Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 626
________________ ५०४ पं० जिनदासविरचिता [पृ० ३१७ - ८५३-८५४ । अवधीत्यादि-अवधिव्रतम् आरोहेत् पूर्वपूर्वव्रतस्थितः । पूर्वस्मिन् पूर्वस्मिन् व्रते मूलव्रतादौ स्थितः । अवधिवतं कालमर्यादां कृत्वा उत्तरव्रतं गृहणीयात् । यद्यव्रतं नवीनं गृह्यते तस्य तस्य मर्यादां कृत्वा तत्पालयेत्पूर्ववतैः सह । सर्वत्रापि एकादशसु पदेषु ज्ञानदर्शनभावनाः समाः प्रोक्ताः । यदि एषां पदानां श्रद्धानं ज्ञानं च न स्यात् तहि उत्तरोत्तरपदधारणं नोचितं भवेत् । सर्वेषु एकादशपदेषु क्रमेण रत्नत्रयभावनाः सदृशाः सन्त्येव ॥ ८५५ ॥ षडत्रेति-अत्र आदिषट्पदधारिणः श्रावकाः गृहिणः, ज्ञेयाः, सप्तमाष्टमनवमपदधारिणो ब्रह्मचारिनामानो ज्ञेयाः । दशमैकादशपदधारको द्वौ भिक्षुको इति निर्दिष्टौ । ततः सर्वतः व्रतधारिणः महाव्रतिनो यतिनामधेया ज्ञातव्याः ॥ ८५६ ॥ तत्तदिति-महाव्रतादिषु यस्य गुणस्य प्राधान्यं येषु विद्यते तत्तद्गुणमाश्रित्य यतयो मुनयोऽनेकधा बहुविधाः स्मृताः प्रोक्ताः । तेषां यतीनां निरुक्ति निश्चयेन उक्तिः कथन निरुक्तिस्तां वदतो वर्णयतः मत् मत्सकाशात् निबोधत शृणुध्वम् ।।८५७)। जित्वेति-यः सर्वाणि इन्द्रियाणि स्पर्शनरसनादीनि जित्वा स्वविषयेभ्यः परावृत्य स्वायत्तानि करोति तथा आत्मना स्वयम् आत्मानं स्वं वत्ति जानाति स गृहस्थो भवतु वानप्रस्थो वा भवतु । वानप्रस्थः - अपरिगृहीतजिनरूपो वस्त्रखण्डधारी निरतिशयतपस्युद्यतो भवति । स जितेन्द्रियनामधेयो भवति । इति जितेन्द्रियपदनिरुक्तिः ॥८५८॥ क्षपणश्रमणयोनिरुक्तिमाह-मानेति-मानो गर्वः, माया कपटम्, मदः उन्मत्तता, आमर्षः क्रोधः एषां क्षपणात् क्षयकरणात् यतिः क्षपणः स्मृत उक्तः ॥ यो नेति-यः यतिः भ्रान्तेः न श्रान्तः भ्रान्तः ईर्यासमित्या भ्रमणात् त श्रान्तः न क्लान्तः तं बुधा विद्वांसः श्रमणं विदुः जानन्ति ।।८५९॥ आशाम्बरनग्नयोनिरुक्तमाह-य इत्यादि-यः 'हताशः' हताः प्रशान्ताः आशा अभिलाषा यस्य स 'हताशः' तम् आशाम्बरम् आशादिश एव अम्बरं वस्त्रं यस्य स आशाम्बरः तम् आशाम्बरम् ऊचिरे बभाषिरे । यः सर्वसंगपरित्यक्तः सकलबाह्याभ्यन्तरपरिग्रहमुक्तः स नग्नः परिकीर्तितः कथितः ।।