________________
४८८ पं० जिनदासविरचिता
[पृ०२७३कल्याणानाम् आगमनं तस्य आकरम् उत्पत्तिस्थानम् ॥६८८॥ प्रणिधानेति-प्रणिधानानि चित्तस्य एकाग्रता करणानि तान्येव प्रदीपाः तेषु साक्षादिव प्रत्यक्षमिव चकासतं प्रकाशमानम् । जगत्त्रयाहि लोकत्रयपूजनयोग्यम् । सर्वतोमुखम-विश्वतश्चतुर्दिक्ष मुखं वक्त्रं यस्येति विश्वतोमुखः केवलज्ञानवन्तं स्वामिनं सर्वेऽपि जोवा निजनिजसम्मुखं भगवन्तं पश्यन्तीति भावस्तस्य तादृशनिर्मलत्वात् । अथवा विश्वतोमुखं खलु जलमुच्यते तत्स्वभावत्वात्, अमितजन्मपातकप्रक्षालकत्वात् । विषयसुखतृष्णानिवारकत्वात्, प्रसन्नभावत्वाच्च भगवानपि विश्वतोमुख उच्यते । अथवा विश्वं संसारं तस्यति नाशयति निराकरोति मुखं यस्येति विश्वतोमुखः । भगवन्मखदर्शनेन जीवः पुनः संभवे न संभवेत् । अथवा विश्वतः सर्वाङ्गेषु मुखं यस्येति विश्वतोमुखः तम् । पुनः कथंभूतम् अर्हन्तम् इन्द्रादिकृत्यामनन्यसंभाविनीम् अर्हणामहति योग्यों भवतीति अर्हन् । अथवा अकारशब्देन अरिर्लभ्यते स एव मोहनीयः । रकारेण रजो रहस्यं च लभ्यते किं - तत् रजः ज्ञानावरणं दर्शनावरणं च द्वयमेतत् रज उच्यते। रहस्यशब्देन अन्तरायकर्मोच्यते, एतच्चतुष्टयं च घातिकर्मचतुष्टयं कथ्यते । तद्धत्वा अहणामहतीति अर्हन तम् अर्हन्तं ध्यायेत् चिन्तयेन्मनसेति ॥६८९॥ आहुरिति-तस्मात् भगवतो जिनेश्वरात् परं ब्रह्म परमात्मपदं करे अयत्नाप्यं विना प्रयत्नं लभ्यमित्याहर्गणधरदेवादयः । तस्मादेव अर्हतः ऐन्द्रं पदम इन्द्रसंबन्धि सकलदेवाधिपत्यं करे अयत्नलम्यमाहुः । तथा तस्मात् एव भगवत इमा इहलोकसंबन्धिन्यः चक्राङ्काः सुदर्शनचक्रचिह्नाः सकलचक्रिपतिपालिताः क्षितिपश्रियः भूमिपतिलक्ष्म्यः अयत्नल म्याः सन्ति ॥६९०॥ यं यमिति-अस्मयमत्सराः स्मयश्च मत्सरश्च स्मयमत्सरी गर्वान्यशभद्वेषौ तौ येषां न ते अस्मयमत्सराः अगर्वा अन्यशुभस्निग्धाश्च भव्याः अध्यात्ममार्गेषु यं यं भावम् अभिप्रायं तत्पदाय अन्तः मनसि दधति विभ्रति, अर्हत्पदप्राप्तये स स भावस्तत्रैव लीयते तस्मिन्नेव पदे लीनो जायते । स स भाव: प्रकर्ष प्राप्य अर्हत कारणं भवति । एतदेव सोदाहरणं विवृणोति ॥६९१॥ अनुपायेति-पुंस्तरूणां पुमांसः भव्याः त एव तरवो वृक्षास्तेषां मनोदलं मनश्चित्तमेव दलं पत्रं तत् अनुपायानिलोभ्रान्तम् अनुपायाः मोक्षप्राप्तेरमार्गाः मिथ्यादर्शनादयस्त एव अनिलास्तैरुभ्रान्तम् । परं यदा ते अनिलाः शाम्यन्ति, तदा चिरादपि दीर्घात्कालादपि भूमावेव लीयमानं भज्येत । यथा तरोदलं वा तेनोपरि नीयते परं तस्योपशमे तत्पुनरध आगत्य भूमिमाश्रयति तथा भव्यमनोदलं पुनः अर्हत्स्वरूपां भूमिमाश्रयति । ज्योतिरेकमिति-इदं परमात्मज्योतिः । एकम् अद्वितीयम् । इदं पुद्गगलधषिमोकाशकालेषु नोपलभ्यते । परम् अस्य परमात्मनः वेषः । करोषांत-करोष
गोमयम । अश्मा पाषाणः समित शकतणकाष्ठादिः तैः समः तुल्यः अयं परमात्मा स्वस्मिन्नवोपलभ्यः । परं तत्प्राप्तः परमात्मनः प्राप्तेः तथा अग्निप्राप्तेश्च उपायज्ञानाभावात् दिङ्मूढाः पथिका इव जीवाः भवकानने संसारारण्ये । भ्रमन्ति विचरन्ति । गोमयेऽग्निः शीघ्र प्रकटो न स्यात् तथा स्त्रीषु परमात्मा पारम्पर्येण प्रकटो भवति । पाषाणे अग्निः शीघ्र प्रकटो भवति तथा पुंसि आत्मा तस्मिन्नेव भवे प्रकटो भवेत् परमात्मदशां प्राप्तुम् अर्हो भवेत् । नपुंसके च स्त्रीवत् ॥६९२-६९३।। परापरेति-पराः श्रेष्ठा गणधरादयः । अपरा गृहस्थाः तेषु परं श्रेष्ठम् । एवम् उपर्युक्तप्रकारेण चिन्तयतो मनसि स्मरतो यतेः । ते ते भावाः लोकोत्तरश्रियः जगदुत्कृष्टसम्पद्भिः युक्ताः । अतीन्द्रियाः अतिक्रान्तेन्द्रियविषयाः भवन्ति । परात्मनः स्मरणात् सामान्यजनदर्लभाः अवधिज्ञानाद्यतिशयविशेषा लभ्यन्ते । परा: अनगारकेवलिनः तेभ्यः परा उत्कृष्टाः गणधराः तेभ्यः परो जिनः इति । जिनेश्वरात न कोऽपि श्रेष्ठः ॥६९४॥ व्योमेति-यथा व्योमाकाशं स्वयम् अमूर्तमपि छायानरेति-छाया प्रतिबिम्बं तेन युक्तो नरः तस्य उत्सङ्गं संबद्धं भवति । तथा अयम् आत्मा योगयोगात् . ध्यानयोगात प्रत्यक्षं वीक्षणम् अनुभवो यस्य तथा भवति । किल कश्चिन्निमित्ती मनुष्यः स्वशरीरच्छायालोकनं करोति । छायालोकनाभ्यासवशात् वियति छायां विनापि स तां वीक्षते एवं ध्यानाभ्यासात् आत्मा ध्यात्रा दृश्यते ॥६९५॥
[पृष्ठ २७३-२८०] न ते गुणेति-यत् यस्मात्कारणात् योगस्य ध्यानस्य द्योतनेन प्रकाशेन । अस्ततमश्च ये निरस्ता ज्ञानसमुच्चये येन स्युः प्रकटत्वं न प्राप्नुयुस्ते गुणाः नैव । यत् न जायते तज्ज्ञानं नैव या नोद्भवति सा दृष्टिनास्ति । यन्नोत्पद्यते तत्सुखमपि न । अस्यैदम्पर्यमेतत-आत्मनि निरस्तकर्मणि सर्वे