Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 608
________________ ४५६ पं० जिनदासविरचिता [पृ० २७० - ज्ञानेन तयानं कर्तुं सुशकं भवेत् यतः - देवं देवसभासीनमिति - ध्यायेदिति पञ्चदशतमपद्यस्थितक्रियया संबन्धः । कथंभूतम् अर्हन्तं ध्यायेत् । देवमिति -दीव्यते स्तूयते इन्द्रादिभिरिति देवः तम् । पुनः कथंभूतं देवसभासीनम् - देवनिर्मितायां समवसरणसंसदि समासीनं रत्नजटिततुङ्गसिंहासने पद्योपरि उपविष्टम् । पुनः कथंभूतम् पञ्चकल्याणनायकम् - पञ्चानां गर्भजन्मतपःकेवलनिर्वाणलक्षणानां कल्याणानां मङ्गलानां देवरवतीर्य विहितानाम उत्सवानां नायकम अधीशम । पनः कथंभतम चतस्त्रिशदगणोपेतम् - अही जन्मसमये दशातिशयाः संजायन्ते । केवलज्ञाने जाते दशातिशया भवन्ति । देवकृताश्च चतुर्दशातिशयाः संभवन्ति अंतोऽर्हन् भवति चतुस्त्रिशद्गुणोपेतः तम् । पुनः कथंभूतम् । प्रातिहार्योपशोभितम् - अशोकवृक्षाद्यष्टप्रातिहार्याणि तैरुपशोभितमलंकृतम् ॥६७५॥ निरञ्जनम - अजनं कज्जलं तद्यथा वस्त्रादिकं मलिनं करोति तथा घातिकर्माजनमात्मनो ज्ञानादिगणान्मलिनीकरोति अत: तन्निर्गतं यस्मात्सोऽर्हन्निरञ्जनः तम् । पुनः कथंभूतम् परमम् उत्तमम्, सर्वलोकेषु श्रेष्ठम् । रमयाश्रितम् - अनन्तज्ञानादिचतुष्टयरूपया लक्ष्म्यावलम्बितम् । पुनः कथंभूतम् अच्युतम् न च्यवते स्म स्वस्वरूपात् अच्युतः परमात्मनिष्ठः तम् । च्युतदोषौघं च्युतो गलितः दाषाणाम् आधः समूहो यस्मात् यस्य वा तं क्षुत्पिपासाद्यष्टादशदोषरहितम् । अभवम् न भवः जन्ममरणादिलक्षणः यस्य तम् । भवभृद्गुरुम् भवं संसारं बिभ्रति इति भवभूतः तेषां गुरुः तम् - संसारिणां भव्यानां मोक्ष. मार्गोपदेशकत्वात् भवभृद्गुरुस्तम् । पुनः कथंभूतम् । सर्वसंस्तुत्यम् सर्वेः नरैर्दानवैर्देवैः पशुभिश्च स्तोतुं योग्य सर्वसंस्तुत्यम् । पुनः कथंभूतम् । अस्तुत्यम् न स्तुत्यो यस्य कोऽपि, अर्हतः सर्वश्रेष्ठत्वात् गुणज्येष्ठत्वात्, च । पुनः कथंभूतं सर्वेश्वरम्, अनीश्वरम् सर्वेषां त्रिभुवनपतीनाम् इन्द्रधरणेन्द्रचक्रवर्तिनाम् ईश्वरः स्वामी तम् । अनीश्वरम् न ईश्वरो यस्मात् अन्यः स अनीश्वरः अर्हतः कोऽपि प्रभुनं वर्तते स सर्वेषामेव प्रभुः । सर्वारा सर्वेः इन्द्रादिभिः गुणप्राप्त्यर्थमाराध्यं पूज्यम् । अनाराध्यम् नान्य आराध्यो यस्य सः तम् स्वयमेव निजात्मानम् आराध्याईन् स्वयंभूर्जातः इति भावः । पुनः कथंभूतम् सर्वाश्रयम् सर्वेषां भव्यानाम् आश्रयभूतमवलम्बभूतम् । अनाश्रयम् निरालम्बम् । सर्वेभ्यो गुरुत्वात् अनाश्रयम् ॥