Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ०२७२] उपासकाध्ययनटोका
४८७ शब्देन आगमेन निष्ठितः निर्णीतः तं शब्दनिष्ठितम् । पुनः कथंभूतम् । अस्पर्श योगसंस्पर्शम् । स्पर्शः अष्टविधैः शोतोष्णादिभिः रहितम। योगः धय॑शक्लध्याने तयोः सं सम्यक स्पर्शो यस्य सः तम। अरसं रसरहितं पन: सरसागमम् । सरसः सकलषडद्रव्याणां रसः स्वभावः तेन सहितः तद्न्यस्वरूपज्ञापकः आगमो यस्य सः तम् । अथवा सरसो भव्यजनमनोमोदकः आगमो यस्य सः तम् ॥६०
ति-अनन्तज्ञानादिभिः गुणः सुरभितः सुगन्धितः आत्मा यस्य सः तं गुणः सुरभितात्मानम् । दोषदुर्गन्धकणिकयापि रहितम् अर्हन्तं ध्यायेदिति भावः । अगन्धगुणसंगमम् गन्धगुणस्य संगमेन रहितम् । गन्धो गुणः पुद्गले वर्तते सोऽर्हति नास्तीति भावः । व्यतीतेति-व्यतीतः विशेषेण अतीत: अपगतः इन्द्रियाणां संबन्धो यस्मात् । भगवान् केवलज्ञानी यदा जातस्ततः प्रभति तस्य मतिज्ञानावरणक्षयोपशमजातैः स्पर्शनादीन्द्रियः संबन्धो नष्टः । भावेन्द्रियसंबन्धापगमो जातो भगवतः । नामकर्मोदयोत्पन्नद्रव्येन्द्रियसंबन्धस्तस्य अघातिकर्मणां सत्त्वाद्विद्यते । पुनः कथंभूतं तं ध्यायेत् इन्द्रियार्थावभासकम् इन्द्रियाणां पञ्चेन्द्रियाणाम् अर्थाः विषयभूता ज्ञेयपदार्थाः तान् अवभासयति जानातीति अवभासकः तम् ।।६८२॥ अर्हतः अष्टमूर्तिमत्त्वं व्याख्याति-भुवमिति-आनन्दाः अनन्तसुखानि एव सस्यानि धान्यानि तेषां भुवं भूमिरूपम् । पुनः कथंभूतम् । तृष्णा आशा एव अनलाचिष: अग्निज्वाला: तद्विध्यापने अम्भः पानीयरूपमर्हन्तम् दोषरेणूनां क्षुत्पिपासादयो दोषा एव रेणवः धूलयः तेषाम् उड्डायने पवनरूपम् । एनोऽवनीरुहाम् अग्निम्-एनांसि पापानि तान्येव अवनीरुहाः वृक्षास्तेषां दहने अग्निरूपम् । यजमानं सदर्थानां सन्तः अनेकान्ताः कथंचिन्नित्यानित्यादयो ये जोवादिपदार्थाः तेषां यजमानं भव्येभ्यो दातारम् । व्योम अलेपाद्धि सम्पदाम् हि यतः सम्पदां समवसरणादिविभूतीनां प्राप्तावपि अलेपात् अनुरक्त्यभावात् व्योमरूपम् आकाशरूपम् अर्हन्तं ध्यायेत। भानमिति-भव्यारविन्दानां भव्यकमलानाम् विकासपटुत्वात् आनन्ददायकत्वात् भानुं रविरूपम्। चन्द्रमिति-मोक्षामृतश्रियाम् मोक्ष एवामृतं सुधा तस्य श्रियः कान्तयः तासां चन्द्ररूपम् इत्यर्हतोऽष्टमूर्तिरूपं प्रतिपादितम् ॥६८३-६८४॥
