________________
-पृ० २८४] उपासकाध्ययनटीका
४६१ देहस्य स्वरूपं न तदात्मनः । स तु नितान्तं निर्मलः । एनम् आत्मानं देहाच्छरीरात्पृथक् कृत्वा विभिन्न कृत्वा तस्मानित्यम् अविनाशिनं तं विचिन्तयेत् ध्यायेत् ॥७२२-७२३॥ तोयमध्ये इति-यथा तोयमध्ये जलमध्ये । तैलं पृथक् तिष्ठति । नीरक्षीरवत् अन्योन्यप्रदेशप्रवेशस्तयोर्न भवति । तथा अस्मिन् शरीरमध्ये पुमाञ्जीवः पृषक्तया आस्ते विद्यते ॥७२४॥
[पृष्ठ २८१-२८४ ] दध्नः सर्पिरिवेति-यथा उपायेन मन्थनदण्डेन मथित्वा दहनः सपिघृतं पृथक क्रियते तथा तत्त्वज्ञैः जीवस्वरूयाभिज्ञः चिरम् अनादिकालेन संसर्गवानपि नीरक्षीरमिव देहेन, आत्मा शरारतः देहात् पृथक् क्रियते ! केन ध्यानोपायेन ॥७२५॥ पुष्पामोदाविति-यथा पुष्पात् आमोदः गन्धः भिन्नः। यथा तरोश्च्छाया भिन्ना । तद्वत् देहदेहस्थो ज्ञातव्यो। देहजीवी प्रतिपत्तव्यो। देहः पुष्पसदृशः साकारः जीवस्तद्गन्धतुल्यः निराकारः । देहः तरुवत् जोवस्तच्छायेव । यदा तो लपनबिम्बवत देहः लपनवत् मुखवत् । आत्मा आदर्शगतमुखबिम्बवत् । यद्वत्सकलनिष्कले सकल: अर्हन् निष्कलः सिद्धः तत्र सकलनिष्कले ॥ ७२६ ॥ एकस्तम्भमिति-इदं शरीरं योगिनां गृहम् गेहमिव । यथा गृहं स्तम्भैः सहितं वर्तते तथा इदं योगिशरीरम् । एकस्तम्भम् एकः स्तम्भः यत्र तथाभूतम् । एकस्तम्भं जीवे चेतना लक्षणं तदेव लक्षणं स्तम्भभूतम् । गृहे द्वाराणि विद्यन्तेऽत्र नवद्वाराणि सन्ति, शरीरे नवछिद्राणि सन्ति । द्वे नेत्रे नासिकारन्ध्रद्वयम् । कर्णरन्ध्रयुगम् । मुखरन्ध्रम् । शिश्नरन्ध्रम् । गुदरन्ध्रमिति नवरन्ध्र' शरीरम् । एतानि रन्ध्राण्येव शरीरस्य द्वाराणि । पञ्चपञ्चजनाश्रितम् - यथा गृहं पञ्चजना मनुष्यास्तराश्रितम् । तथा योगिनां शरीरगृहमपि पञ्च इन्द्रियाण्येव पञ्चजनाः मनुष्याः तेराश्रितम् । यथा गृहम् अनेककक्षं बहुप्रकोष्ठकं विद्यते । तथा योगिनां शरीरमिदम् अनेककक्षं नाभिकमलादिनानावयवोपेतम् ॥७२७॥ ध्यानामृतान्नेति-योगिनां चित्तं योगबान्धवे योगो ध्यानं स एव तस्य बान्धवः आप्तजनस्तत्र तथाभूते शरीरे रमते संतुष्यति । कथंभूतस्य योगिनः । ध्यानेतिध्यानमेव अमृतान्नं पीयूषान्नं तेन तृप्तस्य सोहित्यं प्राप्तस्य । पुनः कथम्भूतस्य । क्षान्तीति-क्षान्तिः क्षमा सैव योषित् जाया तस्यां रतस्य स्नेहं कृतवतः ।।७२८॥ रज्जुभिरिति-यथा रज्जुभिः प्रग्रहैः । कृष्यमाणः चोद्यमानः । योऽश्वः पारिप्लवश्चञ्चलः । स्याद्भवति। तथा इन्द्रियः स्पर्शनादिभिः । कृष्टः प्रेरितः । आत्मा क्षणम् एकक्षणकालमपि ध्याने न लीयते लीनो निश्चलो न भवति । यो दुष्टाश्वः स्यात्स प्रेरितस्तिष्ठति खंचितश्चलति तथेन्द्रियः खंचितः आत्मा चलति न तिष्ठति । अतः आत्मानं शनैः शनैः वशं करोतु ।।७२९।। रक्षामिति-सकलीकरणविधिना स्वाङ्गरक्षणं विधाय । तथा संहरणम् औदारिकशरीरभस्मनः हरणं कृत्वा । वैक्रियिकशरीरं चोत्पाद्य । गोमुद्रामृतवर्षणम् सुरभिमुद्रयामृतवर्षणं च कृत्वा । स्वयम् आप्तरूपधरः आप्तोऽर्हन् तस्य रूपधरः परमौदारिकदेहस्थोऽहमिति भावयित्वा आप्तम् अर्हन्तं चिन्तयेत् सकलीकरणे पूर्व यथा शरीररक्षा क्रियते । पश्चात् अग्नितत्त्वे दहनलक्षणं संहरणम्। चन्द्रावरुणमण्डलात् अमृतवर्षेण सृष्टिं कृत्वा। स्वयम् आप्तरूपधरः आप्तम् अर्हन्तं चिन्तयेत् इति भावः । ( टिप्पणे ) ॥७३०॥ धूमवत् इति-धूमवत् पापं निर्वमेत् अघं परिक्षपयेत् । केन गुरुबोजेन । (झ) कारेण । तेन कारणेन तद्वर्णेन अमृतवर्णेन पकारेण । मुहुः मुहुः वारंवारम् ॥७३१॥ पद्मवीरसुखासनवर्णनम्-संन्यस्ताभ्यामिति-संन्यस्ताभ्यां संस्थिताभ्याम् अधोध्रिभ्याम् अपश्चरणाम्याम्, पद्मासनं भवति । ऊर्वोरुपरि सक्नोरुपरि युक्तितः अघ्रि भ्यां स्थापिताभ्यां वोरासनं भवति । तथा समगुल्फाम्यां समघुटिकाभ्यां सुखासनं भवति । टिप्पण्यामिदम् सक्थ्नोरधः पादौ तदा पद्मासनम्, सक्थ्नोपरि तदा वीरासनं घूण्टी उपरि घूण्टी तदा पद्मासनम् ।।७३२॥ तत्र सुखासनस्येदं लक्षणम्-गुल्फोत्तानेति-गुल्फयोः घुटिकयोः उपरि उत्तानो ऊर्ध्वतलो यो करी हस्ती तयोः अङगुष्ठे रेखाः रोम्णाम् आलिः पंक्तिः नासिका नासा च समदृष्टिः समाः कुर्युः विदध्युः । नातिस्तब्धो न अतिशयेन स्तब्धः स्थिरः । न वामनः नातिनम्रः ।।७३३।। तालेति-तालस्य वितस्तेः त्रिभागस्व्यंशः तृतीयभागश्चतुरङ्गुलः तावत् मध्ये अन्तरम् अघ्रयोश्चरणयोर्यस्य स तालत्रिभागमध्याघ्रिः । पुनः कथंभूतः योगी। स्थिरति - स्थिरे निश्चले शीर्षशिरोधरे मूर्धग्रोवे यस्य सः । पुनः कथंभूतः समनिष्पन्देति-पार्ण्यग्रौ गुल्फयोः अधःप्रदेशाग्री। जानुनी ऊरुपर्वणी ध्रुवी हस्ती करो लोचने नयने समानि निस्पन्दानि च निश्चलानि च पायॆग्रजानुभ्रहस्तलोचनानि यस्य सः । एतादशो