________________
-पृ० २६८ ]
उपासकाध्ययनटीका
४८३
लङ्घनस्वेदनवमनादिभिरोषधसे वनेन च कालेन संचितं कफादिकं निरस्य कल्पतां नीरोगतां एति याति तथेति भावः ॥६४३।। लाभेऽलाभे इति-यः मनिः लाभे अलाभे। वने वासे ग्रामनगरादौ च । मित्रे अमित्रे शत्रौ च । प्रिये अप्रिये मनोज्ञे अमनोज्ञे च । सुखे दुःखे च समानात्मा भवति उपेक्षायुतः रागद्वेषरहितो जायते । तस्य सदा ध्यानधीः आत्मानुभवलाभाय ध्यानधीः एकाग्रबुद्धिर्भवति ॥६४४॥ कीदृगाचरणं ध्यानलाभहेतुर्भवतीत्याह-परे ब्रह्मणीति–परे उत्तमे ब्रह्मणि आत्मनि परमात्मनि परमात्मस्वरूपप्रतिपादकागमे अनूचानः विचक्षणः। धृतिः संतोषः । मैत्री परेषां दुःखानुत्पत्त्यभिलाषः, दया अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतो यो मनःपरिणामः सा दया। धृत्या मंत्र्या दयया च अन्वितः धृतिमैत्रीदयान्वितः, सः मुनिः सूनृताद्वाक्यादन्यत्र सत्यप्रियवाक्याविना अन्यत् असत्यम् गर्हितम्, सावद्यम्, सदपह्नवादिकं भाषणं न ब्रूयात् । अर्थात् नित्यं वाचंयमी मौनवान् भवेत् ॥६४५।।
[पृष्ठ २६२-२६८ ] संयोगे इति-इष्टलाभे, विप्रलम्भे इष्टवियोगे। निदाने भाविविषयभोगकाङ्क्षायाम्, परिदेवने स्वपरानुग्रहाभिलाषविषये अनुकम्पाप्रचुरे रोदने, हिंसायां प्रमत्तयोगात्प्राणव्यपरोपणे । अनृते प्रमत्तयोगादसदभिधाने । स्तेये प्रमत्तयोगाददत्तादाने । भोगरक्षासु इन्द्रिविषयाः भोगाः तेषां रक्षासु तत्परे । जन्तोः प्राणिनः अनन्तसंसारभ्रमैनोरथवर्मनी अनन्तभवेषु भ्रमणे पापरूपरथमार्गभूते द्वे ध्याने भूमिर्ययोस्ते एनोरथवर्त्मनो पापरथसंचारमार्गस्वरूपे दुरन्तफलदायिनी दुष्टोऽन्तो येषां तानि फलानि दत्तः इति दुरन्तफल. दायिनी नरकतिर्यग्गतिदुःखफलदायके आर्तरौद्रे ध्याने त्यजेत् मुञ्चेत् ।। ६४६-६४७ ।। बोध्यागमेतिबोध्यो ज्ञातुं योग्यो मुमुक्षुभिर्य आगमः स बोध्यागमः। तस्य कपाटे तस्य स्वरूपप्रच्छादकत्वात् कपाटसदृशे । तथा ते दुर्ध्याने परे मुक्तिमार्गार्गले परे दृढे मुक्तिपथरोधके । श्वभ्रलोकस्य नरकलोकस्य सोपाने निश्रेणीसदृशे । तत्त्वेक्षावृतिपक्षमणी जीवादिद्रव्याणां यथागमे याथात्म्यं प्रोक्तं तस्य तथा भवनं तत्त्वं तस्य ईक्षा पुनःपुनर्विमर्शः तस्याः आवृतिराच्छादनं तस्मिन् पक्ष्मणी नेत्रच्छदंसदृशे ॥ ६४८ ॥ लेशतोऽपीति-यावत यावत्कालम् एते आतरौद्रध्याने लेशतोऽपि स्तोकमपि मनः चित्तं समधितिष्ठतः आश्रयतः तावत् एष जन्मतरुः जननवक्षः उच्चः समधिरोहति अतितङ्गो वर्धते ।। ६४९ ॥ ज्वलन्निति-ज्वलन प्रकाशयुतो भवन् प्रदीपः अञ्जनं कज्जलम आधत्ते धारयति उत्पादयति । परं रविवलन अञ्जनं न आधत्ते । तथा आशयविशेषेण ध्यानं फलम आरभते शुभाशुभशुद्धपरिणामविशेषतया ध्यानं शुभाशुभशुद्धफलं जनयति । अशुभपरिणामविशेषेण आरौिद्रद्वयं नरकतिर्यग्गतिफलं ददाति । शुभपरिणामविशेषेण धर्म्यध्यानं देवगतो सुखं ददाति । शक्लध्यानं शद्धोपयोगपरिणामैः मुक्तिसुखं ददाति ॥ ६५०॥ प्रमाणनयनिक्षेपैरिति-प्रमाणं प्रकर्षेण संशयादिदोषरहितं वस्तुतत्त्वं येन मीयते तत्प्रमाणम् । नयः प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नयः । निक्षेपः - नामादिभिः वस्तुनिरूपणं निक्षेपः । अनुयोगः सदादिप्रश्नः जोवादिस्वरूपनिश्चयोऽनुयोगः । अनुयोगसहितः प्रमाणनयनिक्षेपः विशुदधीः विशुद्धबुद्धिमुनिः धर्मध्यानपरायणः सन् तत्त्वेषु जीवादिषु मति तनोति विस्तारयति ॥६५१॥ अरहस्ये इति-यथा सतो, काञ्चनकर्मणो पतिव्रता स्त्री, सुवर्णालंकारश्च अरहस्ये गोपनीये न भवतः निर्दोषत्वात् । तथा सुधियः परमागमम् अरहस्य निर्दोषम् इच्छन्ति ॥६५२॥ यः स्खलतोति-यः अल्पबोधानां मादशां विचारेष्वपि स्खलति यः आगमः अल्पज्ञानानां मादशां कार्यकारणविमर्शसमये स्खलति वस्तुतत्त्वनिर्णयं दातुं क्षमो- न भवति । असत्यत्वात् । स आगमः संसारसमुद्रे मज्जज्जन्त्वालम्बः बुडत्प्राण्युत्तारक: कथं स्यात् । सर्वज्ञप्रणीतमागम प्रमाणीकृत्य "इत्थमेवेदं नान्यथावादिनो जिनाः" इति गहनपदार्थश्रद्धानमर्थावधारणम् आज्ञाविचयाख्यं धर्मज्ञानं ज्ञातव्यम् ॥६५३॥ अपायविचयं धर्म्यध्यानमाचष्टे-अहो मिथ्यातम इति-युक्तिद्योते स्फुरति अपि अनेकान्तरूपं पदार्थनिवहं प्रमाणनयप्रकाशे प्रदर्शयत्यपि । मिथ्यातमः अतत्त्वश्रद्धानं विपरीतादिमिथ्यात्वसमूहः पुंसां भव्यजनानां चेतांसि मनांसि अन्धयति हिताहितविवेकशून्यं करोति । कुत्र ? रत्नत्रयपरिग्रहे सम्यग्दर्शनज्ञानचारित्रास्यमोक्षमार्गस्वीकारे । अहो आश्चर्यम् ॥ ६५४ ॥ आशास्महे इति-तत् तस्मात् कारणात्, एतेषां भव्यजनानाम् आशास्महे एतेऽपि रत्नत्रयपरिग्रहवन्तो भवन्त्विति इच्छामः । अस्तकल्मषाः निराकृतमिथ्यात्वपापाः एते अद्य कथं दुःख