[पृष्ठ २७१-२७२ ] अतावकगुणमिति सर्व सकलं वस्तुजातं अतावकगुणम् तव इमे तावकास्त्वदीयास्ते च गुणास्तावकगुणाः ते यस्मिन् न सन्ति तथाभूतं सर्व विद्यते वस्तुजातम् । सर्वज्ञत्वादिगुणा भवत्येव सन्ति अतो भवद्वयतिरिक्ताः सर्वे हरिहरादयोऽतावकगुणाः इति भावः । त्वं तु सर्वगुणभाजनः सकलघातिकर्मविलयात्त्वं भवान् सकलानन्तबोधादिगुणानां पात्रभूतः । त्वं सृष्टि: उत्पत्तिरूपः केषां सर्वकामानाम् सर्वासाम् इच्छानां त्वं पूरकः । त्वं भव्यमनोरथपूरणसमर्थः । तथापि कामसृष्टिनिमीलनः कामस्य स्मरस्य अशुभमनोवाक् कायव्यापाररूपस्य निमीलनः विध्वंसकः ॥६८५।। खसुप्तदीपनिर्वाणे इति-अप्राकृते अलौकिके खसुप्तदीपनिर्वाणे-खनिवर्णि नैयायिकानाम् । बुद्धिसुखादीनां नवानाम् आत्मगुणानाम्। अत्यन्तमुच्छेदात् जीवो मुक्तो भवति इति मतम् । सुप्तनिर्वाणं सांख्यानाम् । यतस्ते मुक्तो जीवस्य प्राकृतिकज्ञाननाशं मन्यन्ते। दीपनिर्वाणं बौद्धानाम यतस्ते आत्मा दीप इव तैलक्षयात सर्वथा विनाशं यातीति मन्यन्ते। हे जिन, त्वयि अप्राकृते अलौकिके त्वयि । जिने आकाशवत् रागद्वेषमोहाभावात् शून्यत्वम् । योगनिद्रायां सुप्तत्वम् । दोपवत्केवलज्ञानेन द्योतकत्वं विद्यते । अतः नैयायिकसांख्यबौद्धरूपं जगत्त्रयं प्राकृतं रत्नत्रयस्वरूपहीनं वर्तते स्फुटम् ॥६८६॥ त्रयीमार्गमिति-त्रयी सम्यग्दर्शनज्ञानचारित्राणां त्रयमेव त्रयीत्युच्यते । तस्यास्त्रय्याः भवान् प्रापकत्वात त्रयीमार्गः तं त्रयीमार्गम् । यीरूपं सम्यग्दर्शनादित्रयी एव भवतः स्वरूपं ततोऽनन्यत्वात अग्नेरुष्णतावत् । त्रयीमुक्तम्, मिथ्यादर्शनम्, मिथ्याज्ञानम्, मिथ्याचारित्रम् एतेषां त्रयो तस्या मुवतं रहितम् । त्रयोपति लोकत्रयोस्वामिनम् रत्नत्रयपति वा। त्रयोव्याप्तम्-त्रय्यां लोकत्रितये व्याप्तम् । केन व्याप्तम् ज्ञानेन । त्रयीतत्त्वम् रत्नत्रयं त्रयीत्युच्यते । तदेव तत्त्वं स्वरूपं यस्य तथाभूतं त्रयीतत्त्वम् । त्रयीति-त्रयो लोकत्रयम् तत्र चूडामणिवत् स्थितम् जिनं ध्यायेत् ॥६८७॥ जगतामिति–जगतां त्रिलोकानां कौमुदीचन्द्रम् ज्योत्स्नोत्पादकं चन्द्रमिव । कामेति त्रिलोकानां या अभिलाषाः तत्पूरणाय कल्पावनीरुहम कल्पयति कामान् सम्पादयति इति कल्पः स चासो अवनीरुहश्च वृक्षः तम् । गुणेति-गुणाः ज्ञानादयः त एव चिन्तामणयः चिन्तितफलदायका मणयः तेषां क्षेत्रम् उत्पत्तिस्थानम् । अर्हन्तं ध्यायेत् । पुनः कथंभूतम् । कल्याणेति

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664