Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 525
________________ -पृ० १२४ ] उपासकाध्ययनटीका ४०३ शुद्धान्तरात्मनि शुद्धे निजे अन्तरात्मनि स्वस्वरूपे संपन्नः प्रवृत्ति कुर्वन् आत्मा हिंसकोऽपि न हिंसकः । अयत्नाचारस्य नरस्त्र निश्चिता हिंसा प्रयतस्य समितस्य हिंसामात्रेण बन्धो नास्ति हिंसाध्यवसायरहितत्वात, निष्प्रमादप्रवृत्तिकत्वात् ॥२५१॥ मनःसंकल्पात पापं वा पुण्यं वा जायते । पुण्यायेति-स्वस्मिन स्वजीवे, अन्यत्र अन्यस्मिन् जीवे नीतं कृतं दुखं पुण्याय भवेत् । तत्कथमिति चेदुच्यते-यदि स्वस्य हिताय व्रत-तप आदिकं क्रियमाणं दुःखरूपं सदपि दयादिसद्भावनारूपत्वात् पुण्यायव भवेत् । अन्यत्र वा शिष्यादिषु प्रतिपाद्यमानं व्रततप आदिकं तैर्वा कार्यमाणं दुःखरूपं सदपि पुण्याय भवेत तथा स्वजीवे अन्यत्र वा शिष्यादिजीवे नोतं कृतं सुखं पापाय भवेत् । यथा विषयेषु स्वस्य निरतत्वात् सुखं भवेत् तथापि तत्र कृता रतिस्तीवरागभावात् पापबन्धाय भवेत् । यद्यपि संप्रति कृता प्रवृत्तिः सुखाय जातेति प्रतिभाति तथापि आयत्याम् अध्यवसानानां मलिनत्वात् पापायैव सा प्रवृत्तिर्भवेत् । अतः चित्तस्य चेष्टितं प्रवत्तिः अचिन्त्यम् अतर्क. गोचरम् ॥२५२॥ सुखेति-सुखस्य विधानम् अकुर्वन्, दुःखस्यापि विधानम् अकुर्वन् नरः पापसमाश्रयो भवेत् पापेन लिप्येत । संकटेशपरिणामत्वात् नरः अन्यं सुखिनं दुःखिनं वा कुर्वन् पापभाजनं भवेत, पेटीमध्ये मञ्जूषायां विनिक्षिप्तं स्थापितं वासः वस्त्रं मलिनं न स्यात् किम् । बहिःस्थितं वस्त्रं रजसा मलिनं भवति परं मञ्जूषायां तन्मलिनं किं न स्यात् क्रोधादिकषायावेशात् सुखम् अददानो दुःखं वा पापभागेव भवति मानवः ॥२५३॥ [पृष्ठ १२३-१२४ ] अध्यवसानानां त्रित्वं प्रतिपादयति-बहिरिति-बाह्येन देहादिना हिंसापरोपकारादि-शुद्धाशुद्धकार्यकरणेऽक्षमोऽपि हृदि मनसि हृद्येव मनसि संस्थिते परं पापं तीव्रतमं पापम्, विशुद्धतमं पुण्यं परमं पदम् अनन्तगुणचतुष्टयात्मकं मोक्षपदं च भवेत् जीवस्य । मनसि तीव्रसंक्लेशपरिणामसंतप्ते जीवस्य तीव्रतमपापबन्धो भवति । परोपकारादिविमर्शः सम्यग्दर्शनादिगुणप्रापकैः परं पुण्यं भवति । तथा नितरां रागद्वेषरहितेषु शद्धोपयोगेषु सलीने हृदि सकलकर्मक्षयो भवति ततश्च परमं पदं मोक्षो भवति । जीवम्य अशभध्यानेन पापं स्यात्, शुभेन पुण्यम् परमशक्लेन परं पदं वित्तमेव स्यात् ॥