________________
४५६ पं० जिनदासविरचिता
[पृ० २७० - ज्ञानेन तयानं कर्तुं सुशकं भवेत् यतः - देवं देवसभासीनमिति - ध्यायेदिति पञ्चदशतमपद्यस्थितक्रियया संबन्धः । कथंभूतम् अर्हन्तं ध्यायेत् । देवमिति -दीव्यते स्तूयते इन्द्रादिभिरिति देवः तम् । पुनः कथंभूतं देवसभासीनम् - देवनिर्मितायां समवसरणसंसदि समासीनं रत्नजटिततुङ्गसिंहासने पद्योपरि उपविष्टम् । पुनः कथंभूतम् पञ्चकल्याणनायकम् - पञ्चानां गर्भजन्मतपःकेवलनिर्वाणलक्षणानां कल्याणानां मङ्गलानां देवरवतीर्य विहितानाम उत्सवानां नायकम अधीशम । पनः कथंभतम चतस्त्रिशदगणोपेतम् - अही जन्मसमये दशातिशयाः संजायन्ते । केवलज्ञाने जाते दशातिशया भवन्ति । देवकृताश्च चतुर्दशातिशयाः संभवन्ति अंतोऽर्हन् भवति चतुस्त्रिशद्गुणोपेतः तम् । पुनः कथंभूतम् । प्रातिहार्योपशोभितम् - अशोकवृक्षाद्यष्टप्रातिहार्याणि तैरुपशोभितमलंकृतम् ॥६७५॥ निरञ्जनम - अजनं कज्जलं तद्यथा वस्त्रादिकं मलिनं करोति तथा घातिकर्माजनमात्मनो ज्ञानादिगणान्मलिनीकरोति अत: तन्निर्गतं यस्मात्सोऽर्हन्निरञ्जनः तम् । पुनः कथंभूतम् परमम् उत्तमम्, सर्वलोकेषु श्रेष्ठम् । रमयाश्रितम् - अनन्तज्ञानादिचतुष्टयरूपया लक्ष्म्यावलम्बितम् । पुनः कथंभूतम् अच्युतम् न च्यवते स्म स्वस्वरूपात् अच्युतः परमात्मनिष्ठः तम् । च्युतदोषौघं च्युतो गलितः दाषाणाम् आधः समूहो यस्मात् यस्य वा तं क्षुत्पिपासाद्यष्टादशदोषरहितम् । अभवम् न भवः जन्ममरणादिलक्षणः यस्य तम् । भवभृद्गुरुम् भवं संसारं बिभ्रति इति भवभूतः तेषां गुरुः तम् - संसारिणां भव्यानां मोक्ष. मार्गोपदेशकत्वात् भवभृद्गुरुस्तम् । पुनः कथंभूतम् । सर्वसंस्तुत्यम् सर्वेः नरैर्दानवैर्देवैः पशुभिश्च स्तोतुं योग्य सर्वसंस्तुत्यम् । पुनः कथंभूतम् । अस्तुत्यम् न स्तुत्यो यस्य कोऽपि, अर्हतः सर्वश्रेष्ठत्वात् गुणज्येष्ठत्वात्, च । पुनः कथंभूतं सर्वेश्वरम्, अनीश्वरम् सर्वेषां त्रिभुवनपतीनाम् इन्द्रधरणेन्द्रचक्रवर्तिनाम् ईश्वरः स्वामी तम् । अनीश्वरम् न ईश्वरो यस्मात् अन्यः स अनीश्वरः अर्हतः कोऽपि प्रभुनं वर्तते स सर्वेषामेव प्रभुः । सर्वारा सर्वेः इन्द्रादिभिः गुणप्राप्त्यर्थमाराध्यं पूज्यम् । अनाराध्यम् नान्य आराध्यो यस्य सः तम् स्वयमेव निजात्मानम् आराध्याईन् स्वयंभूर्जातः इति भावः । पुनः कथंभूतम् सर्वाश्रयम् सर्वेषां भव्यानाम् आश्रयभूतमवलम्बभूतम् । अनाश्रयम् निरालम्बम् । सर्वेभ्यो गुरुत्वात् अनाश्रयम् ॥