________________
४८० पं० जिनदासविरचिता
[पृ० २५२ अन्यमन्त्रे जनः कथं सज्जतु कथमासक्तो भवतु ॥६१०॥ इत्थमिति-मनसि स्वचित्ते बाह्यं मनः बहिः पुद्गलादो प्रवर्तमानं मनः बाह्यम् उच्यते तत् अबाह्यवृत्ति अन्तरुन्मुखं कृत्वा आत्मस्वरूपरतं विधाय । हृषीकनगरम् इन्द्रियपुरम् । मरुता वायुना नियम्य नियन्त्र्य । सम्यग्जपं प्रयत्नात् विदधतः कुर्वतः सुधियः विदुषः अस्य कृतिनः पुण्यवतः किम् असाध्यं अस्ति न किमप्यसाध्यम् ॥६११॥
इत्युपासकाध्ययने जपविधिर्नामाष्टत्रिंशत्तमः कल्पः ।।३।।
३९. ध्यानविधिर्नामैकोनचत्वारिंशः कल्पः। [पृष्ठ २५२-२५७ ] आदिध्यासुरिति-परं ज्योतिः आदिध्यासुः परम् उत्तमं ज्योतिः निरावरणज्ञानं यस्य तम् अर्हन्तम् आदिध्यासुः ध्यानविषयं कर्तुम् इच्छन् । शाश्वतं तद्धाम ईप्सुः शाश्वतम् अविनश्वरं तदाम तस्य अर्हतः धाम स्थानं मुक्तिपुरम् ईप्सुः वाञ्छन् समाहितः सम्यक् प्रणिधानं गतः उपासकः । इमं ध्यानविधि यत्नादम्यस्यतु ॥६१२॥ तत्त्वेति-तत्त्वस्य अहंदादिपरमेष्ठिस्वरूपस्य जीवादितत्त्वस्य वा या चिन्ता ध्यानं सा एव अमृताम्भोधिः सुधासमुद्रः तस्मिन् दृढमग्नतया दृढं निःसंदेहं मग्नतया बुडितत्वात् । मनः बहियाप्ती बाह्ये योषित्कनकादिवस्तुनि जडं कृत्वा ततस्तदाकृष्येत्यर्थः । द्वयमासनं पद्मासनम् अर्धपल्यङ्कासनं च आचरेत् । तदासनेन स्थित्वा ध्यानं क्रियतामित्यर्थः ॥६१३॥ सूक्ष्मेति:-सूक्ष्मः उच्छ्वासनिःश्वासः तस्य यमः प्रवेशः आयामो निर्गमः । सन्नेति-सन्नः नष्टः सर्वाङ्गानां सञ्चर: चलनं यस्य सः स्थिरीभूतसर्वाङ्गः । ग्रावोत्कीर्णः इव ग्रावणि पाषाणे उत्कीर्ण इव उट्टङ्कित इव आसीत उपविशेत । किं कुर्वन ध्यानेति-ध्यानानन्दसुधां लिहन आत्मस्वरूपैकाग्रतयोत्पन्नात्मानुभवसुखपीयूषमास्वदमानः ॥६१४॥ यदेन्टियाणीति-यदा यस्मिन समये पञ्चापि इन्द्रियाणि स्पर्शनादीनि पञ्चभावेन्द्रियाणि । आत्मस्थानि आत्मन्येव तिष्ठन्ति स्पर्शरसादिविषयान् विमुच्य आत्मनि ज्ञानदर्शनलक्षणे स्थिरीभवन्ति । तदा तस्मिन्काले। अन्तश्चित्ते ज्योतिः निरावरणं ज्ञानं स्फुरति उद्गच्छति तथा चित्ते स्वस्वरूपे एव निमज्जति। बाह्ये वस्तुनि ज्योती रागद्वेषमोहाकुलं न भवतीति भावः ॥६१५॥ ध्यानध्यातृध्येयतत्फलान्याह-चित्तस्येति-चित्तस्य मनसः एकाग्रता एकस्मिन् अग्रे वस्तुनि गुणे पर्याये वा स्थिरीकरणं ध्यानमुच्यते । आत्मा ध्याता कथ्यते, ध्याने कृते सति ततो यत् फलं लभ्यते तेन स ध्याता ध्यानफलस्वामी ध्यातेत्युच्यते । ध्येयम् आगमज्योतिः आत्मा आगमज्ञानसंपन्नः जीवः ध्येयम् । देहयातना तद्विधि: कायक्लेशः। एवं ध्यानादीनां चतुर्णा स्वरूपमुक्तम् ॥६१६॥ तैरश्चमिति-तिरश्चामिदं तैरश्चं पशुभिः कृतम् । अमरैर्देवैः कृतम् । मायं मयैर्मनुजैः कृतम् । नाभसं नभसो जातम् वज्रादिकृतमित्यर्थः, भौमं भूमेर्जातम् भूकम्पादिकम् । अङ्गजम् अङ्गात् जायते इति अङ्कजं रोगादिकम् । एतत्सर्वम् अन्तरायं सहेत । एतेभ्यो जातानाम् अन्तरायाणां सहनं कुर्यात् । कथंभूतः ध्याता द्वयातिगः द्वयं रागद्वेषो अतिगच्छति इति द्वयातिगः रागद्वेषरहितः सन् । रागद्वेषयोरुभृत्या आध्यानं रौद्रध्यानं चोद्भवेत् । अतः तो विमुच्य उपसर्गाश्च सोढ्वा, धर्म्य ध्यानं ध्यायेत् ॥६१७॥ नाक्षमित्वमिति - अक्षमित्वं क्षमारहितत्वम् अविघ्नाय विघ्ननाशाय न भवति । क्लीबत्वं कातरत्वं अमत्यवे मरणरहितत्वाय न भवति । तस्मात् ततः अक्लिश्यमानात्मा संक्लेशपरिणामरहितः परं ब्रह्मव शुद्धमात्मस्वरूपमेव चिन्तयेत् विमृशेत् ॥६१८॥ यत्रेति - यत्र यस्मिन् स्थाने ग्रामनगरादो। इन्द्रियग्रामः इन्द्रियशब्देन अत्र स्पर्शादिविषयाः गृह्यन्ते विषयेषु विषयिणामपचारात । तेषां ग्रामः समहः, इन्द्रियग्रामः, यत्र इन्द्रियविषयाः स्पर्शादयः सन्ति तत्र ध्याता न तिष्ठेत् । यत्र इन्द्रियाणां व्यासंगः आसक्तिः संभवेत तत्र ध्याता न तिष्ठेत् । विशेषेण आसंगः आसक्तिः व्यासंगः विषयलोलता। तेन व्यासंगेन यत्र ध्येयचिन्तने विप्लवं विघ्नं ध्याता नाश्नुवीत न प्राप्नुयात् तमुद्देशं तत्स्थानं ध्याता अध्यात्मसिद्धये स्वस्वरूपलाभाय भजेत् आश्रयेत् ॥६१९॥ देहस्य रक्षा कर्तव्या, किमर्थम् । फल्गुजन्मेति - फल्गुजन्मा फल्गु व्यर्थं विफलं जन्म