________________
४८४ पं० जिनदासविरचिता
[पृ०२६८निबर्हणं चतुर्गतिदुःखनाशनं तत्त्वं यथार्थमनेकान्तवस्तुस्वरूपं प्रपश्यन्ति । यथा ते तत्स्वरूपं प्रपश्यन्ति तथा तेषाम् आशास्महे ।। इति अपायधर्म्यध्यानम् ॥६५५॥ लोकविचयधर्म्यध्यानमाह-अकृत्रिम इति-अयं लोक: अकृत्रिमः नहि केनापि देवेन रचितः। विचित्रात्मा नानाविधस्वरूपः । मध्ये च सराजिमान असनालीसहितः त्रसजीवसमूहशोभितः । मरुत्त्रयोवृतः घनवातेन, अम्बुवातेन, तनुवातेन च सर्वतो वेष्टितः । प्रान्ते अस्य लोकस्य प्रान्ते अग्रे तद्धामनिष्ठितः तेषां मुक्तानां धाम आस्पदं निवासः तेन निष्ठितः समाप्ति गतः । मुक्तानां निवासी लोकस्यान्ते विद्यते इति भावः। तत ऊर्ध्व सर्वत्र अलोकाकाश एवेति पुनः पुनः लोकस्य विचारणं लोकविचयधर्म्यध्यानमित्यर्थः ॥६५६॥ विपाकविचयधर्मध्यानमाह-रेणवदिति-तत्र तस्मिल्लोके । तिर्यक् मध्यलोके । ऊर्ध्वम् उपरि स्वर्गादौ। अधः पाताले च । एते जन्तवः त्रसस्थावरप्राणिनः । रेणुवत् धूलिर्यथा वायुप्रेरिता सती तिर्यक् इतस्ततः ऊर्ध्वम्, अधः यत्र कुत्रापि भ्रमति । तथा निजान्येव कर्माणि यानि शुभाशुभानि तान्येव अनिल: वायुस्तेन ईरिता नोदिताः। अनारतम् ऊर्ध्वाधस्तिर्यक्षु स्थानेषु भ्रमन्ति तिर्यगादिदेहान् धृत्वा । एवं पुनः स्मरणम् एकाग्रचेतसा लोकविचयध्यानम् ।।६५७॥ इतीति-इति एवं प्रकारेण । धर्म्य चतुर्विध धर्म्यध्यानं चिन्तयतः एकाग्रेण मनसा। पुनः कथंभूतस्य । यतेति- यतानि दान्तानि वशीकृतानि इन्द्रियाणि चेतो मनश्च येन तस्य मुनेः । तमांसि पापानि । द्रवं विनाशम् आयान्ति गच्छन्ति । कस्मादिव । द्वादशेति-द्वादशात्मा सूर्य: मेषवृषादिराशीन् क्रमशः गच्छत्यतः स द्वादशात्मा कथ्यते । यथा सूर्यस्योदयाद् ध्वान्तं पलायते तथा इन्द्रियाणि मनश्च वशीकृत्य धर्म्यध्यानं चिन्तयतो मुनेः तमांसि अज्ञानानि विनाशं यान्ति ॥६५८॥ भेदमिति-विवजिताभेदम् अभेदं परित्यज्य भेदं ध्यायन् । भेदवजितम् अभेदं च ध्यायन् ध्याता सूक्ष्मक्रियाशुद्धो कायवाङ्मनसां व्यापारान् सूक्ष्मीकरोति । ततश्च पूर्वापेक्षया क्रियाशुद्धो भूत्वा निष्क्रियो भवति । योगत्रयरहितः ध्याता ततो निष्क्रिय घ्यानं प्रतिपद्यते स्वीकरोति ॥६५९-६६०॥