८६०।। ऋषिमन्योनिरुक्तिमाह-रेषणादिति-क्लेशराशीनां संसारे सम्प्राप्तचतुर्गतिदुःखसमूहानां रेषणादुत्पाटनात् विनाशनात् संवरणात् मनीषिणः विद्वांसः ऋषिम् आहुः ब्रुवन्ति । आत्मविद्यानां कर्मक्षयं कृत्वा सकलविमलकेवलज्ञानं लभ्यते तत्केवलज्ञानम् आत्मविद्या तथा च तपश्चरणसामर्थ्यात या कोष्ठबीजबद्ध्यादयो लभ्यन्ते ता अपि आत्मविद्याः प्रोच्यन्ते । आत्मविद्यानां मान्यत्वात् तत्प्राप्तेः पूजां प्राप्तत्वात् महद्धिः मुनिः कीर्त्यते वर्ण्यते ॥८६॥ यत्यनगारयोनिरुक्तिमाहय इति-यः मुनिः पापपाशनाशाय पापान्येव पाशाः जालानि तेषां नाशाय यतते प्रयत्नं करोति स यतिर्भवति । यः मुनिर्देहगेहेऽपि देह एव गेहं शरीरमेव गृहं तत्र यः अनीहः इच्छारहितः स अनगारः सतां सज्जानानां पूज्यः ॥८६२॥ शुचिशब्दस्य निरुक्तिमाह-आत्मेति-आत्माशुद्धिकरः आत्मनः अशुद्धिं कुर्वन्ति इति आत्माशुद्धिकरा ये कर्मदुर्जनाः कर्माण्येव दुर्जनाः चाण्डाला अस्पृश्याः तः यस्य न संगः न स्पर्शः स पुमान् पुरुषः शुचिः पवित्र आख्यातः प्रोक्तः, न अम्बुसम्प्लुतमस्तकः अम्बुना जलेन संप्लुतं सं समन्ततः प्लुतं धोतं मस्तकं यस्य स पुमान् न शुचिराख्यातः ॥८६३॥ निर्ममशब्दस्य निरुक्तिमाह-धर्मकर्मति-यः धर्मकर्मफले धर्मो रत्नत्रयात्मकः तस्य कर्माणि आचरणानि गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्ररूपाणि । तेभ्यो लब्धे फले स्वर्गादिसुखलक्षणे । अनीहः निःस्पृहः । अधर्मकर्मणः निवृत्तः पापकर्मणो हिंसादेनिवृत्तः दूरीभूतः । तम् इह अस्मिल्लोके केवलात्मपरिच्छदं केवल एकः आत्मा एव परिच्छदः परिवारो यस्य तं निर्ममें निर्नष्टा ममेति बुद्धिर्यस्य स निर्ममः तम् उशन्ति ब्रुवन्ति ॥८६४॥ मुमुक्षुमाह-यः इति- यः यतिः कर्मद्वितयातीतः द्रव्यकर्माणि ज्ञानावरणाद्यानि अष्टौ। भावकर्माणि च अज्ञानरागद्वेषमोहादयो भावाः । कर्मणोद्वितयं कर्मद्वितयं तस्मात् अतीतः रहितः तं 'मुमुक्षु प्रचक्षते ब्रुवते । परं लोहस्य हेम्नो 'वा' पाशर्यो बद्धः स अबद्ध एव । एते लोहादिपाशाः न वस्तुतो बन्धनानि तैत्मिा बध्यते यतः ॥८६५॥/ समधीत्वं प्रतिपादयति-निर्मम इत्यादि-निर्गतो ममभावो यस्य स निर्ममः निर्मूच्र्छः । निरहंकारः अहमस्य स्वामी इति मनःसंकल्पोऽहंकारः स निर्गतो यस्मात् स निरहंकारः निर्गर्वः । निर्माणमदमत्सरः निर्गत: नष्टः मानो मदो मत्सरश्च यस्मात स निर्माणमदमत्सरः । क्षीणाभिमानेन्द्रियगर्वपरगुणासहनभावः । निन्दायां तथ्यस्य अतथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा तस्याम् । संस्तवे चैव गुणप्रशंसायां चैव शंसितव्रतः शंसितानि, व्रतानि यस्य सः। निर्दोषव्रतपालनो यः स।

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664