________________
४६०
पं० जिनदासविरचिता
[ १० २७३
हृदयं प्रापयेत् । पश्चात् मरुच्चतुष्टयं
।
माश्रयं आधारं ध्यानम् उच्यते ||७०८ || पचमूर्तिमयमिति - पञ्चमूर्तयः अर्हत्सिद्धाचार्योपाध्यायसाघवश्चेति निर्वृतं पञ्चमूर्तिमयम् । बीजं ॐ इत्यादि बीजाक्षरम् नासिकाग्रे निधाय विचिन्तयन् जपन् । चेतः मनः संगमे भूमध्ये निधाय स्थापयित्वा दिव्यं ज्ञानम् अवाप्नुयात् लभेत ॥७०९ || यत्र यत्रेति – यस्मिन् यस्मिन् हृषीके इन्द्रिये स्पर्शनादी । अचलं मनः निदधीत । तत्र तत्र अयं बाह्यग्राह्याश्रयं बाह्येरिन्द्रियैर्ब्राह्यो यः आश्रयः आधारस्तज्जन्यं सुखं लभेत प्राप्नुयात् । इन्द्रियग्राह्या ये पदार्थाः तेभ्यः सुखं लभेता राधकः ||७१० | स्थूलं सूक्ष्ममिति — स्थूलं सूक्ष्मं चेति ध्यानस्य भेदो द्वौ । एकं स्थूलं तत्त्वाश्रयं द्वितीयं सूक्ष्मं बीजसमाश्रयं बीजाधारम् । आद्येन स्थूलेन कामम् अभिलषितं स्वर्गादिपदम् । द्वितीयेन परं पदं मुक्ति लभते ॥७११॥ पद्ममिति — पूर्वम् आदौ । पद्म कमलम् उत्थापयेत् नाभौ स्वभावेन स्थितं कमलं चालयेत् । पश्चात् नालाकारेण नाडीं नालिकां संचालयेत् । नाड्या कृत्वा मरुतः पृथ्वी - अप्-तेजो- वायुमण्डलानि नासिकामध्ये सूक्ष्माणि स्थितानि सन्ति तानि चेतसि आत्मविषये । प्रचारयतु योजयतु ॥ इति टिप्पणे ||७१२ || दीपहस्त इति - यथा दीपहस्तः करधृतदीपः कश्चिन्नरः किंचिद्वस्तु आलोक्य तं पदार्थम् आलोकनानन्तरं त्यजति । तथा ज्ञानेन ज्ञेयमालोक्य पश्चात्तज्ज्ञानमुत्सृजेत् । ज्ञानेन प्रथमं यः पदार्थो ज्ञातस्तं समुत्सृज्य अन्यं ज्ञेयम् आश्रयेत् ततस्तमपि पदार्थम् परित्यजेत् ॥ ७१३ ॥ सर्वपापास्रवे इति - सर्वेति सकलपापानाम् आसवे आगमने क्षीणे सति ब्याने भावना भवति । ध्यानं कर्तव्यमिति विमर्शो मनसि स्फुरति । परं येषां बुद्धिः पापेन उपहृता वर्तते तेषां मनसि ध्यानवार्तापि दुर्लभा भवति । यदा चारित्र - मोहनीय कर्मणां क्षयोपशमः संपद्यते तदा आत्मध्याने मनो लीनं भवति परं कषायाणाम् उत्कटता येषां हृदि जागति तेषां ध्याने मनागपि मनो न लीयते ॥ ७१४ ॥ दधिभावगतमिति - क्षोरं दुग्धम् उत्तरपर्यायं दधिभावं प्राप्तं पुनः तन्निजावस्थां न याति । तथा तत्त्वज्ञान विशुद्धात्मा तत्त्वं जीवादिकं तस्य ज्ञानेन विशुद्धो निर्मल आत्मा यस्य स आराधक: ध्याता पुनः पापैर्न लिप्यते, तस्य ध्यातुः पापे बुद्धिर्न प्रवर्तते इति भावः ||१५|| मन्दं मन्दमिति - ध्याता वायुं मन्दं मन्दं शनैः शनैः क्षिपेत् मुञ्चेत् । तथा मन्दं मन्दं विनिक्षिपेत् आकर्षेत् । क्वचिद्वायुर्न धार्यते न रुष्यते । न च शीघ्रं प्रमुच्यते । शनैः शनैः वायुर्मोक्तव्यः । वायोश्चिरं निरोषाद्देहस्य मनसश्च स्वास्थ्यं विनश्येत् । शीघ्रं तद्विमुक्तेश्च चेतश्चाञ्चल्यं प्रजायेत ॥ ७१६ ॥ रूपमितियोगिनः ध्यातुः गतिः स्वरूपं प्रभावो वा विचित्रा विस्मयोत्पादिका वर्तते । यतः ते विदूरतः स्थितं रूपं स्पर्श रसं गन्धं शब्दं चैव आसन्नमिव समीपस्थमिव गृह्णन्ति जानन्तीत्यर्थः । निर्मले मनसि विमले दर्पण इव भावाः स्वस्वरूपं निदधतीति ज्ञेयम् । दग्धे बीजे इति - यथा बीजे अङ्करोत्पत्तिकारणे । अत्यन्तं दग्धे सति ततः अङ्कुरः न प्रादुर्भवति नोत्पद्यते । तथा कर्मबीजे मोहकर्मणि ज्ञानावृत्या दिकर्मकदम्बके प्ररोहणकारणे दग्धे सति भवाङ्कुरः जन्माङ्कुरः न रोहति न जायते ॥ ७१७-७१८ ॥ नाभाविति - नाभी तुम्दीकूपे । चेतसि हृदये । नासाग्रे नासिकाग्रे दृष्टो नेत्रे । भाले ललाटे । मूर्धनि शिरसि । च कायसरोवरे । ध्याता मनोहंसं विहारयेत् विचारयेत् । मन एवं हंसः मनोहंसः तम् । एवं ध्यात्रा विहिते सति यत्र कुत्रापि मनसः एकाग्रता स्यात् ॥७१९॥ यायादिति - नरः व्योम्नि आकाशे । यायात् गच्छेत् । जले तिष्ठेत् । अनलाचिषि अग्निज्वालायां निषीदेत् उपविशेत् । मनोमरुत्प्रयोगेण मनसः स्थिरीकरणेन, मरुत्प्रयोगेण च प्राणायामेन च । शस्त्रैरपि न बाध्यते । शस्त्रप्रहारेण अवयवा न छिद्यन्ते । एवं जनमनोविस्मापकं सामर्थ्यं ध्यातरि प्राणायामध्यानात् उद्भवति ॥ ७२०॥ जीत्र इति - जीवः संसारी । शिवः मुक्तः । शिवः मुक्तः, जीव संसारी अत्र कश्चन भेदः अस्ति किम् नास्ति । य एव जीवः संसारी स एव शिवः जीवत्वेन उभयोरपि अभेदात् । परम् एकः जीवः पाशबद्धः कर्माष्टकपीडितः वर्तते । अपरः पुनः शिवः पाशमुक्तोऽस्ति ॥ ७२१ ॥ आत्मनो ध्यानं कथं क्रियते । साकारमिति — सर्वं वस्तुजातं साकारम् आकारेण सहितं नश्वरं विनाशशीलम् । अनाकारं यद्वस्तु तन्न द्रष्टुं शक्यम् । अतः पक्षद्वयविनिर्मुक्तं साकारतायुक्तं निराकारं च यस्य स्वरूपं न विद्यते स जीवः योगिभिः कथं ध्यायते उच्यतामिति प्रश्ने सूरिराह - अत्यन्तमिति – देहोऽत्यन्तं मलिनः सप्तधातुभूतत्वात् । परम् आत्मा तथा न । कीदृशस्तर्हि सः पुमानात्मा अत्यन्तनिर्मलः सप्तधातूपेतत्वं