________________
- पृ० २६१ ]
उपासकाध्ययनटीका
४८१
यस्य तथाभूतः अपि अयं देहः । यत् यस्मात्कारणात् अलाबुफलायते तुम्बीफलसदृशो भवति । कस्मिन् विषये संसारसागरोत्तारे भवसमुद्रतरणे । तस्मात् ततः प्रयत्नात् रक्ष्यः । अलाबुफलं कटुत्वाद्भक्षणानर्हम् अतस्तस्य फल्गुजन्म तथापि तेन नरः नदीसमुद्रादिकं तरति तथा अयं नरदेहः पश्वादिदेहवत् नोपयुज्यते अतो फलस्तथापि अनेनैव संसारसागरस्तरीतुं शक्यते न पशुदेहेन देवदेहेन वा । अतः नृदेहोऽयं प्रयत्नेन रक्षणीयः || ६२० || नरे इति - यथा अधीरे धैर्यरहिते पुरुषे वर्म तनुत्रं कवचो वृथा विफलम् । असस्ये क्षेत्रे सस्यं धान्यं तद्यत्र न तत्क्षेत्रम् असस्यं धान्यरहितम् । तत्र वृतिः आसमन्तात् कण्टकादिभिः परिवरणं व्यर्था । तथा ध्यानशून्यस्य तद्विधिः वृथा अनैकाग्र्यवतः नरस्य आसनादिकम् विविक्तस्थानं च वृथा स्यात् ॥ ६२१॥ बहिरन्तरिति - यथा वातैः अस्पन्दो निश्चलो दीप: आलोकनेन बहिःप्रकाशेन उल्लासी शोभमानो भवति । तथा अन्तस्तमोवातैः अन्तः आत्मनि स्थितानि यानि तमांसि अज्ञानानि तान्येव वाताः वायवस्तैः अस्पन्दं निश्चलं मनश्चित्तं यत् यस्मात् तत्वावलोकनोल्लासि जीवादिसप्ततत्त्वदर्शनेन उल्लासि शोभमानं भवति । तदा तत् ध्यानं सबीजं कारणं बीजं तेन सहितं भवति । सालम्बनं तद्द्ध्यानं भवति इति ज्ञेयम् ॥ ६२२ || निर्वि चारेति - चेतः स्रोतः प्रवृत्तिषु चेतसः मनसः स्रोतांसि प्रवाहाः तेषां प्रवृत्तयः व्यापाराः तासु । कथंभूतासु निविचारावतारासु । विचार : एकस्माद्धयेयात् अन्यस्मिन् ध्येये मनसः प्रवृत्तिः विचारः तस्य अवतार आगमनं तद् यत्र न ताः निर्विचारावताराः । स्वस्मिन् विषये एव मनःप्रवृत्तिषु स्थिरासु जातासु आत्मनि एव स्फुरन् आत्मा ज्ञानदर्शनवति स्वरूपे एव विजृम्भमाणः जीव: । अबीजकं ध्यानं भवेत् । एकत्ववितर्कावीचाराख्यं ध्यानं भवेत् । इति भावः ।। ६२३ || चित्ते इति - अनन्तप्रभावे न अन्तः विनाशः यस्य स अनन्त: स प्रभावः सामर्थ्यं यस्य तत् अनन्तप्रभाव तस्मिन् चित्ते मनसि । पुनः कथंभूते प्रकृत्या स्वभावेन रसवत् पारदवत् चले चञ्चले सति । तत् मनः तेजसि आत्मनि ज्ञाने च स्थिरे जाते सति । जगत्त्रये किं न सिद्धं भवेत् आत्मनि ज्ञानेच मनसि स्थिरे भूते सर्वा अभ्युदयनिःश्रेयससंपदो लभ्यन्ते यथा पारदे तेजसि अग्नी निश्चलीभूय सिद्धे सति सुवर्णादिसिद्धिर्भवति ॥ ६२४ || निर्मनस्के - मनोहंसे निर्मनस्के निर्विचारे सति । हंसे आरमहंसे सर्वतः स्थिरे सति । संकल्पविकल्पमुक्ते सति । बोधहंसः ज्ञानहंस: अखिलालोक्यस रोहंसः अखिलानि सर्वाणि तानि आलोक्यानि विलोकितुं ज्ञातुं योग्यानि जीवादिवस्तूनि तान्येव सरः सरोवरं तत्रत्यः हंसः जायते भवति । चित्ते रागद्वेषविहीने सति आत्मा आत्मन्येव स्थिरो भवति ततश्च स ज्ञानावृत्त्यादिघातिकर्मक्षयात् अखिलज्ञो भवति || ६२५ || यद्यप्यस्मिन् इति - यद्यपि अस्मिन्मनः क्षेत्रे अस्मिन् चित्तस्थाने । तां तां क्रियां जीवादिध्येयेषु मनस एकाग्रीकरणरूपां तां तां प्रवृत्ति समादधत् सम्यक् कुर्वाणः । किंचिद्भावं किचिज्जीवादितत्त्वानां स्वरूपं वेदयते विशेषतया जानाति, स्वात्मानुभवसुखं चानुभवति । तथापि अत्र न विभ्रमेत् न मुह्येत् । मया आत्मानुभवो लब्धः इति विमर्शेन न हृष्येत् । हेयम् उपादेयं च वस्तु यथावत्पश्येत् इत्यर्थः, अन्यथा रागादिभिः अभिभूतः स्यात् ॥ ६२६ ॥ विपक्षे इति - क्लेशराशीनां दुःखसमूहानां विपक्षे शत्रुभूते अस्मिन् स्वात्मानुभवे अयं विभ्रमः मोहो हर्षो वा यस्मान्न एष विधिर्भवेत् । तस्मात् परं ब्रह्म परमात्मस्वरूपम् अश्रितः ध्याता अस्मिन् विधौ न विस्मयेत नाश्चयं गच्छेत् न दर्प गच्छेत् । दर्पं गते सति आत्मानुभवात् च्युतिर्भवेत् ।। ६२७|| प्रभावेति - प्रभावः अनुभावः । ऐश्वर्यं विभवः । विज्ञानं, देवतासंगमादयः देवतायाः संगमः प्रसन्नताभाव:, आदो येषां ते सर्वे व्यापाराः एतानि सर्वाणि कार्याणि । योगोन्मेषात् ध्यानस्योदयात् ध्यानस्य प्रभावात् भवन्तोऽपि अमी तत्त्वविदां जीवादिस्वरूपज्ञानिनां मुदे आनन्दाय न भवन्ति ॥ ६२८॥
[ पृष्ठ २५८-२६१ ] भूमाविति - यथा रत्नानां जन्म उत्पत्तिः भूमौ भवति इति सत्यं एतावता यत्र कुत्रापि भूमी रत्नजन्म न भवतीति ज्ञातव्यम् । तथा आत्मजं आत्मनो जायते इति आत्मजं ध्यानं नाचेतनेभ्यः पुद्गलादिभ्यस्तज्जन्म इति सत्यं तथापि आत्मजं ध्यानं सिद्धमपि सर्वत्राङ्गिनि सर्वजीवराशी तद्भवेदिति न ग्राह्यम् ।।६२९।। तस्येति — तस्य ध्यानस्य परमम् उत्कृष्टं कालं समयं मुनयः अन्तर्मुहूर्त वदन्ति तावत्कालं मनः अपरिस्पन्दमानं निश्चलम् तत्परं ध्येये स्थिरं भवति । ततः परं मनः दुर्धरं भवति ।। ६३० ॥ तत्कालमपि 'इति - सः अन्तर्मुहूर्तावधिकः कालो यस्य तद्धघानम् आत्मनि एकाग्रम् आत्मविषये स्फुरत् जृम्भमाणं उच्चैः महान्तं
६१