________________
-पृष्ठ २८७]
उपासकाध्ययनटीका
४६३
परतन्त्रनीतिः परतन्त्रनयरूपा श्रुतज्ञानावरणक्षयोपशमाधीना। अष्टस्थानापेक्षया परतन्त्रनीति: पराधीना तथापि मनः स्वाधीनं प्रसूते प्रकटीकरोति । प्रायः कलापरिगता कलाभिः वस्त्वंशज्ञानैः परिगता व्याप्ता। मनः प्रसूते मनः चित्तं जनयति । कलापरिगतोपि मूर्तिसहितापि । मनः आत्मा उपशान्तकलं शरीररहितं सूते । 'श्रुतमनिन्द्रियस्येति' मनसः श्रुतज्ञानं विषयः इति निर्देशात् । यदा च स्पष्टं तत् श्रुतज्ञानमस्पष्टं शुक्लध्यानेन घातिकर्मविनाशात् केवलज्ञानरूपं विति तदा तत् स्पष्टं स्वतन्त्रम् उपशान्तकलं च भवति । सकलवस्तुपरिच्छेदकत्वात् । क्षायोपशमिकभावविनाशनात् । अंशात्मकताविकलत्वात् । उचितमेव, नृणां वस्तुगतिः चित्रा नराणां नानाविधं वस्तूविषयं ज्ञानं भवति । अतः तां वाग्देवीम् अन्नविधः चरुप्रकारः यजे पूजये ॥७४२॥ एक पदमिति-बहुपदापि बहनि पदानि यस्याः सा बहुपदा तथाभूतापि तुष्टा सती एक पदं ददासि । श्रुतपदसंख्यागमे एवं प्रतिपादिता-'कोटीशतं द्वादश चैव कोटयो, लक्षाण्यशीतिस्त्र्यधिकानि चैव । पञ्चाशदष्टौ च सहस्रसङ्ख्यमेतच्छ्रतं, पञ्चपदं नमामि ।' एवं बहुपदेषु सत्स्वपि एकं पदं ददासीति विरोधः, तत्परिहारस्त्वेवम् । एक मुख्यं पदं स्थानं सिद्धालयं त्वं ददासि । वर्णात्मिकापि अकारादिहकारपर्यन्तवर्णस्वरूपा अपि त्वम् आराधकजनं वर्णभाजं वर्णधारिणं न करोषि इति विरुद्धमेतत्परिहियतेस्वयं वर्णभागपि सतो आराधकं वर्णादिगुणधारिणं ब्राह्मणत्वादिवर्णयुक्तं मूर्तिमन्तं च न करोति अर्थात् वाग्देव्याराधकाः तत्प्रसादात संसारिदशां मक्त्वा सिद्धपदं लभन्ते इति भावः । तथापि भवती अहं से वे यजे। यतः अर्थी जनो दोषं न पश्यति कार्यापेक्षी नरः। तत् तस्मात तव एष दीपः समस्तु । इति दीपम् ॥७४३॥ चक्षुःपरमिति-करणेति-करणानि इन्द्रियाणि तान्येव कन्दरं दरी तस्माद् दूरितार्थे तिरोहितार्थे जोवादिपदार्थसार्थे । हे देवि, त्वं परम् उत्तमं चक्षुः नेत्रमसि । अतीन्द्रियपदार्थावलोकनक्षमत्वात् । मोहेति-मोहान्धकारापनयने देवि, त्वं परमः उत्कष्टः प्रकाशः असि मेघादिना कदाचनापि अतिरोहितप्रकाशा त्वमसि । तामेतितत् अनिर्वचनीयं स्वरूपं धाम स्थानं सिद्धालयः तत्प्रतिगामी गमनशीलः यः पन्था मार्गस्तस्य वीक्षणे रत्नदीप: त्वमसि । तत् तस्मात् हे देवि, इह जनेन आराधकनरेण त्वं धूपैः सेव्यसे आराध्यसे । इति धूपम् ॥७४४।। चिन्तामणीति-चिन्तामणिश्चिन्तारत्नम्, त्रिदिवधेनुः स्वर्गसुरभिः, कामधेनुरिति भावः । सुरद्रुमाद्याः कल्पपादपादयः पुंसां पुरुषाणां मनोरथेति-चित्ताभिलाषाः तेषां यः मार्गः तस्मिन् प्रथितः प्रसिद्धः प्रभाव: माहात्म्यं येषां ते भावाः हैं देवि, तव सम्यकसेवाविधेः समीचीनाराधनाविधानात, नियतं नियमेन भवन्ति भक्तानां जायन्ते । तत् तस्मात् इदं फलं नारिकेलादि समर्पितं ते मुदेऽस्तु आनन्दाय जायताम् । इति फलम् ॥७४५।। कलधौतेति-कलधौतेन सुवर्णेन रचितानि यानि कमलानि, मौक्तिकानि शौक्तिकानि मुक्ताफलानीति भावः, दुकूलं सूक्ष्मवस्त्रम् । मणिजालं रत्नसमूहः, चामराणि चमरीजानि प्रायः आदी येषां तैः अनर्थ्यवस्तुनिवहैः तथा सकलमङ्गलभावः दर्पणदधिदूर्वादिभिर्मङ्गलैर्भावः पदार्थः अहं देवी सरस्वतीम् आराधयामि सेवे ॥७४६।। स्याद्वादेति-स्याद्वादः कथंचिद्वादः स एव भूधरः पर्वतः तस्माद्भव उत्पत्तिर्यस्याः सा।
अनन्यति-न अन्यः शरणं रक्षको येषां ते अनन्यशरणाः तैः । त्वमेव रक्षिका येषां तैः देवैः समुपासवोया आराध्या । पुनः कथंभूता। स्वान्तति-स्वान्ते मनसि आश्रिताः संचिताः ये अखिलाः कलङ्काः ज्ञानावरणादिकर्मदोषाः तेषां हरतीति हरः तथाभूत: प्रवाहः यस्याः सा। मनःस्थितसकलकर्मकलहरणक्षमज्ञानजलोघो यस्याः सा। वागापगा जिनवाणीनदी। मम बोध एव गजः करी तस्य अवगाहः प्रवेशो यस्यां तथाभूता भवतु ।।७४७॥ जिनाभिषेकादिभ्यः का अवस्था लभते भाक्तिक इति प्रश्ने प्राह-मूर्धति-जिनानां तीर्थकृताम् अभिषवात् स्नानात् भक्तो मूर्धाभिषिक्तो भवति प्रधाननृपो जायते । जिनानाम् अर्चनात् पूजनात् अर्यः नसुरपूज्यो भवति । संस्तवनात् जिनगुणस्तुतेः स्तवाहः. स्तुतियोग्यो भवति । जपात जपो नामस्मरणयोग्यो भवति । ध्यानविधेः एकाग्रचित्तेन जिनगुणध्यानकरणात् अबाध्यः अन्यबर्बाधां नाप्नोति । श्रुतसेवनात च श्रुतस्य जिनमुखोद्भतवाण्याः आराधनात् श्रुताश्रितश्रीः श्रुतलब्धलक्ष्मीको भवति ।।७४८।। दृष्ट इति-है जिन, दृष्टः त्वम् अनन्याश्रयः भावः नितरां सेवितः असि । अन्यजनाश्रयणादुद्भूताः ये अनुरागादयो भावाः ते अन्याश्रया भावा उच्यन्ते ते तु भवजनकाः । तथाभूत