Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 624
________________ ५०२ पं० जिनदासविरचिता [ पृ० ३०६ व्रतस्य रक्षणार्थम् । आगमस्य विनयार्थम् जिनेश्वराः भोजनादिविधानेषु मौनम् ऊचुः उक्तवन्तः ||८३४॥ लौल्यत्यागादिति – लौल्यं जिह्वालम्पटता तस्य त्यागात् इच्छाया निरोधात् । तपोवृद्धिः भवति । अभिमानस्य च रक्षणम् अयाचकव्रतस्य पालनं स्यात् । ततश्च तस्माद्व्रतरक्षणात् लौल्यत्यागाच्च जगत्त्रयविषये मनःसिद्धिः स्याद् भवेत् । यया सर्वज्ञता स्यात् ॥ ८३५॥ [ पृष्ठ ३०-३१३ ] श्रुतस्येति – मौनेन श्रुतस्य प्रश्रयो विनयी भवेत् । ततश्च श्रेयः समृद्धेः समाश्रयः स्यात् । मुक्तिसम्पदः आश्रयः भवेत् । ततः मौनात् मनुजलोकस्य सरस्वती प्रसीदति त्रिजगदनुग्रहसमर्थो दिव्यध्वनिप्रसादो भवति ॥ ८३६ || संयमिनां व्याध्यादिप्रतीकारः करणीयः इति कथयति — शारीरेति - शारीरा व्याधयः दोषधातुमलविकृतिजनिताः । मानसा व्याधयः दौर्मनस्यदुःस्वप्नसाध्वसादिसम्पादिताः । आगन्तुव्याधयः शीतवाताभिघातादिकृताः । एतैः व्याधिभिः सम्बाधसंभवे पीड़ासंभवे । केषां संयमिनां तपस्विनाम् । गृहाश्रितैः गृहनिरतश्रावकैः । साधु सम्यक्तया । शारीरमानसागन्तुकानां रोगाणां प्रतीकारः विनिवृत्त्युपायः । कार्यः करणीयः ॥ ८३७॥ व्याधिपीडितमुन्युपेक्षायां सर्वं श्रुतं नश्येदिति निवेदयतिमुनीनामिति - उपासकैः देवशास्त्रगुरूणाम् उपासनां कुर्वद्भिः श्रावकैः । व्याधियुक्तानां रोगपीडितानां ज्ञानवतां मुनीनाम् उपेक्षायाम् औदासीन्यकरणे । असमाधिः रत्नत्रयविराधना तेषां मुनीनां भवेत् । स्वस्य औषधादिसाहाय्यम् अविहरतः अधर्मकर्मता च प्रकटीभवेत् । अत: जैनागमस्य व्याख्यानं विदधानेषु विद्वत्सु । तदागमस्य पठनं कुर्वत्सु छात्रमुन्यादिषु । सदा सौमनस्यं शुभं हर्षादिकम्। आचार्यं करणीयम् । कंः उपायः इत्याह आवासेति - आवासः वसतिका । पुस्तकं शास्त्रम् । आहारः मुत्युपयोगि प्रकृत्यनुकूलम् अन्नदानम् । सौकर्यादिविधानकैः अन्यश्रुतसाधनानां सोलभ्यकारणैः । श्रुतस्कन्धेति — श्रुतस्कन्धधरात्यये श्रुतस्कन्धस्य अङ्गपूर्वज्ञानस्य धरणे समर्थानां मुनीनाम् अत्यये विनाशे । निर्मूलतः सर्वम् अङ्गपूर्वप्रकीर्णोक्तम् - अङ्गेषु एकादशसु पूर्वेषु चतुर्दशसु च यदुक्तं श्रुतज्ञानं तन्नश्येत् । तथा सूक्तम् - सुष्ठु उक्तं निर्दोषं प्रतिपादितं केवलिभाषितं जिनेश्वरप्रोक्तं सर्वं नश्येत् । अतः गृहाश्रितैः संयमिनां व्याधेः प्रतीकारः कार्यः । प्रश्रयोत्साहतेति - प्रश्रयो विनयः । उत्साहः उद्यमः । सतत प्रयत्ने साहाय्यदानम् । आनन्दवर्धनम् । स्वाध्यायोचितवस्तुभिः श्रुतवृद्धान् मुनीन् जनयन् श्रावकः श्रुतपारगः सकलश्रुतधारकः जायते । ८३८-८४१ ॥ श्रुताच्छ्र ताभावाच्च किं स्यादिति निवेदयति-श्रुतात् श्रुतरक्षणात् तत्त्वज्ञानं जीवादितत्त्वबोधः जायते । श्रुतात् श्रुतपालनात् समयवर्धनं स्वमतप्रभावना भवति । श्रेयोऽथिनां मुक्त्यभिलाषिणां श्रुताभावे एतत्सर्वं जीवादितस्त्रज्ञानं स्वमतप्रभावना च विनश्यति सर्वं तमस्यते अन्धकारकल्पं भवति ॥८४२॥ अवधारणवदिति- - यथा अस्त्रधारणं सुलभं तथा नराः बाह्ये क्लेशे सुलभाः । परं तथा शौण्डीराः पराक्रमिणो वीराः दुर्लभाः तथा यथागमज्ञानवन्तो नरा: यथार्थज्ञानसंपन्नाः दुर्लभाः || ८४३ || ज्ञानभावनयेति - ज्ञानभावनयोर्हीने ज्ञानाभ्यासाय सततं प्रयत्नम् अकुर्वति कायक्लेशिनि शरीरक्लेशान् सहमाने नरो केवलं वाहीकवत् भारं वहन्नर इव किंचिद्भारो हीयते, अन्यः वर्धते । तथा कायक्लेशं कुर्वाणे नरि नूतनं कर्मागच्छतिपुरातनं किंचिद् गलति || ८४४ || मोहशमनाय ज्ञानमेव कारणम् - सृणिवदिति - सृणिवत् अंकुशो यथा दन्तिनः करिणः वशाय दमनाय हेतुर्भवति तथा आशयदन्तिनः मोहकरिणो दमनाय ज्ञानम् अंकुशवत् भवति । तदृते ज्ञानादृते । बहिः कायक्लेशाख्यं तपः क्लेश एव पीडैव परम् अतिशयेन भवेत् ||८४५ || ज्ञानभावना श्रेष्ठेतिबहिरिति - ज्ञानं भावयतः आत्मनि आगमाश्रयेण ज्ञानं चिन्तयतः नरस्य संनिधौ बहिः अनशनादितपः स्वयम् अभ्येति तं प्राप्नोति । यत् यतः अत्र ज्ञानभावनायां क्षेत्रज्ञे आत्मनि निमग्ने एकाग्रचिन्तापरिणते जाते सति । कुतः अपराः क्रियाः रागवर्धकाः स्युः वीतरागविज्ञानरूपायां परिणतो जातायां जीवे कर्मागमनं न भवति । संवरः च जायते ||८४६ || यदज्ञानीति - अज्ञानी आत्मज्ञानशून्यः केवलं बाह्यं कायक्लेशं कुर्वाणो जीवः । बहुभिः युगैः कर्म क्षपयेत् विनाशयेन्न वा । परं योगसंपन्नः एकाग्रचित्तः ज्ञानी । ध्रुवं निश्चयेन | क्षणतः मुहूर्तादेव । कर्म क्षपयेत् दहेत् । मिथ्याज्ञानी कर्मक्षयं न करोति, सम्यग्ज्ञानी क्षणात्कर्मराशि भस्मभावं नयति ॥ ८४७ ॥ ज्ञानीति - अखिले बहिव्रते अनशनादी । क्लेष्टुः क्लेशं सहमानात् यतेः । ज्ञानी मुनिः पटुः

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664