Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 623
________________ -पृ०३०८] उपासकाध्ययनटीका ५०१ जने वप्तव्यं दातव्यम् । ययागमम् आगममनुसृत्य एकः मुनिः लभ्यः प्राप्येत न वा लभ्यः न प्राप्येत ।।८२१॥ अयं जिनधर्मः कोदकपुरुषः सेव्यते इति प्रश्न उत्तरमाह-उच्चावचेति-अयं जिनेशिनां समय: धर्मः उच्चावचजनप्रायः उदक् च अवाक् च उच्चावचः अनेकप्रकारः स च जनः तेन प्रायः भतः अस्ति । यथा आलयः गहम् एकस्तम्भे न तिष्ठेत् तथा एकस्मिन् पुरुषे अयं जिनेशिनां समयः न तिष्ठेत् ॥८२२॥ जिनेशिनां समये कतिविधा मुनयो भवन्तीति व्याचष्टे-ते नामेति-नामन्यासेन, स्थापनान्यासेन, द्रव्यन्यासेन, भावन्यासेन च मनयः चतुर्विधाः भवन्ति । ते सर्वेऽपि दानादरक्रियासू योग्या भवन्ति ॥८२३ ॥ उत्तरोत्तरेतिउत्तरोत्तरभावेन नामादिन्यस्तेषु मुनिषु उत्तरोत्तरन्यासेन न्यस्ते मुनी विधिः दानमानादिक्रियया आदरो विशिष्यते । नाममुनेः स्थापनामुनिः श्रेयान् । ततः द्रव्यमनिः श्रेयस्तरः। ततोऽपि भावमुनिः श्रेयोऽधिकः । यथा पुण्यार्जने पुण्यसंचये गृहस्थानां जिनप्रतिकृतिपु जिनबिम्बेषु नामादिन्यासेन उत्तरोत्तरभावेन आदरविधिः विशिष्यते । यथा नामजिनतः स्थापनाजिनः पूज्यः । स्थापनाजिनात द्रव्यजिनः भाविजिनः अधिकं पूज्यस्ततोऽपि भावजिनो विशेपेण पूज्यः ॥८२४॥ नामनिक्षेपमाह-अतद्गुणेष्विति-न विद्यन्ते शब्दप्रवृत्तिनिमित्तानि जगत्प्रसिद्धानि जातिगुणक्रियाद्रव्यलक्षणगुणविशेषणानि येपु तेषु भावेषु व्यवहारप्रसिद्धये नरेच्छावशवर्तनात् पुरुषाभिप्रायमवलम्व्य यत्संज्ञाकर्म नामविधानम्, तन्नाम ज्ञातव्यम् ॥८२५।। स्थापनानिक्षेपमाह-साकारे इति-यत्प्रतिनिधिभूतं वस्तु सादृश्यमावहति तत्साकारम् । ततोऽन्यथाप्रतिनिधिभूतत्वेन कल्प्यते तन्निराकारम् । एतादशे काष्ठादी काष्ठपस्तचित्रकर्माक्षनिक्षेपादिष सोऽयमित्यभिप्रायण स्यमाना स्थापना निगद्यते अभिधीयते ॥८२६।। द्रव्यनिक्षेपं ब्रवीति-आगामीति-आगामिनि भाविकाले गुणलाभमपेक्ष्य योऽर्थो यद्वस्तु प्रकल्प्यते सः द्रव्यन्यासस्य द्रव्यनिक्षेपस्य गोचरः विषयः । भावनिक्षेप वदति-तत्कालेति-तत्कालपर्य याक्रान्तं वर्तमानदशास्थितं वस्तु भावो भाष्यते ।।८२७।। राजसं दानमाहयदात्मेति-यत् दानम् आत्मवर्णनप्रायम् स्वस्तुतिबहुलम् । क्षणिकाहार्यविभ्रमम् क्षणपर्यन्तं संजातविलासम् । कदाचित ददाति, प्रतिदिनं न ददाति । अतः क्षणिकविभ्रमम् । आपातमनोहरम् । परप्रत्ययसंभूतम् अन्योपदेशसंभूतम् । अन्येन जनेन दापितं वा । स्वचित्ते दानस्य विश्वासो नास्ति । परं कस्यचिदानस्य फलं दृष्ट्वा अनेन ईदशं प्राप्तं फलमिति ज्ञात्वा पश्चात ददाति । आहार्यम-यदा कश्चित्प्रवर्तयेत् तदा दानं ददाति । तद् दानं राजसं मतं कथितम् ॥८२८॥ तामसदानमाह-पात्रापात्रेत्यादि-पात्रं च अपात्रं च उभयमपि समं समानरूपम् अवेक्ष्यं वीक्ष्यते यत्र तत् । असत्कारं पात्रस्य सत्कारो यत्र न क्रियते तथाभूतम् । असंस्तुतम् - लज्जादिना दत्तम् । दासभत्यकृतोद्योगं क्रोतजनेन, वैतनिकभत्येन वा कृतः उद्योगः पाचनादिकार्यं वा यत्र तहानं तामसम् ऊचिरे बभाषिरे ॥८२९॥ सात्त्विक दानमाह-आतिथेयमितियत्र स्वयम् आतिथेयम् अतिथे: पात्रस्य स्वागतीकरणम् । यत्र पात्रनिरीक्षणम् आगतस्य अतिथेः पात्रापात्रत्वं विमश्य तद्योग्यतामनुसृत्य प्रवर्तनम् । यत्र दाने श्रद्धादयो गुणाः सन्ति तदानं सात्त्विकं विदुः जानन्ति ।।८३०॥ दानानाम् उत्तमादिकत्वमाह-उत्तममिति-सात्त्विक दानम् उत्तमम् । मध्यमं राजसं भवेत् । सर्वेषां दानानां निर्धारणे पष्ठो । सर्वेषु दोनभेदेषु सर्वेषु पुनः जघन्यं तामसं ज्ञेयम् । सर्वेषामेव दानानाम् इति सात्त्विकराजसयोरपि योजनीयम् ।।८३१॥ दानफलम् इहापि लभ्यत इत्याह-यदत्तम् इति-यत् दानम् अभयादिकं दत्तं तत्-अमुत्र अमुष्मिल्लोके परलोके स्यात् फलवद् भवेत् इति वचः भाषणम् असत्यपरं स्यात् । यतः तोयतणाशनाः जलतृणभक्षिण्यः गावो धेनवः। कि पयः न प्रयच्छन्ति न ददति अपि तु ददत्येव । गाव: यस्मिन् दिने जलयवसं भक्षयन्ति तद्दिन एव दुग्धं ददति । तथा. दानफलं दात्रा अस्मिन्नेव लोके फलं मनःप्रसादरूपं लभ्यते । अथवा यत अस्माभिः रूक्षं स्निग्धं वा अन्नं कदम्नं वा दत्तं तदेवान्यजन्मनि अस्माभिः प्राप्यते इति मिथ्यावचः। यतः गौः तोयं तणं चाश्नाति परं मधुरं पयो ददाति । अत्र यद्दीयते तदेव लभ्यते इति वचो मिथ्या ॥८३२॥ मुनिभ्य इति-मुनिभ्यः शाकपिण्डोऽपि शाकस्य पत्रशाकस्य पिण्ड: पुजः श्राणः पत्रशाकोऽपि । काले आहारवेलायाम् भक्त्या प्रकल्पितः दत्तः अगण्यपुण्याथं भवेत् । यतः भक्तिः चिन्तामणिः चिन्तामणिरिव ॥८३३॥ मौनविधिः किमर्थमित्याह-अभिमानस्येति-अभिमानस्य अयाचक

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664