________________
४७८
पं० जिनदासविरचिता
[ पृ० २४६
धनम्, भगवान् खलु धरणेन्द्रादिभिः कृतायाः पूजायाः स्थानमित्यर्थः । हे जिन कर्मारातिविजयिन् प्रशमनिवेश रागादिदोषनिबर्हणं प्रशमः तस्य निवेश गृहीभूत । जगदीश जगन्नाथ । मम त्वत्पदनुतिहृदयं दिश । तव पदयोः नुतिः स्तुतिः तस्यां हृदयं मनः दिश देहि । मम मनः त्वत्पदभक्तिपरं कुवित्यर्थः । घत्ता ॥ ५९२ ॥ अमरतरुणीति - हे जिन त्वम् अमरतरुणीति - अमरतरुण्यः देवयुवतयः, तासां नेत्राणाम् आनन्दे प्रमोददाने महोत्सवचन्द्रमाः महोत्सवदिनस्य पूर्णिमायाः चन्द्रमाः असि । हे जिन त्वं स्मरेति- - स्मरस्य मद एवं गर्व एव ध्वान्तं तिमिरं मदमयध्वान्तं तस्य ध्वंसे विनाशे परमः उत्तमः अर्यमा सूर्यः मतोऽसि । त्वं कर्माराती ज्ञानावरणादिकर्मशत्रुगणे अदयहृदयः क्रूरमनाः असि । नते भक्त्या नम्रे जने कृपात्मवान् दयास्वभाव: इति त्वं विसदृशव्यापारः शत्रौ मित्रे भक्ते च विषमप्रवृत्तिः तथापि भवान् महान् पूज्यः । भगवाञ्जिनः रागद्वेषाभ्यां सताम् असतां च अनुग्रहनिग्रहयोर्न विधाता स तु परमोदासीनः परन्तु सदसन्तः जिने रागेण द्वेषेण च प्रवर्तन्तेऽतस्तद्रागद्वेषयोजिनो गतेर्धर्मास्तिकायवत् कारणं मन्यते ॥ ५९३ ॥ अनन्तेति - जिनेश्वर, त्वयि अनन्तगुणसंनिधी अनन्तानां गुणानां सम्यक् अक्षये निधी निधाने सति । मयि च नियतबोधसंपन्निधो नियतः परिमितः स चासौ बोधो ज्ञानं स एव संपन्निधिः यस्य तथाभूते मयि अल्पज्ञे सतीत्यर्थः । पुनः कथंभूते भवति । श्रुताधीति श्रुतान्धिः द्वादशाङ्गज्ञानसमुद्रः तस्य बुधाः ज्ञातारः गणधर देवादयः तैः संस्तुगते स्तुति विषयतां नीते । मयि च कथंभूते परिमितोक्तेति - परिमितं सावधिकं यत् उक्तवृत्तम् अल्पज्ञताख्यं प्रोक्तं वृत्तम् उदन्तः तस्मिन् स्थिते मयि । हे जिनेश्वर, स्फुटं प्रकटं त्वयि ईदृशे महाज्ञानसमुद्रे । मयि च तादृशे पल्वलकल्पे, सति । तदिदं वस्तुद्वयं भवान् अहं च, सदृशनिश्चयं समानमिति निर्णयपात्रं कथं भवतु ।। ५९४ ।। तदलमिति — हे अतुल अनुपम त्वादृगिति त्वया सदृशाः त्वादृशाः तेषां वाणी त्वादृग्वाणी तस्याः पन्थाः त्वादृग्वाणीपथः तेन स्तवनं तस्य उचितः तस्मिन् त्वयि जिने । जडस्य मन्दस्य मादृशः । गुणानां गणः समूहः तस्य अपात्रैः अविषयभूतैः स्तोत्र: अलं पर्याप्तम् । गणधरदेवादयः तव गुणानां स्तोत्राणि विधातुं क्षमा भवन्ति यतस्ते तव गुणानां गणनाभिज्ञाः । नाहं मन्दः । प्रणतिविषये अस्मिन् व्यापारे कर्मणि सुलभे सति कथमयम् अवाक् स्तुतिं कर्तुम् असमर्थो जनः त्वद्गुणस्तुती प्रवर्तेत । हे स्वामिन् आस्तां स स्तुतिमार्गः नाहं तेन गन्तुं क्षमः अतः ते नमोऽस्तु अस्तु ॥ ५९५ ॥ जगन्नेत्रमिति — हे जिन त्वां जगतां नेत्रभूतम् । निखिलेति — सकल विषयज्ञानज्योतिषां पात्रं भाजनम् । पुनः कथंभूतम् । सकलेति — सकलाश्च ते नयाश्च सकलनयाः नैगमादिनयाः तेषां नीतिः पद्धतिः तया स्मृता गुणा यस्य तं महान्तं पूज्यं त्वाम् । पुनः कथंभूतम् । विनतेति - विनताः भक्ताः तेषां हृदयानन्दविषये महोदारं महान्तं वदान्यं दानशीलं सारम् उत्तमं त्वाम् अहं याचे । हे भगवन् अर्थिविमुखः याचकविमुखश्चेत्त्वं न भवसि ॥ ५९६ ॥ मनुजेति- इह् अस्मिन् लोके मनुजेति – मनुजा नराः । दिविजा दिवि स्वर्गे जायन्ते इति देवाः । तेषां लक्ष्मीः रमा तस्या लोचनयोः नेत्रयोः आलोकः प्रकाशः तस्य लीला शोभा येषां तथाभूताः प्राणिनः । त्वत्प्रसादात् तव कृपां प्राप्य । चिरं बहुना कालेन । चरितार्थाः कृतकृत्याः जाताः । स्वामीतिस्वामिनः प्रभोः सेवायाम् आराधनायाम् उत्सुकत्वात् हर्षनिर्भरत्वात् । इदानीम् अधुना । छात्रमित्रे छात्राणां शिष्याणां मित्रे सुहृदि मयि त्वं हृदयम् । सह वसतिसनाथां सह वसत्या निवासेन सनाथं मनः विधेहि कुरुष्वेत्यर्थः (परिपूरितवाञ्छं कुरु इत्यर्थः) ॥५९७॥
।
-
इस्युपासकाध्ययने स्तवनविधिर्नाम सप्तत्रिंशत्तमः कल्पः ||३७||
३८. जपविधिर्नामाष्टत्रिंशत्तमः कल्पः ।
[ पृष्ठ २४९ - २५२ ] सर्वेति — केचित् आचार्याः सर्वाक्षरैः जपं निगिरन्ति प्रतिपादयन्ति । केचित् सूरयः नामाक्षरैर्जपम् केचित् मुख्याक्षरादिषु एकवर्णन्यासात् एकवर्णमवलम्ब्य जपं निगिरन्ति । परमहं तु