Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 601
________________ -पृ० २५२] उपासकाध्ययनटीका ४७६ सिद्धक्रमैरेव, यथा मन्त्राणां क्रमः प्राचाम् आचार्याणां मते सिद्धः तथैव तमाश्रित्येव जपः कार्यः इति निगिरामि । यथागमे जपविषये क्रमः श्रूयते तथा स जपो जप्यः ॥५९८॥ पातालेति-पातालेषु भावनेषु । म]पु मनुजेषु । खेचरेषु विद्याधरेषु सुरेषु देवेषु सिद्धक्रमस्य मन्त्रस्य संसिद्धेः सिद्धिर्भवतीति हेतोः अधिगानात् प्रामाण्यात अधिकप्रतिपत्तेः आदरात् समवाये जनसमुदाये, देवयात्रायाम् देवप्रतिष्ठादौ । सिद्धक्रमस्य मन्त्रस्यैव प्रामाण्यं श्रूयते ।।५९९।। जपकरणविधिः-पुष्पैरिति-पर्यस्थः पद्मासनेन स्थितः निष्कम्पितम् अचलितम् अक्षवलयम् अक्षाणाम् इन्द्रियाणां वलयं येन सर्वाणि इन्द्रियाणि संयम्य जपं कुर्यादिति भावः । कः जपो विधेय इत्याह-पुष्पैः कुसुमैः, पर्वभिः अङ्गलिग्रन्थिभिः, अम्बुजबोजैः कमलबीजेः, स्वर्णमणिभिः, अर्ककान्तरत्नैर्वा सूर्यकान्तमणिभिर्वा जपः कार्यः । अथवा निष्कम्पितम् अचलितम् अक्षवलयम् जपमाला यस्य सः जपी जपं कुर्यात् । कमलबीजमालया, स्वर्णमणिमालया, सूर्यकान्तमणिमालया वा जपो विधीयेत जपिना ॥६००। अगुष्ठे इति-मोक्षार्थी इदम् अक्षवलयं जपमालाख्यम्, अङ्गष्ठे तथा तर्जन्याम् अङ्गष्ठसमीपाङ्गल्यां बहिः बाह्ये नयतु संचारयत् । पुनः ऐहिकापेक्षी धनधान्याद्यपेक्षां कुर्वाणः इतरासू अङ्गलीष मध्यमानामिका. द्यङ्गलीषु अन्तः बहिश्च तां नयतु संचारयतु । (जाप्ये कृते सति बहिर्वस्तु उच्चाटनीयं जाप्यः प्रापयतु इतिटिप्पण्याम्) ॥६०१॥ वचसेति-वचसा वाण्या, मनसा वा चित्तेन वा समाहितस्वान्तः ध्येये निश्चलीकृतमनोभिः, जाप्यः कार्य: जपो विधातव्यः, आद्ये जाप्ये वाण्या कृते जाप्ये शतगुणं पुण्यम्, द्वितीये मनसा कृते जाप्ये वचनमनुक्त्वा विधेये जाप्ये सहस्रगुणितं पुण्यं जायते । वचःकृते जाप्ये मनसः स्थिरत्वात् शतगुणं पुण्यं मनोविहितजाप्ये ततोऽपि मनसः स्थिरतरत्वात सहस्रगुणं पुण्यं लभ्यते ॥६०२।। नियमितेति-नियमितः स्वस्वविषयादाकृष्य आत्मनि नियन्त्रितः करणग्राम इन्द्रियगणो येन । स्थानेति जिनालयादिकं स्थानम् । पद्मासनादिकम् आसनम् । मानसस्य चित्तस्य प्रचारः नाभिनेत्रललाटादिषु संचारणं मनःप्रचारः इत्यादिजप साधनानि जानन् । पुनः कथंभूतः । पवनेति-कुम्भकरेचकादिवायुधारणरेचनाद्युपायज्ञः पुमान् सम्यसिद्धः भवेत् अशेषज्ञश्च स्यात् ॥