________________
४६२
पं० जिनदासविरचिता
[ पृ० २८५
I
योगो ध्यानयोग्यः ॥ ७३४ ।। ध्यानजं विधिमाह - नखेति--न नखकृन्तिः न नखानां कृन्तनं दन्तैः कार्यम् । न कण्डूतिः हस्तेन अङ्गखर्जनं नैव विधेयम् । न ओष्ठभक्तिः ओष्ठ्योरनावृतता न विधेया । ओष्ठो विधाय ध्यानं विधेयम् । न कम्पतिः शरीरकम्पनं न कार्यम् । न पर्वगणितिःपर्वणां कराङ्गुलीनां ग्रन्थीनां गणितिः गणना न कार्या । नोक्तिः न भाषणं वक्तव्यम् । आन्दोलितिः स्मितिः शरीरस्य आन्दोलनं स्मितं हास्यं च न विधेयम् ॥७३५॥ न कुर्या - दिति-- दूरं दृक्पातः दूरं दृग्भ्यामवलोकनं न कुर्यात् । नैव केकरवीक्षणं तिर्यगवलोकनं नेत्राभ्यां नैव विधेयम् । न स्पन्दमिति -- पक्ष्ममालानां स्पन्दं पक्ष्मपुटानां स्पन्दं चलनं नैव कुर्यात् । नासाग्रदर्शन: नासाया अग्रे दर्शने लोचने यस्य सः ॥७३६|| विक्षेपाक्षेपेति--विक्षेपो मनसश्चञ्चलता । आक्षेपः अपवादः । संमोहो जडता मोढ्यं वा । दुरीहा दुरभिप्रायः । एभिः रहिते हृदि मनसि लब्धतत्त्वे च लब्धजीवादिस्वरूपज्ञाने सति । अयं अशेषः सकलः ध्यानजो विधिः ध्यानपरिकरः करस्थो निजायतो भवेत् ।।७३७।।
इत्युपालकाध्ययने ध्यानविधिर्नाम एकोनचत्वारिंशः कलाः ॥३९॥
४०.
श्रुताराधनविधिर्नाम चत्वारिंशत्तमः कल्पः ।
[ पृष्ठ २८५ - २८७ ] यस्याः पदद्वयमिति- -यस्याः जिनमुखोद्भवायाः सरस्वत्याः पदद्वयं चरणयुगलं स्याद्यन्तं त्याद्यन्तं च । अलङ्कृतियुग्मयोग्यम् नूपुरयुगलोचितं शब्दालङ्कारार्थालङ्कारो अलङ्कृतियुग्मं तस्य योग्यं तेन भूषितमिति । पुनः कथंभूतं तत् । लोकत्रयेति - लोकत्रयमेत्र अम्बुजसरः कमलसरोवरं तत्र प्रविहारि प्रकर्षेण विहरणशीलम् । हारि मनोहरं च । तां देवीं शारदां सलिलेन जलेन सेवे पूजयामि । कथंभूतां देवीम् । कवीति - कवयः एव द्युतरवः कल्पवृक्षाः तेषां मण्डनाय शोभायं कल्पवल्लीं कल्पलताम् । पुनः कथंभूताम् । वागिति—वाचां विलासः वाग्विलासः तस्य वसतिः गृहभूताम् । इति तोयेन सरस्वतीं पूजयेत् ।। ७३८ ।। यामन्तरेणेतियां जिनशारदाम् अन्तरेण विना सकलार्थसमर्थनोऽपि सकलाश्च ते अर्थाः जीवादयः धर्मार्थकाममोक्षाः वा तेषां समर्थनोऽपि प्रतिपादकोऽपि । बोधः अधिगमः ज्ञातम् । अवकेशितरुवत् अफलवृक्षवत् वन्ध्यपादपवत् फलार्थिसेव्यः धर्मार्थादिपुरुषार्थचतुष्टयं प्राप्तुकामैः न सेव्यः आश्रयणीयो न भवति । परं यया सरस्वतीदेव्या अनुगतः युक्तः स बोधोऽल्पवेद्यपि स्तोकपदार्थबोधकोऽपि सुरदुरिव कल्पतरुरिव त्रिलोक्या लोकत्रयजनः सेव्यः भजनीयो भवति तां वाग्देवतां गन्धैः प्रयजेय अहं पूजयेयम् । इति गन्धम् ॥७३९॥ येति – या वाग्देवी स्वल्पा वस्तुरचना जीवादितत्त्वकथनं यस्याः सा तथाभूतापि अल्पार्थापि अल्पशब्दसहितापि मितप्रवृत्तिः मिता अल्पा प्रवृत्तिः यस्याः सा परं संस्कारतः तद्विपरीतलक्ष्मीः तस्यां वाग्देव्यां संस्कारे अभ्यारूपे अतिशयाधाने कृते सति पूर्वोक्ताद्विपरीता लक्ष्मीः शोभा यस्याः सा अर्थात् या अस्वल्परचना भवति अमितप्रवृत्तिश्च भवति । या सुधानुबन्धात् सुधायाः अमृतस्य अनुबन्धात् संबन्धात् स्वर्वल्लरीवनलतेव स्वर्गस्थितानां वल्लरीणां यद्वनं तत्रत्या लतेव प्रतिभाति । सा लता यथा सुधां सूते तथा या वाग्देवी मुक्तिसुधां सूते अतस्ताम् अहं सदकैः तण्डुलैः श्रयामि भजामि । इत्यक्षतम् ॥ ७४० ॥ यद्बीजमल्पमपि - यस्या: बीजं यद्बीजं यस्याः उत्पत्तिकारणम् अल्पमपि जीवे बाल्याद्यवस्थायाम् अल्पं विद्यते परं तत् सज्जनधोधरायां साधुजनमतिभूम्यां लब्धप्रवृद्धि लब्धं प्राप्तं प्रवृद्धि यत् तत् किं कारणं तस्य प्रवृद्धेः । विविधेति - विविधाः तर्क - साहित्य - व्याकरणादयः ये अनवधयः अमर्यादाः प्रबन्धाः ग्रन्थरचनाविशेषाः तैः लब्धप्रवृद्धि प्राप्तसमृद्धिकं सत् अपूर्वरसवृत्तिभिः अपूर्वो अदृष्टपूर्वो अननुभूतपूर्वो वा यः रसः शान्तरस: तस्य वृत्तयो विशेषाः तैर्यवीजं रोहति वर्धते । ताम् आश्चर्यगोचरविधिम् आश्चर्यस्य गोचरो विषयो विधिः कार्यं यस्याः तां वाचां देवीं प्रसवैः पुष्पैर्भजे सेवे पूजये । इति पुष्पम् || ७४१ ॥ येति – या वाग्देवी । अस्प ताधिकविधिः । अस्पष्टता अविशदता तथा अधिको विधिः कार्यं यस्याः सा । श्रुतज्ञानम् अस्पष्टं तदेव कार्य यस्याः तथाभूता । अथवा शब्दरूपत्वात् नेत्राणामगम्या । तथापि मनः आत्मा स्पष्टं प्रसूते । प्रकटीकरोति ।