Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[पृ०२८८
भावेभ्यो विलक्षणाः पुण्यजनका ये भवद्गोचरानन्तज्ञानादिगुणाः ते आश्रयोऽवलम्बो येषां तेर्भावः । हे जिन, त्वं मया दृष्टः नितरां सेवितः आराधितः असि । तथापि त्वं स्निग्धः अनुरक्तो मयि न । यत्त्वं भको विरकोऽपि अभक्ते द्वेषिणि समविधिः समस्वभावः असि । हे ईश, पुनः एतत् मच्चे: मम मनः भवति त्वयि प्रेमप्रकृष्टं प्रेम्णा आकृष्टं संलग्नम् । ततः अपरं किं भाषे अन्यत् कि ब्रुवे वच्मि । यामि गच्छामि गृहम् । भवतस्तव पुनदर्शनं भूयात् भवतु ।।७४६।।
इत्युपासकाध्ययने श्रुताराधनविधिर्नाम चत्वारिंशत्तमः कल्पः ॥४०॥
४१. प्रोषधोपवासविधि मैकचत्वारिंशत्तमः कल्पः । [पृष्ठ २८८-२६०] पर्वाणि-मासे चत्वारि पर्वाणि शुक्लकृष्णाष्टम्यो द्वे शुक्लकृष्ण चतुर्दश्यो द्वे इति चत्वारि पर्वाणि पर्वदिनानि प्रोषधशब्दाभिधेयानि आहुर्बुवन्ति स्म । पूर्यन्ते धर्मकर्माणि अत्रेति पर्वाणि । पूजाक्रियाव्रताधिक्यात् अन्वर्थनामधेयानि । अत्र धर्मकर्मपूजाभिषेकव्रतादिकं बृंहयेत् वर्धयेत् ।।७५०।। रसत्यागेति-रसानां क्षीरदधीक्षुतैलघृतानां त्यागः रसत्यागः । एकभक्तं दिने एकदा भोजनम् एकभक्तम् । एकस्थानम्-एकस्मिन्नेव स्थाने सकृद्भोजनम् । उपवसनक्रिया चतुर्णाम् आहाराणां त्यागः उपवसनम् । एताः क्रियाः यथाशक्ति आत्मनः बलं वीर्य चानतिक्रम्य विधेयाः स्युः कर्तव्या भवेयुः । पर्वसन्धौ सप्तम्यां नवम्यां च त्रयोदश्यां पौणिमायाम्, अमावस्यायां च । पर्वणि अष्टम्यां चतुर्दश्यां च ॥७५१॥ तन्नरन्तर्येति-तस्य रसत्यागस्य, एकभक्तस्य, एकस्थानस्य, उपवसनस्य च नरन्तयं निरन्तरस्य भावः नैरन्तर्यम् । एताः क्रियाः केऽपि सततं कुर्वन्ति केचन रसत्यागादीनां सान्तयं कुर्वन्ति । केचन यस्मिन् तिथौ यवतम् उक्तं तत्र एताः रसत्यागादिकाः क्रियाः कुर्वन्ति । तीर्थे तीर्थकराणां गर्भजन्मतपःकेवलमोक्षदिनेषु एताः क्रियाः करणीयाः । रोहिण्यादिनक्षत्रेषु च । अयं चित्रः बहुविधः उपवासविधिः श्रुतसमाश्रयः आगमाधारः चिन्त्यः स्मरणीयः ।।७५२।। प्रोषधोपवासवतः आचारविशेषमाह-स्नानेति-स्नानम्, गन्धः, अङ्गसंस्कारः शरीरस्य सौन्दर्यापादनम् । भूषा अलङ्कारधारणम् । योषा स्त्रीसेवा । एषु अविषक्तधीः अविषक्ता अननुरागवती धीः बुद्धिर्यस्य सः, एषां परिहारं कुर्वाणः इति । निवृत्तेति-सर्वाश्च ताः सह अवद्येन पापेन युक्ताः क्रियाः सर्वसावधक्रियाः। निवृत्तः सर्वसावधक्रियाभ्यो यः स निवृत्तसर्वसावधक्रियः परित्यक्तसकलपापाचारः। संयमयोः इन्द्रियप्राणिसंयमयोः तत्परः । एतादृशो गहस्थः उपोषित: गहीतोपवासः नित्यं धर्मध्यानपरायणो भवेत् कूत्र ध्याननिरतो भवेत् । देवागारे जिनमन्दिरे गिरी पर्वते गृहे स्वावासे वा। गहनेऽपि वनेऽपि वा ॥७५३-७५४॥ उपोषितस्य तस्य बह्वारम्भनिषेधमाह-पुंस इति-कृतोपवासस्य कृतचतुर्विधाहारत्यागस्य । पुनः कथंभूतस्य । बहीतिबहुश्चासौ आरम्भश्च प्राणिपीडाहेतुव्यापारः तत्र रतो व्याप्त आत्मा यस्य सः तस्य कायक्लेशः शरीरकष्टम् गजस्य स्नानेन जलावगाहनेन समा क्रिया यस्य सः तस्य यथा गजः जले निमज्य तटमागच्छति तत्रत्यानि रजांसि स्वमस्तके शुण्डया निक्षिपति, तद्वत् आरम्भरतस्य नरस्य उपवासकरणं शरीरक्लेशःय भवेत् ।।७५५।। प्रोषधविघ्नविधायिकाः क्रिया आह-अनवेक्षेति-भमिर्जीवाकूलास्ति न वेति सम्यगनवलोक्य तत्राहदादिपूजोपकरणपुस्तकादेः आत्मपरिधानाद्यर्थस्य स्थापनं ग्रहणं वा । अप्रतिलेखनम् - मृदुना उपकरणेन प्रमार्जन प्रतिलेखनम् । न प्रतिलेखनं अप्रतिलेखनम् । दुष्कर्मारम्भः पापकार्यारम्भः । दुर्मनस्कारः अशुभमनोविमर्शः । आवश्यकेति - आवश्यकानां सामायिकादीनां विरतिस्त्यागः । क्षुत्पीडितत्वादावश्यकेषु अनुत्साहः प्रोषधव्रते वा । एते चतुर्थम् उपवासं विनिघ्नन्ति विनाशयन्ति ।।७५६॥ कायक्लेशादात्मविशुद्धिमाह-विशुद्धथ. दिति-अयम् अन्तरात्मा कायक्लेशविधि विना उपवासादिकं विना न विशुद्धयेत् न निर्मलो भवेत् । निदर्शनमाह-काञ्चनेति-काञ्चनाश्मा सुवर्णपाषाणः तस्य विशद्धये किट्रमलाद्यपनयाय अग्नेरन्यत्किमस्ति उपायान्तरमस्ति नव । अग्निरेव सुवर्णमलनिर्गमनोपायोऽस्ति । तथा कायक्लेशादिभिस्तपोभिः कर्ममलनिर्गमनाज्जीव

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664