कीदृगात्मा मोक्ष इत्युच्यते-प्रक्षीणोभयेति-मनीषिणः स्याद्वादिनो विद्वांसः मोक्षम् आहुः । कथंभूतं मोक्षम् । प्रक्षोणेति-प्रक्षीणे प्रणष्टे बन्धहेत्वभावनिर्जराभ्यां कर्मणी द्रव्यभावाख्ये यस्य सः तम् । पुनः कथंभूतम् । जन्मदोर्षविवजितम् जन्म चतुर्गतिभ्रमणम्, दोषाश्च आवरणानि क्षुत्पिपासादयश्च तैविवजितम् । पुनः कथंभूतं मोक्षम् । लब्धेति - लब्धाः प्राप्ताः गुणाः अनन्तज्ञानादयोऽनन्ता गुणा यस्य तथाभूतम् आत्मानं मोक्षम् आहुः ब्रुवन्ति । नष्टाष्टकर्माणम् प्राप्तानन्तगुणम् द्रव्यभावकर्मरहितम् नष्टचतुर्गतिभ्रमणम् दोषरहितम् आत्मानम् विद्वांसः मोक्षं कथयन्ति इति भावः ॥६६१॥ ध्यातुर्येयमाचष्टे-मार्गसूत्रमितिमार्गो मोक्षमार्गः तस्य सूत्रं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' तत ध्याता ध्यायेत चिन्तयेत । कथंभतो ध्याता आगम एव चक्षरस्ति यस्य स आगमचक्षष्मान स्याद्वादागमलोचनः । पुनः कथंभूतः । प्रसंख्येति-प्रसंख्यानम एकाग्रचिन्तानिरोधो ध्यानं तत्र परायणः प्रणिधानपरः। किं किं ध्यायेत् । अनुप्रेक्षाः शरीरादीनां स्वभावानचिन्तनम । सप्ततत्त्वं जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाश्चेति सप्ततत्त्वानि तेषां समाहारम् । जिनेश्वरं प्रक्षीणसकलघातिकर्माणं तीर्थकरदेवम् च । ध्यायेत् चिन्तयेत् ॥६६२॥ जाने इति-यथा ऐतिह्यं तत्त्वम् । इति इह भवम् ऐतिह्यम् आप्तोपदेशः जिनागमः । तत्त्वं जीवादिकं यथा जाने वेनि तथा तदनन्यधीः तस्मिन अनन्या धीः यस्य सः आगमे एव मतिं कृत्वेत्यर्थः। अहं श्रद्दधे अन्यस्मिन् मिथ्यागमे न कदाचनापि मम मतिः प्रवर्तेत । अहं सर्वम् आरम्भं मुञ्चे प्राणिपीडाहेतुव्यापार आरम्भः तं त्यजामि । तथा आत्मनि ज्ञानदर्शनलक्षणे निजात्मनि आत्मानं स्वम् आदधे स्थापयामि स्थिरीकुर्वे । न बाह्ये वस्तुनि ॥६६३॥ आत्मायमितिअयम् आत्मा बोधिसंपत्तेः रत्नत्रयनिधेः सकाशात् । यदा आत्मना स्वेनैव करणेन श्रुतज्ञानेन । आत्मनि निजे स्वरूपे निश्चलो भवति तदा आत्मानं ज्ञानदर्शनलक्षणं शुद्धम् बाह्यसंयोगरहितं सूते जनयति । तदा परमात्मना परमः आत्मा परमात्मा सकलमोहक्षयात् केवलज्ञानलाभाच्च नितरां शुद्धत्वं प्राप्तः आत्मा परमात्मा तस्य स्वरूपेण स आत्मानं लभते। यथा वतिः दीपं प्राप्य दीपो जायते तथा श्रुतज्ञानेन जीवतत्त्वे एकाग्रीभूय चिरन्तनाभ्यासेन आत्मानं जीवो लभते ॥६६४॥ स्वस्वरूपचिन्तने आस्मैव ध्यातृध्यानध्येयध्यानफलरूपो भवतीति दर्शयति-ध्यातेति-आत्मैव ध्याता भवति । यथा युक्तिपरिग्रहः प्रमाणनयात्मिका युक्तिः,