६७६-६७७॥ प्रभवमिति - सर्वविद्यानां "प्रभवम् सकलद्वादशाङ्गानां भावरूपाणाम् उत्पत्तिस्थानम् । सर्वलोकपितामहम् । सर्वेषां त्रिभुवनवतिनां लोकानां जीवानां पितामहः । गणधरदेवादयः सर्वलोकानां पितरः तेषामपि जिनेश्वर: पिता अतः अस्मदादीनां भक्तानां स पितामहः तम् । पुनः कथंभूतम् । सर्वेति - सर्वेषां सत्त्वानां प्राणिनां यत् हितकरं रत्नत्रयं तदर्थम आरम्भः उपदेशो यस्य सः तम् । पुनः कथंभूतम् । गतसर्व गतेन ज्ञानेन व्याप्तवान् सर्वाणि वस्तूनि यः स गतसर्वः सर्वज्ञः इति भावः । पुनः कथंभूतम् । असर्वगम् सर्वगो व्यापकः सर्वाणि वस्तूनि गच्छतीति सर्वगः न सर्वगः असवर्गः अव्यापकः देहमात्रपरिमाणः । स्वदेहे एव सर्वेषां जनानां सुखदुःखानुभवोत आत्मा स्वदेहपरिमाणः । नैयायिकवैशेषिकाणां मते आत्मनो व्यापकत्वं प्रतिपादितं परं तत्तथा न। व्यापकत्वे आत्मनस्तच्छरीरेणापि व्यापकेन भाव्यम् । “स्वाङ्गे एव स्वसंकि स्वात्मा ज्ञानसुखादिमान् । यत: संवेद्यते सर्वेः स्वदेहप्रमितिस्तथा" इत्यनेन प्रमाणेन तस्य स्वदेहपरिमाणत्वं सिद्धं भवेत ॥६७८॥ नम्रामरेति-नम्राश्च ते अमराश्च देवास्तेषां किरीटानि मकूटाः तेभ्यो निर्गता ये अंशवः किरणास्तेषां परिवेषा मण्डलानि तैर्युक्ते नभस्तले आकाशतले। भवदिति-भवतः पूज्यस्य पादयोर्द्वयं युगलं तस्य द्योतिनः कान्तिमन्तो ये नखाः त एव नक्षत्रमण्डलम् । कथंभूतं तत् स्तूयमानं स्तुतिविषयी क्रियमाणम् । कैः अनूचानः श्रुतज्ञाननिपुणः । पुनः कथंभूतैः ब्रह्मोद्यः ब्रह्म मुक्तिः उद्यं वचनविषयं येषां ते ब्रह्मोद्यास्तैः मुक्तिपदं वर्णयद्भिः । ब्रह्मकामिभिः ब्रह्म शुद्धात्मरूपं तस्मिन्कामो वाञ्छा येषां ते ब्रह्मकामिनः तैः । पुनः किंभूतः। अध्यात्मेति-आत्मनि अधिकृतश्चासौ आगमः अध्यात्मागमः जीवस्वरूपप्रतिपादक शास्त्रम् तस्मिन् वेधोभिः ब्रह्मभिः तच्छास्त्रनैपुण्यवद्भिः महदिभिः बुद्धिविक्रियादिलब्धिमद्भिः योगिमुख्य: ध्यानिवर्यमुनिभिः स्तूयमानम् अर्हन्तं ध्यायेदिति संबन्धो ज्ञेयः ।।६७९-६८०॥ नीरूपमिति-कथंभूतमर्हन्तं ध्यायेदित्याह – नीरूपं निर्गतो रूपात् इति नोरूपः तम् शुक्लादिवर्णरहितम् तथापि रूपिताशेषम् रूपितं ज्ञातम् अवलोकितं सकलवस्तुकदम्बकं येन स रूपिताशेषस्तम्। अशब्दं शब्दरहितं शब्दस्तु पुद्गलपर्यायः स अर्हति न विद्यते । तथापि शब्दनिष्ठितं