SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ -पृ०२७२] उपासकाध्ययनटोका ४८७ शब्देन आगमेन निष्ठितः निर्णीतः तं शब्दनिष्ठितम् । पुनः कथंभूतम् । अस्पर्श योगसंस्पर्शम् । स्पर्शः अष्टविधैः शोतोष्णादिभिः रहितम। योगः धय॑शक्लध्याने तयोः सं सम्यक स्पर्शो यस्य सः तम। अरसं रसरहितं पन: सरसागमम् । सरसः सकलषडद्रव्याणां रसः स्वभावः तेन सहितः तद्न्यस्वरूपज्ञापकः आगमो यस्य सः तम् । अथवा सरसो भव्यजनमनोमोदकः आगमो यस्य सः तम् ॥६० ति-अनन्तज्ञानादिभिः गुणः सुरभितः सुगन्धितः आत्मा यस्य सः तं गुणः सुरभितात्मानम् । दोषदुर्गन्धकणिकयापि रहितम् अर्हन्तं ध्यायेदिति भावः । अगन्धगुणसंगमम् गन्धगुणस्य संगमेन रहितम् । गन्धो गुणः पुद्गले वर्तते सोऽर्हति नास्तीति भावः । व्यतीतेति-व्यतीतः विशेषेण अतीत: अपगतः इन्द्रियाणां संबन्धो यस्मात् । भगवान् केवलज्ञानी यदा जातस्ततः प्रभति तस्य मतिज्ञानावरणक्षयोपशमजातैः स्पर्शनादीन्द्रियः संबन्धो नष्टः । भावेन्द्रियसंबन्धापगमो जातो भगवतः । नामकर्मोदयोत्पन्नद्रव्येन्द्रियसंबन्धस्तस्य अघातिकर्मणां सत्त्वाद्विद्यते । पुनः कथंभूतं तं ध्यायेत् इन्द्रियार्थावभासकम् इन्द्रियाणां पञ्चेन्द्रियाणाम् अर्थाः विषयभूता ज्ञेयपदार्थाः तान् अवभासयति जानातीति अवभासकः तम् ।।६८२॥ अर्हतः अष्टमूर्तिमत्त्वं व्याख्याति-भुवमिति-आनन्दाः अनन्तसुखानि एव सस्यानि धान्यानि तेषां भुवं भूमिरूपम् । पुनः कथंभूतम् । तृष्णा आशा एव अनलाचिष: अग्निज्वाला: तद्विध्यापने अम्भः पानीयरूपमर्हन्तम् दोषरेणूनां क्षुत्पिपासादयो दोषा एव रेणवः धूलयः तेषाम् उड्डायने पवनरूपम् । एनोऽवनीरुहाम् अग्निम्-एनांसि पापानि तान्येव अवनीरुहाः वृक्षास्तेषां दहने अग्निरूपम् । यजमानं सदर्थानां सन्तः अनेकान्ताः कथंचिन्नित्यानित्यादयो ये जोवादिपदार्थाः तेषां यजमानं भव्येभ्यो दातारम् । व्योम अलेपाद्धि सम्पदाम् हि यतः सम्पदां समवसरणादिविभूतीनां प्राप्तावपि अलेपात् अनुरक्त्यभावात् व्योमरूपम् आकाशरूपम् अर्हन्तं ध्यायेत। भानमिति-भव्यारविन्दानां भव्यकमलानाम् विकासपटुत्वात् आनन्ददायकत्वात् भानुं रविरूपम्। चन्द्रमिति-मोक्षामृतश्रियाम् मोक्ष एवामृतं सुधा तस्य श्रियः कान्तयः तासां चन्द्ररूपम् इत्यर्हतोऽष्टमूर्तिरूपं प्रतिपादितम् ॥६८३-६८४॥ [पृष्ठ २७१-२७२ ] अतावकगुणमिति सर्व सकलं वस्तुजातं अतावकगुणम् तव इमे तावकास्त्वदीयास्ते च गुणास्तावकगुणाः ते यस्मिन् न सन्ति तथाभूतं सर्व विद्यते वस्तुजातम् । सर्वज्ञत्वादिगुणा भवत्येव सन्ति अतो भवद्वयतिरिक्ताः सर्वे हरिहरादयोऽतावकगुणाः इति भावः । त्वं तु सर्वगुणभाजनः सकलघातिकर्मविलयात्त्वं भवान् सकलानन्तबोधादिगुणानां पात्रभूतः । त्वं सृष्टि: उत्पत्तिरूपः केषां सर्वकामानाम् सर्वासाम् इच्छानां त्वं पूरकः । त्वं भव्यमनोरथपूरणसमर्थः । तथापि कामसृष्टिनिमीलनः कामस्य स्मरस्य अशुभमनोवाक् कायव्यापाररूपस्य निमीलनः विध्वंसकः ॥६८५।। खसुप्तदीपनिर्वाणे इति-अप्राकृते अलौकिके खसुप्तदीपनिर्वाणे-खनिवर्णि नैयायिकानाम् । बुद्धिसुखादीनां नवानाम् आत्मगुणानाम्। अत्यन्तमुच्छेदात् जीवो मुक्तो भवति इति मतम् । सुप्तनिर्वाणं सांख्यानाम् । यतस्ते मुक्तो जीवस्य प्राकृतिकज्ञाननाशं मन्यन्ते। दीपनिर्वाणं बौद्धानाम यतस्ते आत्मा दीप इव तैलक्षयात सर्वथा विनाशं यातीति मन्यन्ते। हे जिन, त्वयि अप्राकृते अलौकिके त्वयि । जिने आकाशवत् रागद्वेषमोहाभावात् शून्यत्वम् । योगनिद्रायां सुप्तत्वम् । दोपवत्केवलज्ञानेन द्योतकत्वं विद्यते । अतः नैयायिकसांख्यबौद्धरूपं जगत्त्रयं प्राकृतं रत्नत्रयस्वरूपहीनं वर्तते स्फुटम् ॥६८६॥ त्रयीमार्गमिति-त्रयी सम्यग्दर्शनज्ञानचारित्राणां त्रयमेव त्रयीत्युच्यते । तस्यास्त्रय्याः भवान् प्रापकत्वात त्रयीमार्गः तं त्रयीमार्गम् । यीरूपं सम्यग्दर्शनादित्रयी एव भवतः स्वरूपं ततोऽनन्यत्वात अग्नेरुष्णतावत् । त्रयीमुक्तम्, मिथ्यादर्शनम्, मिथ्याज्ञानम्, मिथ्याचारित्रम् एतेषां त्रयो तस्या मुवतं रहितम् । त्रयोपति लोकत्रयोस्वामिनम् रत्नत्रयपति वा। त्रयोव्याप्तम्-त्रय्यां लोकत्रितये व्याप्तम् । केन व्याप्तम् ज्ञानेन । त्रयीतत्त्वम् रत्नत्रयं त्रयीत्युच्यते । तदेव तत्त्वं स्वरूपं यस्य तथाभूतं त्रयीतत्त्वम् । त्रयीति-त्रयो लोकत्रयम् तत्र चूडामणिवत् स्थितम् जिनं ध्यायेत् ॥६८७॥ जगतामिति–जगतां त्रिलोकानां कौमुदीचन्द्रम् ज्योत्स्नोत्पादकं चन्द्रमिव । कामेति त्रिलोकानां या अभिलाषाः तत्पूरणाय कल्पावनीरुहम कल्पयति कामान् सम्पादयति इति कल्पः स चासो अवनीरुहश्च वृक्षः तम् । गुणेति-गुणाः ज्ञानादयः त एव चिन्तामणयः चिन्तितफलदायका मणयः तेषां क्षेत्रम् उत्पत्तिस्थानम् । अर्हन्तं ध्यायेत् । पुनः कथंभूतम् । कल्याणेति
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy