________________
-पृ० २५२]
उपासकाध्ययनटीका
४७६
सिद्धक्रमैरेव, यथा मन्त्राणां क्रमः प्राचाम् आचार्याणां मते सिद्धः तथैव तमाश्रित्येव जपः कार्यः इति निगिरामि । यथागमे जपविषये क्रमः श्रूयते तथा स जपो जप्यः ॥५९८॥ पातालेति-पातालेषु भावनेषु । म]पु मनुजेषु । खेचरेषु विद्याधरेषु सुरेषु देवेषु सिद्धक्रमस्य मन्त्रस्य संसिद्धेः सिद्धिर्भवतीति हेतोः अधिगानात् प्रामाण्यात अधिकप्रतिपत्तेः आदरात् समवाये जनसमुदाये, देवयात्रायाम् देवप्रतिष्ठादौ । सिद्धक्रमस्य मन्त्रस्यैव प्रामाण्यं श्रूयते ।।५९९।। जपकरणविधिः-पुष्पैरिति-पर्यस्थः पद्मासनेन स्थितः निष्कम्पितम् अचलितम् अक्षवलयम् अक्षाणाम् इन्द्रियाणां वलयं येन सर्वाणि इन्द्रियाणि संयम्य जपं कुर्यादिति भावः । कः जपो विधेय इत्याह-पुष्पैः कुसुमैः, पर्वभिः अङ्गलिग्रन्थिभिः, अम्बुजबोजैः कमलबीजेः, स्वर्णमणिभिः, अर्ककान्तरत्नैर्वा सूर्यकान्तमणिभिर्वा जपः कार्यः । अथवा निष्कम्पितम् अचलितम् अक्षवलयम् जपमाला यस्य सः जपी जपं कुर्यात् । कमलबीजमालया, स्वर्णमणिमालया, सूर्यकान्तमणिमालया वा जपो विधीयेत जपिना ॥६००। अगुष्ठे इति-मोक्षार्थी इदम् अक्षवलयं जपमालाख्यम्, अङ्गष्ठे तथा तर्जन्याम् अङ्गष्ठसमीपाङ्गल्यां बहिः बाह्ये नयतु संचारयत् । पुनः ऐहिकापेक्षी धनधान्याद्यपेक्षां कुर्वाणः इतरासू अङ्गलीष मध्यमानामिका. द्यङ्गलीषु अन्तः बहिश्च तां नयतु संचारयतु । (जाप्ये कृते सति बहिर्वस्तु उच्चाटनीयं जाप्यः प्रापयतु इतिटिप्पण्याम्) ॥६०१॥ वचसेति-वचसा वाण्या, मनसा वा चित्तेन वा समाहितस्वान्तः ध्येये निश्चलीकृतमनोभिः, जाप्यः कार्य: जपो विधातव्यः, आद्ये जाप्ये वाण्या कृते जाप्ये शतगुणं पुण्यम्, द्वितीये मनसा कृते जाप्ये वचनमनुक्त्वा विधेये जाप्ये सहस्रगुणितं पुण्यं जायते । वचःकृते जाप्ये मनसः स्थिरत्वात् शतगुणं पुण्यं मनोविहितजाप्ये ततोऽपि मनसः स्थिरतरत्वात सहस्रगुणं पुण्यं लभ्यते ॥६०२।। नियमितेति-नियमितः स्वस्वविषयादाकृष्य आत्मनि नियन्त्रितः करणग्राम इन्द्रियगणो येन । स्थानेति जिनालयादिकं स्थानम् । पद्मासनादिकम् आसनम् । मानसस्य चित्तस्य प्रचारः नाभिनेत्रललाटादिषु संचारणं मनःप्रचारः इत्यादिजप साधनानि जानन् । पुनः कथंभूतः । पवनेति-कुम्भकरेचकादिवायुधारणरेचनाद्युपायज्ञः पुमान् सम्यसिद्धः भवेत् अशेषज्ञश्च स्यात् ॥