Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 610
________________ ४८८ पं० जिनदासविरचिता [पृ०२७३कल्याणानाम् आगमनं तस्य आकरम् उत्पत्तिस्थानम् ॥६८८॥ प्रणिधानेति-प्रणिधानानि चित्तस्य एकाग्रता करणानि तान्येव प्रदीपाः तेषु साक्षादिव प्रत्यक्षमिव चकासतं प्रकाशमानम् । जगत्त्रयाहि लोकत्रयपूजनयोग्यम् । सर्वतोमुखम-विश्वतश्चतुर्दिक्ष मुखं वक्त्रं यस्येति विश्वतोमुखः केवलज्ञानवन्तं स्वामिनं सर्वेऽपि जोवा निजनिजसम्मुखं भगवन्तं पश्यन्तीति भावस्तस्य तादृशनिर्मलत्वात् । अथवा विश्वतोमुखं खलु जलमुच्यते तत्स्वभावत्वात्, अमितजन्मपातकप्रक्षालकत्वात् । विषयसुखतृष्णानिवारकत्वात्, प्रसन्नभावत्वाच्च भगवानपि विश्वतोमुख उच्यते । अथवा विश्वं संसारं तस्यति नाशयति निराकरोति मुखं यस्येति विश्वतोमुखः । भगवन्मखदर्शनेन जीवः पुनः संभवे न संभवेत् । अथवा विश्वतः सर्वाङ्गेषु मुखं यस्येति विश्वतोमुखः तम् । पुनः कथंभूतम् अर्हन्तम् इन्द्रादिकृत्यामनन्यसंभाविनीम् अर्हणामहति योग्यों भवतीति अर्हन् । अथवा अकारशब्देन अरिर्लभ्यते स एव मोहनीयः । रकारेण रजो रहस्यं च लभ्यते किं - तत् रजः ज्ञानावरणं दर्शनावरणं च द्वयमेतत् रज उच्यते। रहस्यशब्देन अन्तरायकर्मोच्यते, एतच्चतुष्टयं च घातिकर्मचतुष्टयं कथ्यते । तद्धत्वा अहणामहतीति अर्हन तम् अर्हन्तं ध्यायेत् चिन्तयेन्मनसेति ॥६८९॥ आहुरिति-तस्मात् भगवतो जिनेश्वरात् परं ब्रह्म परमात्मपदं करे अयत्नाप्यं विना प्रयत्नं लभ्यमित्याहर्गणधरदेवादयः । तस्मादेव अर्हतः ऐन्द्रं पदम इन्द्रसंबन्धि सकलदेवाधिपत्यं करे अयत्नलम्यमाहुः । तथा तस्मात् एव भगवत इमा इहलोकसंबन्धिन्यः चक्राङ्काः सुदर्शनचक्रचिह्नाः सकलचक्रिपतिपालिताः क्षितिपश्रियः भूमिपतिलक्ष्म्यः अयत्नल म्याः सन्ति ॥६९०॥ यं यमिति-अस्मयमत्सराः स्मयश्च मत्सरश्च स्मयमत्सरी गर्वान्यशभद्वेषौ तौ येषां न ते अस्मयमत्सराः अगर्वा अन्यशुभस्निग्धाश्च भव्याः अध्यात्ममार्गेषु यं यं भावम् अभिप्रायं तत्पदाय अन्तः मनसि दधति विभ्रति, अर्हत्पदप्राप्तये स स भावस्तत्रैव लीयते तस्मिन्नेव पदे लीनो जायते । स स भाव: प्रकर्ष प्राप्य अर्हत कारणं भवति । एतदेव सोदाहरणं विवृणोति ॥६९१॥ अनुपायेति-पुंस्तरूणां पुमांसः भव्याः त एव तरवो वृक्षास्तेषां मनोदलं मनश्चित्तमेव दलं पत्रं तत् अनुपायानिलोभ्रान्तम् अनुपायाः मोक्षप्राप्तेरमार्गाः मिथ्यादर्शनादयस्त एव अनिलास्तैरुभ्रान्तम् । परं यदा ते अनिलाः शाम्यन्ति, तदा चिरादपि दीर्घात्कालादपि भूमावेव लीयमानं भज्येत । यथा तरोदलं वा तेनोपरि नीयते परं तस्योपशमे तत्पुनरध आगत्य भूमिमाश्रयति तथा भव्यमनोदलं पुनः अर्हत्स्वरूपां भूमिमाश्रयति । ज्योतिरेकमिति-इदं परमात्मज्योतिः । एकम् अद्वितीयम् । इदं पुद्गगलधषिमोकाशकालेषु नोपलभ्यते । परम् अस्य परमात्मनः वेषः । करोषांत-करोष गोमयम । अश्मा पाषाणः समित शकतणकाष्ठादिः तैः समः तुल्यः अयं परमात्मा स्वस्मिन्नवोपलभ्यः । परं तत्प्राप्तः परमात्मनः प्राप्तेः तथा अग्निप्राप्तेश्च उपायज्ञानाभावात् दिङ्मूढाः पथिका इव जीवाः भवकानने संसारारण्ये । भ्रमन्ति विचरन्ति । गोमयेऽग्निः शीघ्र प्रकटो न स्यात् तथा स्त्रीषु परमात्मा पारम्पर्येण प्रकटो भवति । पाषाणे अग्निः शीघ्र प्रकटो भवति तथा पुंसि आत्मा तस्मिन्नेव भवे प्रकटो भवेत् परमात्मदशां प्राप्तुम् अर्हो भवेत् । नपुंसके च स्त्रीवत् ॥६९२-६९३।। परापरेति-पराः श्रेष्ठा गणधरादयः । अपरा गृहस्थाः तेषु परं श्रेष्ठम् । एवम् उपर्युक्तप्रकारेण चिन्तयतो मनसि स्मरतो यतेः । ते ते भावाः लोकोत्तरश्रियः जगदुत्कृष्टसम्पद्भिः युक्ताः । अतीन्द्रियाः अतिक्रान्तेन्द्रियविषयाः भवन्ति । परात्मनः स्मरणात् सामान्यजनदर्लभाः अवधिज्ञानाद्यतिशयविशेषा लभ्यन्ते । परा: अनगारकेवलिनः तेभ्यः परा उत्कृष्टाः गणधराः तेभ्यः परो जिनः इति । जिनेश्वरात न कोऽपि श्रेष्ठः ॥६९४॥ व्योमेति-यथा व्योमाकाशं स्वयम् अमूर्तमपि छायानरेति-छाया प्रतिबिम्बं तेन युक्तो नरः तस्य उत्सङ्गं संबद्धं भवति । तथा अयम् आत्मा योगयोगात् . ध्यानयोगात प्रत्यक्षं वीक्षणम् अनुभवो यस्य तथा भवति । किल कश्चिन्निमित्ती मनुष्यः स्वशरीरच्छायालोकनं करोति । छायालोकनाभ्यासवशात् वियति छायां विनापि स तां वीक्षते एवं ध्यानाभ्यासात् आत्मा ध्यात्रा दृश्यते ॥६९५॥ [पृष्ठ २७३-२८०] न ते गुणेति-यत् यस्मात्कारणात् योगस्य ध्यानस्य द्योतनेन प्रकाशेन । अस्ततमश्च ये निरस्ता ज्ञानसमुच्चये येन स्युः प्रकटत्वं न प्राप्नुयुस्ते गुणाः नैव । यत् न जायते तज्ज्ञानं नैव या नोद्भवति सा दृष्टिनास्ति । यन्नोत्पद्यते तत्सुखमपि न । अस्यैदम्पर्यमेतत-आत्मनि निरस्तकर्मणि सर्वे

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664