Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 606
________________ ४८४ पं० जिनदासविरचिता [पृ०२६८निबर्हणं चतुर्गतिदुःखनाशनं तत्त्वं यथार्थमनेकान्तवस्तुस्वरूपं प्रपश्यन्ति । यथा ते तत्स्वरूपं प्रपश्यन्ति तथा तेषाम् आशास्महे ।। इति अपायधर्म्यध्यानम् ॥६५५॥ लोकविचयधर्म्यध्यानमाह-अकृत्रिम इति-अयं लोक: अकृत्रिमः नहि केनापि देवेन रचितः। विचित्रात्मा नानाविधस्वरूपः । मध्ये च सराजिमान असनालीसहितः त्रसजीवसमूहशोभितः । मरुत्त्रयोवृतः घनवातेन, अम्बुवातेन, तनुवातेन च सर्वतो वेष्टितः । प्रान्ते अस्य लोकस्य प्रान्ते अग्रे तद्धामनिष्ठितः तेषां मुक्तानां धाम आस्पदं निवासः तेन निष्ठितः समाप्ति गतः । मुक्तानां निवासी लोकस्यान्ते विद्यते इति भावः। तत ऊर्ध्व सर्वत्र अलोकाकाश एवेति पुनः पुनः लोकस्य विचारणं लोकविचयधर्म्यध्यानमित्यर्थः ॥६५६॥ विपाकविचयधर्मध्यानमाह-रेणवदिति-तत्र तस्मिल्लोके । तिर्यक् मध्यलोके । ऊर्ध्वम् उपरि स्वर्गादौ। अधः पाताले च । एते जन्तवः त्रसस्थावरप्राणिनः । रेणुवत् धूलिर्यथा वायुप्रेरिता सती तिर्यक् इतस्ततः ऊर्ध्वम्, अधः यत्र कुत्रापि भ्रमति । तथा निजान्येव कर्माणि यानि शुभाशुभानि तान्येव अनिल: वायुस्तेन ईरिता नोदिताः। अनारतम् ऊर्ध्वाधस्तिर्यक्षु स्थानेषु भ्रमन्ति तिर्यगादिदेहान् धृत्वा । एवं पुनः स्मरणम् एकाग्रचेतसा लोकविचयध्यानम् ।।६५७॥ इतीति-इति एवं प्रकारेण । धर्म्य चतुर्विध धर्म्यध्यानं चिन्तयतः एकाग्रेण मनसा। पुनः कथंभूतस्य । यतेति- यतानि दान्तानि वशीकृतानि इन्द्रियाणि चेतो मनश्च येन तस्य मुनेः । तमांसि पापानि । द्रवं विनाशम् आयान्ति गच्छन्ति । कस्मादिव । द्वादशेति-द्वादशात्मा सूर्य: मेषवृषादिराशीन् क्रमशः गच्छत्यतः स द्वादशात्मा कथ्यते । यथा सूर्यस्योदयाद् ध्वान्तं पलायते तथा इन्द्रियाणि मनश्च वशीकृत्य धर्म्यध्यानं चिन्तयतो मुनेः तमांसि अज्ञानानि विनाशं यान्ति ॥६५८॥ भेदमिति-विवजिताभेदम् अभेदं परित्यज्य भेदं ध्यायन् । भेदवजितम् अभेदं च ध्यायन् ध्याता सूक्ष्मक्रियाशुद्धो कायवाङ्मनसां व्यापारान् सूक्ष्मीकरोति । ततश्च पूर्वापेक्षया क्रियाशुद्धो भूत्वा निष्क्रियो भवति । योगत्रयरहितः ध्याता ततो निष्क्रिय घ्यानं प्रतिपद्यते स्वीकरोति ॥६५९-६६०॥ कीदृगात्मा मोक्ष इत्युच्यते-प्रक्षीणोभयेति-मनीषिणः स्याद्वादिनो विद्वांसः मोक्षम् आहुः । कथंभूतं मोक्षम् । प्रक्षोणेति-प्रक्षीणे प्रणष्टे बन्धहेत्वभावनिर्जराभ्यां कर्मणी द्रव्यभावाख्ये यस्य सः तम् । पुनः कथंभूतम् । जन्मदोर्षविवजितम् जन्म चतुर्गतिभ्रमणम्, दोषाश्च आवरणानि क्षुत्पिपासादयश्च तैविवजितम् । पुनः कथंभूतं मोक्षम् । लब्धेति - लब्धाः प्राप्ताः गुणाः अनन्तज्ञानादयोऽनन्ता गुणा यस्य तथाभूतम् आत्मानं मोक्षम् आहुः ब्रुवन्ति । नष्टाष्टकर्माणम् प्राप्तानन्तगुणम् द्रव्यभावकर्मरहितम् नष्टचतुर्गतिभ्रमणम् दोषरहितम् आत्मानम् विद्वांसः मोक्षं कथयन्ति इति भावः ॥६६१॥ ध्यातुर्येयमाचष्टे-मार्गसूत्रमितिमार्गो मोक्षमार्गः तस्य सूत्रं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' तत ध्याता ध्यायेत चिन्तयेत । कथंभतो ध्याता आगम एव चक्षरस्ति यस्य स आगमचक्षष्मान स्याद्वादागमलोचनः । पुनः कथंभूतः । प्रसंख्येति-प्रसंख्यानम एकाग्रचिन्तानिरोधो ध्यानं तत्र परायणः प्रणिधानपरः। किं किं ध्यायेत् । अनुप्रेक्षाः शरीरादीनां स्वभावानचिन्तनम । सप्ततत्त्वं जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाश्चेति सप्ततत्त्वानि तेषां समाहारम् । जिनेश्वरं प्रक्षीणसकलघातिकर्माणं तीर्थकरदेवम् च । ध्यायेत् चिन्तयेत् ॥६६२॥ जाने इति-यथा ऐतिह्यं तत्त्वम् । इति इह भवम् ऐतिह्यम् आप्तोपदेशः जिनागमः । तत्त्वं जीवादिकं यथा जाने वेनि तथा तदनन्यधीः तस्मिन अनन्या धीः यस्य सः आगमे एव मतिं कृत्वेत्यर्थः। अहं श्रद्दधे अन्यस्मिन् मिथ्यागमे न कदाचनापि मम मतिः प्रवर्तेत । अहं सर्वम् आरम्भं मुञ्चे प्राणिपीडाहेतुव्यापार आरम्भः तं त्यजामि । तथा आत्मनि ज्ञानदर्शनलक्षणे निजात्मनि आत्मानं स्वम् आदधे स्थापयामि स्थिरीकुर्वे । न बाह्ये वस्तुनि ॥६६३॥ आत्मायमितिअयम् आत्मा बोधिसंपत्तेः रत्नत्रयनिधेः सकाशात् । यदा आत्मना स्वेनैव करणेन श्रुतज्ञानेन । आत्मनि निजे स्वरूपे निश्चलो भवति तदा आत्मानं ज्ञानदर्शनलक्षणं शुद्धम् बाह्यसंयोगरहितं सूते जनयति । तदा परमात्मना परमः आत्मा परमात्मा सकलमोहक्षयात् केवलज्ञानलाभाच्च नितरां शुद्धत्वं प्राप्तः आत्मा परमात्मा तस्य स्वरूपेण स आत्मानं लभते। यथा वतिः दीपं प्राप्य दीपो जायते तथा श्रुतज्ञानेन जीवतत्त्वे एकाग्रीभूय चिरन्तनाभ्यासेन आत्मानं जीवो लभते ॥६६४॥ स्वस्वरूपचिन्तने आस्मैव ध्यातृध्यानध्येयध्यानफलरूपो भवतीति दर्शयति-ध्यातेति-आत्मैव ध्याता भवति । यथा युक्तिपरिग्रहः प्रमाणनयात्मिका युक्तिः,

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664