६०३।। इममेवेति-पञ्चत्रिंशत्प्रकारवर्णस्थं पञ्चाधिकत्रिंशदक्षरोपेतम् इममेव मन्त्रं 'णमोअरिहंताण' इत्यादिरूपं प्रसिद्धम् । मनयः परमपदावाप्तये मक्तिपदलाभाय । विधिवत नियमितकरणग्राम इति श्लोकोक्तविधिमनुसृत्य जपन्ति ॥६०४॥ मन्त्राणामिति-अखिलानां मन्त्राणाम् अयं एकः पञ्चनमस्कारमन्त्रः सिद्धः सन् कार्यकृद्भवेत् इष्टं कायं कुर्यात् । परे तु सर्वे मन्त्राः अस्य णमो अरिहंताणं एतावन्मात्रस्व एकदेशकार्य न कुर्युः । सर्वेषु मन्त्रेषु अयमेव मन्त्रः श्रेष्ठः ॥६०५।। कुर्यादिति-अङ्गुष्ठमारम्य कनिष्ठिकापर्यन्तं करयोः वामदक्षिणकरयोः प्रकारयुगलेन (?) विधिपूर्वकाङ्गलिरेषा करन्यासं कुर्यात् । न्यासं कृत्वा पञ्चनमस्कारमन्त्रम् उभयकरयोरङ्गलीषु लिखित्वा। तदनु हृदाननमस्तककवचास्त्रविधिः मनोमुखशिरःसु कवचविधिम् अस्त्रविधि च कुर्यात् । कवचस्य विधिः कं देहं वञ्चति विपक्षास्त्राणि वञ्चयित्वा रक्षति इति कवचः तस्य विधिः मन्त्रोच्चारेण सकलीकरणविधानं विधातव्यः। एतत्सर्व जपात्पूर्व विधातव्यमित्यर्थः ॥६०६॥ संपूर्णेति-संपूर्णमति स्पष्टं । सनादं बिन्दुसहितं ॐकारं पञ्चपरमेष्ठिवाचकम्, आनन्दसुन्दरम् आनन्देन आत्मानुभवसुखेन सुन्दर रमणीयम् । जपतः अस्य मुनेरुपासकस्य वा सर्वेषां समोहितानाम् अभिलषितानाम् अभ्युदयनिःश्रेयसां सिद्धिः प्राप्तिः निःसंशयं संजायेत भवेत् ॥६०७॥ मन्त्र इति-परत्र मन्त्रे अन्यस्मिन्मन्त्रे ऋषिमण्डलादिमन्त्रे। फलोपलम्भे अभिलषितप्राप्तो सत्यामपि । अयमेव पञ्चपरमेष्ठिमन्त्रः सेव्य आराध्यः। यद्यपि अग्रे शाखादिषु । विटपी वृक्षः। फलति प्रादुर्भूतफलो भवति । तथापि तस्य वृक्षस्य मुलं जलेन सिच्यते । तदसिञ्चने न फलोपलब्धिस्तथा अस्मिन्मन्त्रे सेव्यमाने इतरेभ्य एतन्मूलकेभ्यो मन्त्रेभ्यः फललाभो भवेत् ॥६०८॥ अत्रामुत्रेति-गुरुपञ्चकवाचकान्मन्त्रात् पञ्चपरमेष्ठिमन्त्रात् । आरोपमन्त्रः अत्र अस्मिन् लोके। परत्र च स्वर्गादौ च । नियतं निश्चयेन कामितफलसिद्धये अभीष्टफललाभाय । नाभूत नाभवत् । नास्ति न भवति । न भविष्यति च ॥६०९॥ अभिलषितेति-अस्मिन् मन्त्रे इष्टपदार्थदाने सुरगोसदृशे सति कामधेनुसदृशे सति तथा अस्मिन्मन्त्रे दुरितं पापं तदेव द्रुमः तरुः तस्य पावकेऽग्निसदृशे सति । दृष्टादष्टफले दृष्टं लब्धम् ऐहलौकिकं धनादिकम् अदष्टं पारलौकिकं स्वर्गादिफलं यस्य तथाभूते सति परत्रमन्त्रे