया गृद्धिः लोभः क्षोभो वा मनसि परिग्रहवृद्धिश्चिन्तनं लोभः । कषायाणां गुणघातित्वमाह-सम्यक्त्वेति-ये अनन्तानुबन्धिनः अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तं तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः ते कषायकाः कुत्सिताः कषायाः कषायकाः । सम्यक्त्वम् आप्तागमपदार्थानां श्रद्धानं घ्नन्ति । अप्रत्याख्यानरूपाश्च कषायकाः यदयाद्देशविरति संयमासंयमाख्याम् अल्पामपि कर्तुं न शक्नोति अर्थात् ये कषाया देशप्रत्याख्यानं देशवतानि घ्नन्ति ते अप्रत्याख्यानरूपाः क्रोधमानमायालोमा विज्ञेयाः । प्रत्याख्यानस्वभावाः स्युः संयमस्य विनाशकाः । प्रत्याख्यानं कृत्स्नां संयमाख्यां विरतिं यदुदयेन जीवो न कर्तुं शक्नोति ते कषायाः प्रत्याख्यानस्वभावाः ते संयमस्य विनाशकाः स्युः भवेयुः । यथाख्याते चारित्रे संज्वलनाः क्षितिं कुर्युः स एकीभावे वर्तते संयमेन सहावस्थानात एकीभूय ज्वलन्ति संयमो वा ज्वलत्येषु सत्स्वपि संज्वलनाः क्रोधमानमायालोभाः यथाख्याते चारित्रे क्षति विघातं कुर्युः विदध्युः ॥९२५-९२६।। अनन्तानुबन्ध्यादयः क्रोधाश्चतुर्गतीर्जीवान् प्रापयन्तीत्याह-पाषाणेति-पाषाणलेखा, भूलेखा, रजोलेखा, वारिलेखा च तद्वत् ये क्रोधास्ते पाषाणलेखाप्रख्याः, भूलेखाप्रख्याः, रजोलेखाप्रख्या; वारिलेखा प्रख्याः, शिला-पृथ्वीधूली-जलरेखातुल्यत्वात् क्रोधश्चतुर्विधः । एते चत्वारो भेदाः अनन्तानुबन्ध्यादिषु चतुर्ष प्रत्येक संभवन्ति । सर्वोत्कृष्टहीनहीनतरहीनतमोदयरूपाभिरनन्तानुबन्ध्यादिशक्तिभिः। एतत्क्रोधचतुष्टयं यथाक्रम श्वभ्रतियनुनाकिनाम् गत्यै भवति । पाषाणरेखातुल्यः अनन्तानुबन्ध्यादिक्रोधः श्वभ्रगत्य नारकगत्यै भवति । भूलेखाप्रख्यः अनन्तानुबन्ध्यादिक्रोधः तिर्यग्गतिप्राप्त्यं भवति । रजोरेखाप्रख्यः अनन्तानुबन्ध्यादिक्रोधः नरगति. प्राप्त्यै भवति । जलरेखासदृशः अनन्तानुबन्ध्यादिक्रोधः नाकिनां देवानां गत्यै भवेत् ॥९२७॥
[पृष्ठ ३३३-३३६ ] चतुर्विधो मानश्चतुर्विधगतिप्रापकोऽस्तीति कथयति-शिलास्तम्भेतिशिलास्तम्भवृत्तिः चतुर्विधो मानः अधोगतिसंगतिकारणं भवति नरकगतिसमागमहेतुर्जायते । अस्थिवृत्ति: हीनोदयरूपः मानः पशुगतिसंगतिहेतुर्जायते । सार्द्रप्रवृत्ति जलमध्यकाष्ठसमः अनन्तानुबन्ध्यादिमानः नरगतिसंगतिकारणं भवति । वेत्रवृत्तिर्मानः अनन्तानुबन्ध्यादिः स्वर्गगतिसंगतिकारणं भवति ॥९२८॥ मायाचातुविध्यमपि चतुर्गतिप्रापकं भवति इति भाषते । वेणुमूलैरिति-वंशमूलः समाः अनन्तानुबन्ध्यादयो मायाः नरकगत्यै भवन्ति । अजाश्रृङ्गः उरभ्रकविषाणः समाः मायाः पशुगत्यै भवन्ति । गोमूत्रसमाः मायाः नरगतिकारणं भवन्ति । चामरैः समाः मायाः देवगतिप्रापिका भवन्ति ॥९२९॥ लोभचतुष्टयं चतुर्गतिलम्भकं जायते इति वदति-क्रिमिनीलीति-क्रिमिरागतुल्यः लोभः श्वभ्रगतिसंसारनिदानं भवति । नोलोरागसदशः लोभः तिर्यग्गतिसंसारकारणं जायते । वपुर्लेपो देहमल: तत्तल्यो लोभः नरगतिसंसारदायको भवति । हरिद्रारागसदृशो लोभः देवसंसारकारणं भवति ॥९३०॥ किं च क्रोधान्धस्य समाध्याद्यभावं निगदति-यथा अपथ्यसेविनः रोगानुकूलाम्लतैलादिक्षिणः रोगिणः नरस्य औषधक्रिया अगदसेवनं रिक्ता विफला भवति तथा क्रोधनस्य कोपप्रकृतेनरस्य समाधिश्रुतसंयमाः ध्यानशास्त्राभ्यासव्रतपालनानि विफला भवेयः ॥९३१।। मानेति--मानः मदः एव दावाग्निः बनानल: तेन दग्धेषु । मदोषरकषायिषु इन्द्रियाणाम् उन्माथा वृत्तिर्मदः स ऊषरं क्षारत्वं तेन कषायिणः तुवररसोपेताः तेषु, नद्रुमेषु नरवृक्षेषु स्च्छायोचिता कुरा सती प्रशस्ता या छाया कान्तिः तस्या उचिता योग्या ये अकुराः अभिनवोद्धदाः ते न प्ररोहन्ति । नोत्पद्यन्ते यथा क्षारभूमी उप्तं बीजं नश्यति। कदाचित् ततोऽकरे जातेऽपि तस्य कान्तिलाना भवति तथा ये नरा

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664