________________
४८२ पं० जिनदासविरचिता
[पृ० २६१ - कर्मोच्चयं ज्ञानावरणादिकर्माष्टकम् भिन्द्यात् । आत्मनः सकाशात् पृथक् कुर्यात् । यथा वज्रम् अशनिः शैलं क्षणात् भिन्द्यात् स्फोटयेत् ॥६३१॥ कल्पैरिति-कल्पैरपि कल्पप्रमाणरपि युगान्तरैरपि चुलुकैः माषमज्जनजलमापैः अम्बुधिः उच्चुलुम्पितुं लोप्तुं न शक्यः असंख्यकल्पकालान् यावत् चुलुकैः समुद्ररिक्तीकरणाय प्रयतमानोऽपि जनः तत्कार्यकरणे समर्थो न भवेत् । परं कल्पान्तभूः वातः युगान्तजो वायुः तं समुद्रं पुनः शोषम् आनयेत् । तथा यदा आत्मध्यानमात्मनि स्फुरति तदा अनन्ताः कर्मस्कन्धाः अन्तर्मुहूर्तेनैव तेन विध्वस्यन्ते ॥६३२।। रूपे मरुतीति-रूपे कामतत्त्वादी मरुति परकायप्रवेशादो चित्ते विशन् प्रवेशं कुर्वन् कामितं वाञ्छितं लभेत यथा तथा अयम् आत्मा आत्मना स्वेनैव आत्मनि स्वस्वरूपे नितरां रतो भवन् कामितम् अभिलषितं शिवम् अनन्तसुखं लभेत प्राप्नुयात्।।६३३।। ध्यानहेतवः-वैराग्यमिति-वैराग्यं संसाराद् भीतिः संवेगः तस्मिन जाते सति धनादीनां क्रोधादीनां च त्यागरूपा परिणतिरुत्पद्यते सैव वैराग्यं भण्यते । ज्ञानसम्पत्तिः अध्यात्मज्ञानप्राप्तिः । असंगः अनासक्तिरूपः परिणामः असंगः । स्थिरचित्तता मनसः एकस्मिन्विषये निश्चलता। ऊमिस्मयसहत्वं च । क्षुत्पिपासे, जरामृत्यू शोकमोहो षडूर्मयः । एताः षडविधाः पीडाः । स्मयो गर्वः सोष्टऽविधः ज्ञानपूजाकुलजातिबद्धितपोवपुषाम् अष्टानां गर्वः। एतेषां सहनम् एते योगस्य ध्यानस्य प्राप्तये पञ्च हेतव कारणानि सन्ति ॥६३४॥ ध्यानान्तराया:-आधीति-आधिर्मानसी व्यथा। व्याधिः शरीरे रोगपीडा । विपर्यासः वस्तुनो विपरीतज्ञानम् । प्रमादः असावधानता। आलस्य कार्ये मन्दत्वम् । विभ्रमः इदं वस्तु इदं वेति वस्त्वनिश्चयः । अलाभः विविक्तदेशकलाद्यप्राप्तिः। संगिता धनादिषु लुब्धता । अस्थयं चित्तस्यानैकाग्यम् । एते नव तस्य ध्यानस्य अन्तरायकाः विघ्नाः ज्ञेयाः॥६३५॥ यःकण्टकैरिति-यः कण्टकैः अङ्गं देहं तुदति पीडयति । यश्च नरः लिम्पति अङ्गं चन्दनः । तयोः कार्ययोः रोषे तोषेऽपि अविषक्तात्मा अनासक्तप्रकृतिः। ध्याता लोष्ठवत मृत्पिण्डवत् अरागद्वेषो भवेत् ॥६३६॥ ज्योतिबिन्दुरिति-ॐकारस्याकारेण बिन्दुकलादीनामाकारेण च निर्बीजोकरणं कर्म करोति । तदवसाने मरणस्य जयो भवति इति मिथ्यादृष्टयः कथयन्ति तदसत्यम् । बिन्दुः अर्धचन्द्रकला, नाद: अनुस्वारः उपरि एका षड्नाद:(?) नादः कथ्यते। कुण्डकुण्डली, तदाकारेण वाजीकरणम् । विषेचरी(?) मुद्रा-त्रिकोणचतुःकोणादिबहुप्रकारस्तेन बहुवचनम् । प्रेयाणि(?) निर्बीजीकरणादिकम् ज्योतिबिन्दुकलादीनामाकारेण शुक्रनिःकाशनं नाभिप्रमुखेषु स्थानेषु कार्यम् । ब्रह्मग्रन्थि:-निखिलान्त्रजालमलं ब्रह्मपन्थिरुच्यते । तत्रापि निर्बीजीकरणं भवति। नेत्रनाभिप्रमखमार्गेण शक्रनिःकाशनं कर्म मत्यजयं भवति साधनाम्यासेन यदा मरणवेला वर्तते तदा निर्बीजीकरणं क्रियते तेन कर्मणा मत्यो वञ्चिते सति पश्चात्कदापि मरणं न स्यादित्यर्थः । अग्नि-नासिकायाम अग्नितत्त्वं वर्तते। रवी-दक्षिणनाड्याम, चन्द्रे वामनाड्याम । लतातन्ती लिङ्गविषये हृदये छिद्रं विनापि तदा काले मेदसदशग्रन्थि: स्यात । ज्योतिरादिशब्दानाम अभिप्रायः टिप्पण्यां वर्तते सा टिप्पणी एवात्रालिखिता। एतेषां त्रयाणां श्लोकानाम् अर्थः सम्यक्तया नावगतोऽस्माभिः ॥६३७६३९॥ कर्माणीति-यदि चेत् एवंविधर्नय: प्राणायामादिभिः उपायैः कर्माणि साध्यानि जेतुं शक्यानि भवेयुस्तहि तपोऽनशनादिकम् । जपः वाण्या मनसा वा मन्त्रपरिवर्तनम् । आप्तेष्टिः पञ्चपरमेष्ठिपूजनम् । दानं स्वपरानुग्रहार्थ स्वस्य धनादेर्दानम् । अध्ययनं स्वाध्यायः एतानि यानि आवश्यकापरिहाणि कार्याणि तैः पर्याप्त भवेत् । एभिः उपायः अनशनादिकर्माणि व्यर्थानि स्युः ॥६४०।। योऽविचारितेति-यः पुमान् अविचारितरम्येषु अविमर्शितसुन्दरेषु । क्षणं स्तोककालं देहातिहारिषु देहदुःखविनाशं कुर्वत्सु । इन्द्रियार्थेषु इन्द्रियप्रयोजनसाधकेषु । प्राणायामादिषु वश्यात्मा आयत्तः सोऽपि किल योगी उच्यते । किलेत्यरुचौ। योगीति नैव मान्यः ॥६४१॥ यस्येति-यस्य पुंसः इन्द्रियार्थतृष्णापि मनः जर्जरीकुरुते चित्तं पीडयति । स नरः तन्निरोषभुवः तस्या इन्द्रियविषयाभिलाषायाः निरोधात् भवति जायते प्राप्यते तथाभूतस्य धाम्न: स्थानस्य मुक्तेः कथम् ईप्सति अभिलषति । यावत्कालं विषयतृष्णया मनः पीडयते तावत्कालं मुक्त्यभिलाषो वृथैव ॥६४२॥ आत्मज्ञ इति-आत्मस्वरूपस्य ज्ञाता यातनायोगकर्मभिः अनशनकायक्लेशादितपांसि, परिषहसहनं च यातना. योगः निजात्मरूपे एकाग्रता। एभिः कर्मभिः कालेन संचितं दोषम् अनेकभवाजितं रागद्वेषमोहादिकं क्षपयन् शुक्लध्यानेन निरस्यन् योगी कल्पता वीतरागतां निजात्मशुद्धत्वं याति । यथा रोगी यातनायोगकर्मभिः