६०३।। इममेवेति-पञ्चत्रिंशत्प्रकारवर्णस्थं पञ्चाधिकत्रिंशदक्षरोपेतम् इममेव मन्त्रं 'णमोअरिहंताण' इत्यादिरूपं प्रसिद्धम् । मनयः परमपदावाप्तये मक्तिपदलाभाय । विधिवत नियमितकरणग्राम इति श्लोकोक्तविधिमनुसृत्य जपन्ति ॥६०४॥ मन्त्राणामिति-अखिलानां मन्त्राणाम् अयं एकः पञ्चनमस्कारमन्त्रः सिद्धः सन् कार्यकृद्भवेत् इष्टं कायं कुर्यात् । परे तु सर्वे मन्त्राः अस्य णमो अरिहंताणं एतावन्मात्रस्व एकदेशकार्य न कुर्युः । सर्वेषु मन्त्रेषु अयमेव मन्त्रः श्रेष्ठः ॥६०५।। कुर्यादिति-अङ्गुष्ठमारम्य कनिष्ठिकापर्यन्तं करयोः वामदक्षिणकरयोः प्रकारयुगलेन (?) विधिपूर्वकाङ्गलिरेषा करन्यासं कुर्यात् । न्यासं कृत्वा पञ्चनमस्कारमन्त्रम् उभयकरयोरङ्गलीषु लिखित्वा। तदनु हृदाननमस्तककवचास्त्रविधिः मनोमुखशिरःसु कवचविधिम् अस्त्रविधि च कुर्यात् । कवचस्य विधिः कं देहं वञ्चति विपक्षास्त्राणि वञ्चयित्वा रक्षति इति कवचः तस्य विधिः मन्त्रोच्चारेण सकलीकरणविधानं विधातव्यः। एतत्सर्व जपात्पूर्व विधातव्यमित्यर्थः ॥६०६॥ संपूर्णेति-संपूर्णमति स्पष्टं । सनादं बिन्दुसहितं ॐकारं पञ्चपरमेष्ठिवाचकम्, आनन्दसुन्दरम् आनन्देन आत्मानुभवसुखेन सुन्दर रमणीयम् । जपतः अस्य मुनेरुपासकस्य वा सर्वेषां समोहितानाम् अभिलषितानाम् अभ्युदयनिःश्रेयसां सिद्धिः प्राप्तिः निःसंशयं संजायेत भवेत् ॥६०७॥ मन्त्र इति-परत्र मन्त्रे अन्यस्मिन्मन्त्रे ऋषिमण्डलादिमन्त्रे। फलोपलम्भे अभिलषितप्राप्तो सत्यामपि । अयमेव पञ्चपरमेष्ठिमन्त्रः सेव्य आराध्यः। यद्यपि अग्रे शाखादिषु । विटपी वृक्षः। फलति प्रादुर्भूतफलो भवति । तथापि तस्य वृक्षस्य मुलं जलेन सिच्यते । तदसिञ्चने न फलोपलब्धिस्तथा अस्मिन्मन्त्रे सेव्यमाने इतरेभ्य एतन्मूलकेभ्यो मन्त्रेभ्यः फललाभो भवेत् ॥६०८॥ अत्रामुत्रेति-गुरुपञ्चकवाचकान्मन्त्रात् पञ्चपरमेष्ठिमन्त्रात् । आरोपमन्त्रः अत्र अस्मिन् लोके। परत्र च स्वर्गादौ च । नियतं निश्चयेन कामितफलसिद्धये अभीष्टफललाभाय । नाभूत नाभवत् । नास्ति न भवति । न भविष्यति च ॥६०९॥ अभिलषितेति-अस्मिन् मन्त्रे इष्टपदार्थदाने सुरगोसदृशे सति कामधेनुसदृशे सति तथा अस्मिन्मन्त्रे दुरितं पापं तदेव द्रुमः तरुः तस्य पावकेऽग्निसदृशे सति । दृष्टादष्टफले दृष्टं लब्धम् ऐहलौकिकं धनादिकम् अदष्टं पारलौकिकं स्वर्गादिफलं यस्य तथाभूते सति परत्रमन्त्रे

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664