________________
-पृ० २४४]
उपासकाम्ययनटीका
४७५
मिच्छति । हे भगवन्, तव गुणानां स्तवं कर्तुं वाञ्छन् जनः तत्पारं न कदापि प्राप्नोतीति ज्ञेयम् ॥५६८॥ स्तोत्रे इति-यत्र स्तोत्रे अनवधिबोधाः न अवधिर्बोधे ज्ञाने येषां ते अनवधिबोधाः अमितज्ञानिनः । चिन्तां स्तोत्रं भगवतो विधास्यामः इति संकल्पं मुमुचुः त्यक्तवन्तः । पुनः कथंभूताः । सकलैतिह्येति-ऐतिह्यं नाम आप्तोपदेशः श्रुतज्ञानं वा, स एव अम्बुधि: समुद्रः तस्य विधिः स्वाध्यायः तस्मिन् दक्षाश्चतुराः। महामुनिपक्ष्याः महामुनयो गणधरदेवादयः तत् पक्षम् अवलम्बमानाः तत्सदृशाः। चिन्तां तत्यजुस्तत्र तस्मिन् प्रभुस्तोत्रे मादग्वधाः मत्सदृशः विद्वान् कथं चिन्तां न त्यजेत् ॥५६९॥ तदपीति-तदपि च तथापि च यद्यपि अहं गणधरादिसदशमति स्मि । मयि तथा स्तवनशक्ति स्ति। तथापि हे जिन, त्वयि विषये अहं किमपि वदेयं वच्मि । यत् यतः इयं भक्तिः मां कामम् अतिशयेन स्वस्थं तूष्णीं न कुरुते । त्वयि विषये मद्भक्तिर्हे देव, किमपि स्तवनं कुरु इति मां प्रेरयत्येवेति भावः । अतोऽहं त्वां स्तोतुमद्यतोऽस्मीति ॥५७०॥ सुरपतिविरचितेति-हे जिन, कः तव गुणं प्रवितनुतां स्तुतिपथं नयतु न कोऽपि । सुरपतिर्देवेन्द्रः तेन विरचितो विहितः संस्तवः स्तुतिः यस्य तत्संबोधनं हे सुरपतिविरचितसंस्तव दलितेति-दलितो विनाशितः अखिलो भवः संसारो येन तत्संबोधनम्, परमेति-परमम् अत्युत्तमं धाम वीर्यम् अनन्तशक्तिः तेन लब्धः उदयः प्रातिहार्यादिवैभवं येन । अति-अघं पापं तस्य हरणे नाशने चरणं चारित्रं यस्य तत्संबोधनम् । हे हतनतभय हतं नतानां भक्तानां भयं येन तत्संबोधनम् हे हतनतभय ! ॥५७१॥
[पृष्ठ २४३-२४४] जयेति-जयति सर्वोत्कर्षेण वर्तस्व । कथंभूतस्त्वम्। निखिलेति निखिलाः सकलाः निलिम्माः देवाः तेषाम् आलापः गुणस्तुतिः तत्र कल्पः योग्यः । जगतीति जगत्या विश्वन विश्वेन, स्तुता चासो कीर्तिश्च सैव कलत्रं भार्या सा तल्पे शय्यायां यस्य । जय सर्वोत्कर्षेण तथाभूतस्त्वं वर्तस्व । परमेति-परमश्चासौधर्मश्च तदेव हम्यं प्रासादः तत्र अवतारः जन्म यस्य । लोकेति-लोकानां त्रितयं लोकत्रितयं जगत्त्रयं तस्योधरणे कूगतेरुद्धरणे सारो रत्नत्रयबलं यस्य सः । अत्र कल्प, तल्प, अवतार, सारेति शब्दानां संबोधनकवचनानि ज्ञेयानि ॥५७२।। जयेति-लक्ष्मीति लक्षम्याः प्रातिहार्यलक्ष्म्याः समवसरणरमायाश्च करौ हस्तो तावेव कमले ताभ्याम् अचितं पूजितम् अङ्गं शरीरं यस्य तत्संबोधनम् । सारस्वतेति-सरस्वत्या अयं सारस्वतः स चासो रसः तेन नटने नर्तने आद्यरङ्गः प्रथमा नर्तनभूमिः तत्संबोधनम् । केवलबोधे जाते सति द्वादशाङ्गश्रुतदेव्या जिनवदनं आद्यरङ्गभमिर्जातमिति भावः । हे जिन जय सर्वोत्कर्षेण वर्तस्व । कथंभूतं जिनसंबोधनम । बोधेतिबोधस्य केवलज्ञानस्य मध्ये सिद्धाः ज्ञाता: अखिलार्थाः सकलजीवादिवस्तुनिवहाः यस्य तत्संबोधनम् । मुक्तिश्रीति-मोक्षलक्ष्मीरमण्या रत्या संभोगेन कृतार्थः कृतकृत्यः तत्संबोधनम् हे जिन त्वं जय ॥५७३।। नमदिति-नमन्तश्च ते अमराश्च नमदमरा: नम्रीभूताः सुराः तेषां मौलयः किरीटानि तान्येव मन्दरस्य मेरो। तटान्ताः तत्र राजन्तः शोभमानाः पदयोः ये नखा त एव नक्षत्रकान्तः चन्द्रो यस्य तत्संबोधनं हे राजत्पदनखनक्षत्रकान्त । विबुधेति-विबुधानां देवानां स्त्रियः तासां नेत्राण्येव अम्बुजानि कमलानि तानि विबोधयतीति विकासयतीति विबोधः तत्संबोधनम् । मकरेति-मकरः ध्वजे यस्य मकरध्वजः कामः तस्य धनुः कोदण्डं तस्य उद्धवस्य उत्सवस्य निरोधः प्रतिबन्धः तत्संबोधनम् । हे जिन त्वं जय सर्वोत्कर्षेण वर्तस्व । कामविनाशक जिन त्वं सदा जयेति ॥५७४|| बोधत्रयेति-बोधानां मतिश्रुतावधीनां त्रयं बोधत्रयं तेन विदितं ज्ञातं विधेयतवं कार्यपद्धतिर्येन तत्संबोधनम् । तव परत्र अन्यस्मिन् पुरुषे का नाम अपेक्षा । अन्यस्मात्पुरुषात् कार्यस्वरूपज्ञानस्य नापेक्षा भवत्यस्तीति भावः । अत्र निदर्शनम्-असुभृज्जनस्य प्राणिसमूहस्य प्रबोधं व्यपगतनिद्रावस्थां दधतः तन्वतः, अरुणस्य सूर्यसूतस्य कोऽपि गुरुः अस्ति किम् । नव विद्यते स्वयं प्रकाशशील एव सः ॥५७५।। निजबीजेति-महति महापुरुषे निजबीजबलात् निजं बीजं कारणं तस्य बलात् प्रभावात् सामर्थ्यात् मलिनापि धीः दोषवत्यपि मतिः हे अभव हे संसाररहित । परमां शुद्धि भजति आश्रयते । अत्र निदर्शनम्युक्तेः अग्न्यादिकारणसामग्र्याः कनकाश्मा सुवर्णपाषाणः हेम सुवर्ण संपद्यते । किं कोऽपि तत्र सुवर्णे विवदेत नाम, नेदं सुवर्णम् इति विप्रतिपत्ति कुर्यात् किं कोऽपि । यस्मिन्नासन्नभव्यात्मनि मलिनापि धी रत्नत्रयकारणानि संप्राप्य निर्मला भवति विधिज्ञत्वं प्राप्नोति ॥५७६।। परिमाणमिवेति-यथा परिमाणं परमाणोः