________________
-पृ० २७३ ]
उपासकाभ्ययनटीका
दर
,
गुणाः । सकलं ज्ञानम् । सकलं दर्शनम् । सकलं सुखं च उत्पद्यन्ते ॥ ६९६ ॥ देवम् इति - जगत्त्रयो नेत्रं सकललोकलोचनम्, देवं जिनेशम् तथा व्यन्तराश्च देवताः शासनदेवतादयः पूजाविधानेषु पूजाभिषेकादी समं समानमानाहं पश्यन् वोक्षमाणः अधः दूरं व्रजेत् अधोलोके दूरं नरकं गच्छेत् उत्पद्येत । व्यन्तरदेवताभिः तुल्यत्वम् अर्हतोऽस्तीति संकल्पेन महानविनयो भवति जिनेन्द्रस्य ततः पापलेपादधोगतिप्राप्तिः स्यादेव ॥ ६९७|| ता इति - - ताः शासनयक्षय क्षिण्यः गोमुखचक्रेश्वर्यादयः, क्षेत्रपालाः दिक्पालादयो देवताः । परमागमे शासनारिक्षार्थं जिनमतरक्षणाय कल्पिताः सूरिभिः मन्यन्ते स्म । अतो यज्ञांशदानेन पूजाशेषद्रव्यवितरणेन सुदृष्टिभिः सम्यग्दर्शनधारिभिर्भव्यैः माननीयाः पूजनीयाः । तथा संकल्पेन पूजिताः भव्यानां सम्यक्त्वहानये ता न भवन्ति । ताः जिनसदृशाः न माननीयाः किन्तु जिनाद्धीना ज्ञातव्याः || ६९८ ॥ तच्छासनेति — तस्य जिनेश्वरस्य शासने मते एका दृढा अद्वितीया भक्तिर्येषां तादृशां सुदृशां सम्यग्दर्शनवतां सुव्रतात्मनाम् अणुव्रतिनां ताः सपुरन्दराः सौधर्मेन्द्रसहिताः स्वयमेव सन्तुष्टा भूत्वा प्रसीदन्ति प्रसन्ना भवन्ति ।। ६९९ ।। तद्धर्मेतितद्धर्मे जिनप्रोक्ते धर्मे बद्धकक्षाणां दृढतरबुद्धीनाम् । रत्नत्रयधारणात् महीयसां श्रेष्ठतामापन्नानाम् । मनोरथैः मनोऽभिलषितैः । उभे द्यावाभूमी द्यौः आकाशं भूमिः भूतलम् नभोभूतले । कामदुधे स्याताम् । इष्टदानसमर्थे कामधेनू भवेताम् ||७००|| वरोपलिप्सया चेतसो रिक्तत्वमाह - कुर्यादिति - - जनः तपोऽनशनादिकं कुर्यात् विदधीत । मन्त्रान् जपेत्, देवता वा नमस्येत् नमस्कुर्यात् । यदि तच्चेतः तस्य मनः सस्पृहं वरोपलिप्सयाकुलं स्यात् सः सम्यग्दृष्टिः प्रतिको वा अमुत्र, परस्मिन् स्वर्गादो इह च अस्मिल्लोके रिक्तः फलशून्यो भवेत् ॥७०१ ॥ ॐकारजपः करणीय इति निवेदयति- ध्यायेत् इति - गुरुपञ्चकवाचकम् अर्हत्सिद्धादिपरमेष्ठिनां पञ्चानां बाचकं प्रतिपादकम् । वाङ्मयं पञ्चनमस्कारमन्त्रं ध्यायेत् चिन्तयेत् एकाग्रीभूतमानसः । एतद्धि वाङ्मयं सर्वविद्यानां सकलविद्यानाम् । अधिष्ठानम् आधारभूतम् । अविनश्वरम् अविनाशि ज्योतिः । अपूर्वम् चन्द्रसूर्यादिषु नोपलब्धं कदापि सकलपदार्थप्रकाशकम् ॥ ७०२ ॥ ध्यायन्निति - इदं पञ्चपरमेष्ठिवाचकम् ॐ इत्यक्षरम् । अस्मिन्देहे मन्दरमुद्रया मस्तकोपरि हस्तद्वयेन शिखराकारः कुड्मलः क्रियते स एव मन्दरो गिरिः । इति विन्यस्य स्थापयित्वा । ध्यायेत् चिन्तयेत् । सर्वनामादिवर्णार्हम् सर्वाणि यानि नामानि पञ्चपरमेष्ठिनाम् । तेषु आदिवर्णस्य अहं योग्यम् । वर्णाद्यन्तं सबीजकम् बीजाक्षरोपेतम् । पञ्चपदप्रयमाक्षरेण योग्यम् अर्हन् शब्दस्य 'अहं' इति गृह्यते । अशरीर 'मर' इति । सूरि 'अर्थ' इति । अध्यापक 'अ' इति । मुनि 'म' इति । पश्चात् 'रूपे रूपं प्रविष्टम्' इति वचनात् अकाररकाराश्च लुप्यन्ते । तदनन्तरम् 'अहं' इत्यत्र उच्चारणार्थः अकारः क्षिप्यते । 'मोऽनुस्वारं व्यञ्जने' अर्हम् इति तत्त्वं निष्पन्नम् ॥७०३ ॥ तपः श्रुतेति - -तपसा श्रुतेन ज्ञानेन विहीनोऽपि । तद्वयानेति - तदृद्ध्यानेन आविद्ध व्याप्तं मानसं यस्य सः पुरुषः । तत्तत्वेति तत्तत्वे ॐ अर्हम्' इत्यादिमन्त्रस्वरूपे तत्वे रुचिः श्रद्धानं तत्र दीप्रा धीः बुद्धिः यस्य स जनः । जातु कदाचनापि । तमसाम् अज्ञानानाम् । स्रष्टा उत्पादकः न भवति । सः अज्ञो न भवति । उपर्युक्तमन्त्रचिन्तनेन स ज्ञानी स्यात् ॥ ७०४ ॥ अस्यैव मन्त्रस्य समाधिमरणे चिन्तनं कार्यम् - अधीत्येति — सर्वशास्त्राणि आत्महितस्य कर्तृणि अघोत्य पठित्वा । परम् उत्तमं तपः विषाय कृत्वा च । अन्ते मूतिसमये, अनन्यचेतसः अन्यस्मिन् अन्नादी, शरीरे च मनः अकृत्वा । पञ्चपरमेष्ठिचरणेषु मनः स्थिरीकृत्य इमम् मन्त्रं स्मरन्ति || ७०५ ।। मन्त्रोऽयमिति - अयं मन्त्रः स्मृतिधाराभिः पञ्चपरमेष्ठिगुणस्मरणजलधाराभिः । यस्य मुनेराराधकस्य गृहिणो वा चित्तम् अभिवर्षति अभिषिञ्वति । तस्य सर्वे क्षुद्रेति- - क्षुद्राश्च ते उपद्रवाः उपसर्गाः त एव पांसवः रजांसि प्रशाम्यन्ति नश्यन्ति । क्षुद्रदेवतिर्यग्भिः कृताः पीडाः अनेन मन्त्रेण नश्यन्तीत्यर्थः ॥ ७०६ || अपवित्र इति - जन्तुः अपवित्र: अपूताङ्गः अशुचिः । पवित्रो वा स्नानादिभिः शुचिर्वा । सुस्थितः नीरोगः । दुःस्थितोऽपि वा सरोगोऽपि वा । या कापि भवत्ववस्था एतत्स्मृतेः अस्य मन्त्रस्य स्मरणात् । सर्वसम्पदां सकलवैभवानाम् आस्पदं स्थानं भवति ।। ७०७।। उक्तम् इति - लोकोत्तरं ध्यानमुक्तम् । लौकिकं किञ्चित्स्तोकम् उच्यते । प्रकीर्णकप्रपञ्चेन इतस्ततः प्रतिपादितानां विषयाणाम् एकत्र प्रतिपादनं प्रकीर्णकम् । तस्य प्रपञ्चो विस्तरस्तेन । पुनः कथंभूतं तत् दृष्टादृष्टफलाश्रयम् - दृष्टफलम् आरोग्यम् धनादिलाभश्च । अदृष्टं फलं स्वर्गादिकम् तयोः ६२