Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 625
________________ -पृ० ३१७ ] उपासकाध्ययनटोका ५०३ कर्मक्षपणचतुरो गीयते । ज्ञानलवे ज्ञातुः यतेः युगैरपि बहुभिः यस्मात् न पटुत्वं कर्मक्षपणकुशलत्वं न भवति । संपूर्ण चारित्रे सति पटुः परिपूर्णज्ञानी भवेत् । न तु ज्ञानलवमात्रेण केवली स्यादिति भावः ।।८४८॥ शब्दैति]रिति-यस्य शब्दैतिह्यः शब्दागमैः व्याकरण: यस्य गोः वाणी शुद्धा न । यस्य च धीः बुद्धिर्नयैः नैगमादिनयः शुदा कुशला न । सः परप्रत्ययात् अन्यस्मात् कुत्सितगुर्वादेः प्रत्ययात् ज्ञानात् क्लिश्यन् क्लेशं प्राप्नुवन् पुमान् अन्धसमः अन्धतुल्यः भवेत् ।।८४९।। शब्दाद्यागमानां द्वैविध्यम् आह-स्वरूपमिति-स्वरूपम् । रचना । शुद्धिः । भूषा । अर्थः । समासत: संक्षेगत् । आगमस्य शास्त्रस्य । प्रत्येकम् एतद्वैविध्यं भेदद्वयं प्रतिपद्यते स्वीकरोति । तद्यथा-शब्दागमः, न्यायागमः, धर्मागमः इति बहव आगमाः सन्ति । तेषां प्रत्येक स्वरूपादे: द्वैविध्यं भवति । तद्यथा-स्वरूपं द्विविधम् अक्षरम् अनक्षरं च । अस्फुटार्थसूचनार्थम् यथा तडत्तडित । पटपटायति । रचना द्विविधा गद्यं पद्यं च । प्रत्येकमागमः गद्य रूपेण पद्यरूपेण वा स्वाभिप्रायं निवेदयति । शुद्धिद्विविधा-प्रमादप्रयोगविरहः प्रमादात् अनवधानात् यः अशुद्धः प्रयोगः अशुद्धा वाक्यरचना तस्याः विरहः अभावः । अर्थव्यजनविकलतापरिहारश्च । अर्थ: शब्देन प्रतिपाद्याशयः । व्यञ्जनम् शब्द: तयोः विकलतायाः परिहारः त्यागः । भूषा द्विविधा वागलंकारः शब्दालंकारः अर्थालंकारश्च उपमारूपकादयः । अर्थो द्विविधः चेतनः अचेतनश्च । चेतनोऽर्थः देवमानवादिः । अचेतनः पथिव्यादिः जाति: व्यक्तिश्चेति वा।।८५०॥ दानविधेः अतिचारानाह-सार्धमिति–सचित्तनिक्षिप्तम्-सचित्ते पद्मपत्रादौ अन्नस्य निक्षिप्तम् अन्ननिक्षेपः। सचित्तवृतं सचित्तेन कमलपत्रादिना वृतमन्नस्योपरि आवरणम् । अन्योपदेशः परस्य दातुरेतद्गुडखण्डादिकमस्तीति पात्रस्य निवेदनम्। मात्सर्यम् अन्यदातगुणासहिष्णुत्वं मात्सर्यम् । कालातिक्रमणक्रिया साधूनाम् उचितस्य भिक्षासमयस्य लङ्घनम् । एते पञ्चातिचाराः दानहानये दानवतस्य विनाशाय भवन्ति ॥८५१॥ यतिभक्त्यादिकरणादात्रा कि कि लभ्यते इत्याह-नतेरित्यादि-यतेनतेः मुनिनमस्कारात् गोत्रम् उच्च कुलं दाता अवाप्नोति । दानात् आहारादिदानात श्रियः संपदः अवाप्नोति । उपास्तेः यतिपजनात सर्वसेव्यतां सकलजनमान्यतां लभते । भक्तेः यतिगुणानुरागात् कीर्तिमवाप्नोति, यशो लभते । कः दाता कथंभूतः स्वयं यतीन् भजन स्वयं मुनीन् आश्रयन् उपासमानः ॥८५२॥ इत्युपासकाध्ययने दानविधिर्नाम त्रिचत्वारिंशत्तमः कल्पः ॥१३॥ ४४. यतिनामनिर्वचनश्चतुश्चत्वारिंशत्तमः कल्पः । [पृष्ठ ३१४-३१७ ] गृहिणामेकादशपदान्याह-मूलव्रतमिति-मूलएतं मद्यमांसमधुभिः सह पञ्चोदुम्बरत्यागो मूलव्रतम् । पञ्चाणुव्रतानि, गुणवतत्रयम् शिक्षाबतचतुष्टयम् एतेषां द्वादशानां पालनम् प्रतपदं द्वितीयम् । अर्चा आप्तसेवा समयो वा तस्याः करणं तृतीयं पदम् सामायिकास्यम् । पर्वकर्म प्रोषधोपवासः चतुर्थं पदम् । अकृषिक्रिया क्षेत्रे सस्यादिवापनम्, हलेन भूमिकर्षणम् एतत्कार्यम् अस्मिन्पञ्चमे पदे निषिद्धम् अतः अकृषिक्रियास्यं पदमेतत्पञ्चमम् । दिवा दिने स्वस्त्रीसंभोगत्यागः षष्ठं पदम् । नवविध ब्रह्म-मनसा वचस कायेन संभोगत्यागः स्वयम, अन्येन त्याजनम, त्यजतो अनुमोदनम् । एतत्सप्तमं पदम । श्रावकस्य सचित्तस्य आमस्य मलफलशाकशाखादेस्त्यागः अष्टमं श्रावकपदम् । परिग्रहपरित्यागः बाह्यदशविधपरिग्रहाणां क्षेत्रवास्त्वादीनां त्यागो वर्जनं नवमं श्रावकपदम् । भुक्तिमात्रानुमान्यता-भुक्तिराहारः अन्नपानखाद्यलेह्यानां चतुर्णाम आहाराणाम् अनुमान्यता अनुमतिदानम्, दात्रा पुत्रादिना श्रावकेण क आहारोऽद्य ग्राह्य इति पृष्टे अमुक आहारो ममेष्ट इति कथनम् । भुक्तिमात्रानुमान्यता दशमं पदम् । तदानी च तस्या अनुमतेर्हानिस्त्यागः एकादेशपदम् । १. भुक्त्यनुमति मुक्त्वा अन्यत्र आरम्भे, परिग्रहे, ऐहिकेषु विवाहादिकर्मसु अनुमतेरपि त्यागः ज्ञातव्यः । २. दात्रा पुत्रादिना श्रावकेण क: माहारोऽद्य भवेद्भवत इष्टः इति पृष्टेऽपि तद्विषये अनुमतेरपि अदा नम् एकादशं पदम् ।

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664