________________
દ
पं० जिनदासविरचिता
[ पृ० २४५
वर्धमानम् अतिशयेन वियति आकाशे गुरुतां महत्तमताम् उपैति प्राप्नोति । तथा मतिः अतिशयेन वर्धमाना नरि कस्मिंश्चिदात्मनि उच्चैर्गुरुताम् उपैति प्राप्नोति । तत् तस्मात्कारणात् द्विजस्य सर्वज्ञं निषेधतो मीमांसकस्य विश्ववेदिनिन्दा सर्वज्ञनिन्दा हे देव, कस्य चित्ते विश्राम्यति तिष्ठति । स्थानं न लभते इति भावः । दोषावरणयोनिःशेषनाशात् कश्चिदात्मा सर्वज्ञो भवत्येव ||५७७|| कपिलो यदि इति-यदि कपिल : साङ्ख्यदर्शनस्य प्रणेता अचिति अचेतने प्रधाने वित्ति ज्ञानम् इच्छति तर्हि सः सुरगुरुगीर्गुम्फेष्वेष पतति सुराणां देवानां गुरुः उपाध्यायः बृहस्पतिः तस्य गोः दर्शनं चार्वाकदर्शनं तस्य गुम्फेषु रचनासु एव कपिल : पतति इति मन्यामहे वयम् । स च बृहस्पतिः जीवच्छरीरमेवात्मा नातो भिन्नः कश्चिदात्मा नाम, स च आत्मा गर्भादिमरणपर्यन्तमेव, गर्भात्पूर्व मरणाच्चोत्तरं नास्ति भवान्तरम् । इति मन्यते । कपिलोऽपि - प्रकृती अचेतनायां सर्वज्ञत्वं मन्यमानः बृहस्पतिमनुसरति । हे विदित हे सर्वज्ञ अर्हन्, चैतन्यं केवलं स्वरूपमात्रपरिच्छेदि बाह्यग्राह्यरहितं घटपटादिग्राह्याणाम् अग्राहकं तहि तत् कस्य उपयोगि स्यात् ? वद, अतः हे अर्हन् भवानेव यथार्थदर्शी । आत्मा एव दोपावरणहानेः सर्वज्ञो जायते इति वदति तदेव सत्यम् ||५७८ ।। भूपवनेति—भूः पृथ्वी, पवनो वायुः, वनं जलम्, अनलोऽग्निः इति तत्त्वान्येव तत्त्वकानि तेषु तत्त्वकेपु । धिषणः बृहस्पतिः विभागं निगृणाति प्रतिपादयति । एतत्तत्त्वचतुष्टयम् इति वदति । परन्तु तद्विपरीतधर्मधाम्नि एम्य: विपरोतस्वभावापदे विदि आत्मनि विभागं न ब्रवीति । ज्ञानं भूतचतुष्टयाद्भिन्नं नेति मन्यते तत्तु तेभ्य उत्पद्यते इति मन्यते । तज्ज्ञानं तस्य भूतचतुष्टयस्य कर्म कार्य मनुते परं तत् आत्मनो धर्मः न भूपवनादीनां इति ज्ञेयम् ॥५७९ ॥
[ पृष्ठ २४५ - २४६ ] विज्ञानप्रमुखाः इति - विज्ञानं प्रमुखं येषु ते विज्ञानप्रमुखाः सुखादयः गुणाः । विमुचि विशेपेण मुञ्चति इति विमुच् तस्मिन् विमुचि मुक्तात्मनि न सन्ति । इति यस्य वाचि व्याख्याने किल नयः वर्तते । मुक्तो बुद्धिसुखदुःखादीनां नवानां गुणानाम् अत्यन्तोच्छेदान्मोक्षः इति वैशेषिको वदति । तस्य मते मुक्तो गुणाः न तिष्ठन्ति इति तत्र मुक्त्यवस्थायां पुमानपि आत्मापि नैवेति मन्यताम् । दाहात् ओष्ण्यात् दहनोऽग्निः अपरत्र अन्यत्र कः तिष्ठति ॥ ५८० ॥ धरणीधरेति - धरणीधरः पर्वतः घरणिः पृथ्वी, प्रभृतयः तरुतन्वादयः तान् गिरिश: शंकर ईश्वर: सृजति । ननु निपगृहादि घटगृहादिकं गिरिश: करोति इति वक्तव्यम् । यदि सकलमेत्र कर्म गिरिशः करोति तह तक्षादीनां किं प्रयोजनम् । चित्रम् आश्चर्यं वर्तते । यत् यतः तद्वचांसि लोकेषु महायशांसि महाकीर्तिमन्ति सन्ति ॥ ५८१ ॥ पुरुषत्रयमिति - हरिहरब्रह्माणः पुरुषत्रयम् । अबलासक्तमूर्ति अबलासु लक्ष्मीपार्वती सावित्र्यादिषु नारीषु आसक्ता मूर्तिः शरीरं यस्य तत् । अत एतत्त्रयं आगमस्य कर्तन संभवति । त्रैलोक्यस्यापि न तत्र कर्तृत्वं संभवेत् । अपरः शरीररहितः अनादिमुक्तः ईश्वर: सृष्टिकर्ता वेदकर्ता वा स्यात् इति च नैव संभवति । यतः स गतकायकीर्तिः गतकायः नष्टशरीरः इति यस्य कीर्तिः जगति पप्रथे । एवं सति, हे नाथ जिन, अत्र जगति अस्मिन् । द्विजसूत्रं ब्राह्मणानां वेदादिकं कथं हिताहितविषयम् आभाति शोभते । वेदस्य ईश्वरकृतत्वं न संभवति । ततश्च स हिताहिते न कुर्यात् ||५८२ ॥ सोऽहमिति - हे बौद्ध, यः अहं बालवयसि बाल्यावस्थायाम् अभूवं प्राग् आसम् स एव अहम् इति निश्चिन्वन् निश्चयं कुर्वन् क्षणिकमतं जहासि । 'सर्व क्षणिकं सत्त्वात्' इत्यनुमानेन निजं स्वरूपं तव आत्मनः स्वरूपं क्षणिकं नैव सिद्ध्येत् । सर्वथा क्षणिके आत्मनि सन्तानोऽपि अत्र न स्यात् । 'अपरामृष्टभेदाः कार्यकारणक्षणाः संतानः' इत्यपि सन्तानलक्षणं नैव सिद्धयति । एकत्वाभावे नित्यत्वाभावे च पूर्वक्षण: कारणम् उत्तरक्षणः कार्यम् इति न भवेत् । ततः कार्यकारणभावाभावात् सन्तानसिद्धिः न । अस्थिरे वासनापि न । यदि अन्वयः पूर्वापरसंबन्ध: तेनापि प्रयोजन सिद्धिर्न । अन्वये सति सर्वथा क्षणिकत्वं हीयते । क्षणिकमत - प्रतिपादकेन सुगतेन तेन अन्वयभावः नापि न प्राप्तः || ५८३ || चित्तमिति - चित्तं ज्ञानम् । कथंभूतं तत् । अक्षजम् इन्द्रियोत्पन्नम् । तत् विचारकं न पूर्वापरालोचनक्षमं न । अखिलं सविकल्पं ज्ञानम् । सांशपतितंसांशा घटादयः स्थिरस्थूलपदार्याः सामान्यरूपाः तत्र पतितम् तद्ग्राहकम् अस्ति । तेन क्षणिकाः विशरारव: परमाणवः न गृह्यन्ते । तत्सविकल्पं ज्ञानं कल्पनापोढम् अभ्रान्तं नास्ति । उदितानि शब्दाः निर्विकल्पज्ञानं क्षणिकं वस्तु च न स्पृशन्ति । अतः शाक्याः बौद्धाः तानि वचनानि आत्महितानि जीव हितकराणि कथम्