६७६-६७७॥ प्रभवमिति - सर्वविद्यानां "प्रभवम् सकलद्वादशाङ्गानां भावरूपाणाम् उत्पत्तिस्थानम् । सर्वलोकपितामहम् । सर्वेषां त्रिभुवनवतिनां लोकानां जीवानां पितामहः । गणधरदेवादयः सर्वलोकानां पितरः तेषामपि जिनेश्वर: पिता अतः अस्मदादीनां भक्तानां स पितामहः तम् । पुनः कथंभूतम् । सर्वेति - सर्वेषां सत्त्वानां प्राणिनां यत् हितकरं रत्नत्रयं तदर्थम आरम्भः उपदेशो यस्य सः तम् । पुनः कथंभूतम् । गतसर्व गतेन ज्ञानेन व्याप्तवान् सर्वाणि वस्तूनि यः स गतसर्वः सर्वज्ञः इति भावः । पुनः कथंभूतम् । असर्वगम् सर्वगो व्यापकः सर्वाणि वस्तूनि गच्छतीति सर्वगः न सर्वगः असवर्गः अव्यापकः देहमात्रपरिमाणः । स्वदेहे एव सर्वेषां जनानां सुखदुःखानुभवोत आत्मा स्वदेहपरिमाणः । नैयायिकवैशेषिकाणां मते आत्मनो व्यापकत्वं प्रतिपादितं परं तत्तथा न। व्यापकत्वे आत्मनस्तच्छरीरेणापि व्यापकेन भाव्यम् । “स्वाङ्गे एव स्वसंकि स्वात्मा ज्ञानसुखादिमान् । यत: संवेद्यते सर्वेः स्वदेहप्रमितिस्तथा" इत्यनेन प्रमाणेन तस्य स्वदेहपरिमाणत्वं सिद्धं भवेत ॥६७८॥ नम्रामरेति-नम्राश्च ते अमराश्च देवास्तेषां किरीटानि मकूटाः तेभ्यो निर्गता ये अंशवः किरणास्तेषां परिवेषा मण्डलानि तैर्युक्ते नभस्तले आकाशतले। भवदिति-भवतः पूज्यस्य पादयोर्द्वयं युगलं तस्य द्योतिनः कान्तिमन्तो ये नखाः त एव नक्षत्रमण्डलम् । कथंभूतं तत् स्तूयमानं स्तुतिविषयी क्रियमाणम् । कैः अनूचानः श्रुतज्ञाननिपुणः । पुनः कथंभूतैः ब्रह्मोद्यः ब्रह्म मुक्तिः उद्यं वचनविषयं येषां ते ब्रह्मोद्यास्तैः मुक्तिपदं वर्णयद्भिः । ब्रह्मकामिभिः ब्रह्म शुद्धात्मरूपं तस्मिन्कामो वाञ्छा येषां ते ब्रह्मकामिनः तैः । पुनः किंभूतः। अध्यात्मेति-आत्मनि अधिकृतश्चासौ आगमः अध्यात्मागमः जीवस्वरूपप्रतिपादक शास्त्रम् तस्मिन् वेधोभिः ब्रह्मभिः तच्छास्त्रनैपुण्यवद्भिः महदिभिः बुद्धिविक्रियादिलब्धिमद्भिः योगिमुख्य: ध्यानिवर्यमुनिभिः स्तूयमानम् अर्हन्तं ध्यायेदिति संबन्धो ज्ञेयः ।।६७९-६८०॥ नीरूपमिति-कथंभूतमर्हन्तं ध्यायेदित्याह – नीरूपं निर्गतो रूपात् इति नोरूपः तम् शुक्लादिवर्णरहितम् तथापि रूपिताशेषम् रूपितं ज्ञातम् अवलोकितं सकलवस्तुकदम्बकं येन स रूपिताशेषस्तम्। अशब्दं शब्दरहितं शब्दस्तु पुद्गलपर्यायः स अर्हति न विद्यते । तथापि शब्दनिष्ठितं

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664