२५४।। प्रकुर्वाण इति-तास्ताः क्रियाः प्रकुर्वाणः अनशनादितपांसि, सामायिकादीनि षडावश्यक कर्माणि कुर्वाणः नरः केवलं क्लेशभाजनः शरीर-क्लेशानां पात्रं स्यात् उचितमेवेतत्तस्य यतो यश्चित्तप्रचारज्ञः न, यः धर्मध्याने जीवादितत्त्वचिन्तने मनः न प्रचारयति, कमुपायमवलम्ब्य जीवादितत्त्वरूपे मनसः प्रचारः कर्तव्यः, तत्र का युक्तिरिति यो न जानाति तस्य मोक्षपदलाभः कुतो भवेत् ॥२५५॥ सम्यग्ज्ञानस्य स्वरूपम्-यदिति-यत् यथावस्थं यस्य या या यथार्थाः अवस्थाः सन्ति तास्ता अनतिक्रम्य अजसा अविसंवादित्वेन वस्तुसर्वस्वम् वस्तुनः सर्वस्वं सर्वधनं गुणपर्यायादिरूपं सर्वधर्मान् वा जानाति तत्सम्यग्ज्ञानम् उच्यते तत् नणां नराणां तृतीयं लोचनं नयनं ज्ञेयम् ॥२५६॥ यष्टिवदिति-जनुषान्धस्य जन्मान्धस्य नः यष्टिवत यष्टिरिव दण्ड इव प्रवत्ति विनिवृत्त्यङ्गं यथा यष्टिः तस्यान्धस्य प्रवृत्ती गमने अङ्गं कारणं भवति, विनिवृत्त्यङ्गं च मार्ग निम्नोन्नत ज्ञापयित्वा ततो निवत्तौ अंङ्गं कारणं जायते तथा तत्सम्यग्ज्ञानं सुकृतचेतसः पुण्यवन्मनसो नरस्य हिताहितविवेचनात् हितं सुखं तत्साधनं -रत्नत्रयम्, अहितं दुःखं तत्साधनं मिथ्यात्वादिकं तयोविवेचनात् संशयादिदोषाभावप्रकारेण प्रतिपादनात् ॥२५७।। - मतिरिति-मतिः इन्द्रियानिन्द्रियनिमित्तम् अवग्रहादिज्ञानम् सा दृष्टेऽर्थे जागति इन्द्रियानिन्द्रियपरिच्छेदनयोग्य वस्तुनि जागति प्रकटीभवति । आगमः दृष्टे अदष्टे च वस्तुनि सूक्ष्मान्तरितदूरार्थेऽदष्टे वस्तुन्यागमः जागति । यदि मन: जैनदर्शने निर्मत्सरं द्वेषरहितं स्यात्तस्य दुर्लभं तत्त्वं न । स्याद्वादाद्वस्तुयाथात्म्यं ज्ञायते सम्यग्दष्टिनेति भावः ॥२५८॥ यदि आगमेन मत्या च अर्थे जीवादिवस्तुसंदोहे दर्शितेऽपि प्रतिपादितेऽपि जन्तोः मतिः संतमसा अज्ञानबहला स्यात् तहि तस्य नरस्य ज्ञानं वृथा स्यात् । यथा रविरिपोः घूकस्य आलोक: दिनकरप्रकाशः व्यर्थः स्यात् ॥२५९॥ ज्ञातुरिति-यत् अबाधेऽपि वस्तुनि बाधारहितेऽपि पदार्थे कथंचिन्नित्यानित्यात्मके कथंचिद्भेदाभेदात्मके वस्तुन्यपि मतिः बुद्धिः विपर्ययं सर्वथा नित्यात्मकं सर्वथा अनित्यात्मकं सर्वथैकान्तस्वरूपं वस्तु इति विपरीतावस्थां धत्ते सत्र ज्ञातुः आत्मनः प्रमातुरेव स दोषः यतः स मिथ्यात्वतमसावृतः यथा इन्दो चन्द्रे मन्दचक्षुषः तिमिरोपहतनयनस्य मतिः बुद्धिः विपर्ययं धत्ते नभसि सा चन्द्रद्वयं पश्यति वा चन्द्रं नीलं कृष्णादिकं वा पश्यति ॥२६॥

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664