________________
- पृ० २४६ ]
उपासकाध्ययनटीका
४७७
उशन्ति ब्रुवन्ति ।।५८४|| अद्वैतम् इति - कोऽपि ब्रह्माद्वैतवादी अद्वैतं तस्वं वदति । सोऽपि सुधियां सुष्ठु धीः बुद्धिः येषां ते सुधियः तेषां सुधियां विदुषाम् । धियं बुद्धिम् । न आतनुते न विस्तारयति । अद्वैतिनो मतं सुधीभ्यो न रोचते इति भावः । यतः यस्मात् । हे शिवशर्मसदन मुक्तिसुखानां गृहीभूत जिनेश्वर । अत्र अद्वैतमते पक्षस्य हेतोः, दृष्टान्तस्य वचनस्य संस्था स्थितिः कुतो भवेत् ? द्वैते एव पक्षहेतुदृष्टान्तानां संभवः । नास्ति तत्संभवोऽद्वैते ॥ ५८५ ॥ हेताविति - हेती सति कारणहेती कार्यहेतो विद्यमाने अनेकधर्मसिद्धिः भवति । कार्याणि दृष्ट्वा कारणान्यनुमीयन्ते । समर्थकारणे सति कार्यम् अवश्यं भवति । जिनेश्वर एवम् अनेकधर्मप्रवृद्धिः जीवादिसप्ततत्त्वानां सिद्धिम् आख्याति कथयति । विशिष्टधर्मलक्षणसद्भावात् पृथक्-पृथक् तस्वसिद्धिः भवति । यथा ज्ञानधर्मः जीवतस्वं निश्चिनोति । स्पर्शादयो धर्माः पुद्गलतत्त्वम् । अन्यत् पुनः कथंचित् नित्यम् कथंचित् अनित्यम्, कथंचित् भिन्नम् कथंचित् अभिन्नम् । अखिलमतव्यतीतं नित्याद्येकान्तमतभिन्नम् । हे उरुनयनिकेत उरवो महान्तः ते च ते नयाश्च नैगमादयः । तेषां निकेत गृहभूत हे जिन तव मतम् उद्भाति प्रकर्षेण शोभते ॥ ५८६ ॥
[ पृष्ठ २४७-२४९ ] मनुजत्वमिति मनुजत्वं पूर्वम् आदौ यस्य एतादृशः । नयनायकस्य सकल नैगमादिनयानाम् अधीशस्य सकलनयचक्रस्य जातुः । गुणोत्तमस्य गुणानां केवलज्ञानदर्शनशक्ति सुखानाम् अनन्तानां प्राप्तेरुत्तमस्य श्रेष्ठत्वं प्राप्तस्य । भवतीति भवन् तस्य भवतः सतः भवतः पूज्यस्य । ये द्वेषकलुषधिषणा : वैरमलिनमतयः भवन्ति ते भवन्तं रहन्ति त्यजन्ति । ते जडजं मौक्तिकमपि रहन्ति । जलजं मौक्तिकं मत्वा रहन्ति त्यजन्ति । यथा कश्चित् मूर्खः जलान्मौक्तिकं जातं वीक्ष्य जलवत्तत्यजति तथा भवान् आदी मनुष्य आसीत् तदनन्तरं घ्रातिकर्मक्षयं कृत्वा नयनायको जातः परं द्वेषिणः मनुष्योऽयमिति मत्वा अवमत्य भवतः अवमाननं कुर्वन्ति । अहो मूढत्वं तेषाम् ||५८७ ॥ नाप्तेषु इति - यः एकम् ईश्वरं एव आप्तं मन्यते स आप्तेषु बहुत्वं न सहेत । पर्यायविभूतिष्वपि न महेत । पर्याया ईश्वरस्य वराहाद्यवतारास्तेषां विभूतिषु वैभवेषु सन महेत पूजयेत ? अपि तु न पूजयेत् । यतः स एकम् ईश्वरं विना अन्यान् तदवतारानपि आप्तरूपान् अमन्यमानः कथं पूजयेत् । नूनं द्रुहिणादिषु तथाविधेषु दैवतेपु तस्य कं स्फुटति । तथाविधेषु ईश्वरावतारेषु देवतेषु देवं मन्येषु तस्य एकमेवाप्तं मन्यमानस्य नुः कं मस्तकं कथं स्फुटति कथं नमति नैव नमेत् ॥ ५८८ ॥ दीक्षास्विति है इन हे प्रभो, सकलगुणैः व्रततपः समित्यादिगुणैः रत्नत्रयरूपैः श्रहीन न होनः न अपूर्ण : तत्संबोधनं हे अहीन, दीक्षासु महाव्रतदीक्षासु, अणुव्रतदोक्षासु च । तपसि अनशनादिके द्वादशविधे, वचसि च पूर्वापरविरोधानवकाशे यत् यस्मात् इह ऐक्यम् एकरूपता अविरोधता वर्तते । तस्मात् बुधोचितपादसेव बुधेरुचिता कर्तुं योग्या पादयोः सेवा यस्य स तत्संबोधनम्, बुधोचितपादसेव । त्वमेव जगतां नाथोऽसि इति ब्रवोमि । अन्येषां हरिहरादीनां दीक्षातपोवचःसु ऐक्यं नैवातस्ते त्रैलोक्यस्वामित्वानही एव ॥५८९ ॥ देवेति - हे देव दीव्यति क्रीडति परमानन्दपदे इति देवः परमाराध्यः तत्संबोधनं हे देव । तथापि कोऽपि नरः त्वयि विमुखचित्तः पराङ्मुखमनाः भवति तर्हि स एव निन्द्यो भवति । विदलितेति - विदलिताः विनाशिताः मदनस्य विशिखा बाणा येन सः तत्संबोधनम्, हे जिन, घूके दिवापि विदृशि नेत्ररहिते यथा निन्द्यः तथा त्वयि विमुखचित्तो नरः निन्द्य एव । परं यः विदृशोन : ( ? ) अन्धानां स्वामी तं न कोऽपि उपालभते दूषणं ददाति । दिवा दिने घूके विदृशि अन्धेऽपि इनं सूर्यं स उपलभते परं अन्यः कोऽपि सूर्यं न निन्दति ॥ ५९० ॥ निष्किचन इतिं निष्किचनोऽपि न किंचन धनधान्यादिपरिग्रहो यस्य । निर्गतः किचनात् असौ निष्किचनः निष्परि ग्रहोऽपि त्वं जिन जगते त्रिलोकाय कामितानि अभिलषितानि निकामं यथेष्टं न दिशसि न ददासि । भक्तानाम् अभिलषितानि त्वं निष्परिग्रहोऽपि पूरयस्येव । अत्र चित्रं विस्मयो नैव । अथवा इह खात् आकाशात् शून्यस्वरूपादपि वृष्टिः किमु नो समस्ति नो चकास्ति न शोभते अपितु शोभते एव । पद्धतिकाछन्दः ।। ५९९१ || इति - एवं तदमृतनाथ तत्तस्मात् अमृतनाथ अमृतस्य मोक्षस्य नाथ स्वामिन् । स्मरशरमाथ, स्मरस्य कामस्य शरान् उन्मादमोहनसन्तापनादीन् बाणान् मथ्नाति पीडयतीति स्मरशरमाथः तत्संबोधनं हे स्मरशरमाथ । त्रिभुवनपतिमतिकेतन त्रिभुवनस्य पतयः स्वामिनः घरणेन्द्रादयः तेषां मतेः मान्यतायाः निकेतनं गृहम् तत्संबो