Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 600
________________ ४७८ पं० जिनदासविरचिता [ पृ० २४६ धनम्, भगवान् खलु धरणेन्द्रादिभिः कृतायाः पूजायाः स्थानमित्यर्थः । हे जिन कर्मारातिविजयिन् प्रशमनिवेश रागादिदोषनिबर्हणं प्रशमः तस्य निवेश गृहीभूत । जगदीश जगन्नाथ । मम त्वत्पदनुतिहृदयं दिश । तव पदयोः नुतिः स्तुतिः तस्यां हृदयं मनः दिश देहि । मम मनः त्वत्पदभक्तिपरं कुवित्यर्थः । घत्ता ॥ ५९२ ॥ अमरतरुणीति - हे जिन त्वम् अमरतरुणीति - अमरतरुण्यः देवयुवतयः, तासां नेत्राणाम् आनन्दे प्रमोददाने महोत्सवचन्द्रमाः महोत्सवदिनस्य पूर्णिमायाः चन्द्रमाः असि । हे जिन त्वं स्मरेति- - स्मरस्य मद एवं गर्व एव ध्वान्तं तिमिरं मदमयध्वान्तं तस्य ध्वंसे विनाशे परमः उत्तमः अर्यमा सूर्यः मतोऽसि । त्वं कर्माराती ज्ञानावरणादिकर्मशत्रुगणे अदयहृदयः क्रूरमनाः असि । नते भक्त्या नम्रे जने कृपात्मवान् दयास्वभाव: इति त्वं विसदृशव्यापारः शत्रौ मित्रे भक्ते च विषमप्रवृत्तिः तथापि भवान् महान् पूज्यः । भगवाञ्जिनः रागद्वेषाभ्यां सताम् असतां च अनुग्रहनिग्रहयोर्न विधाता स तु परमोदासीनः परन्तु सदसन्तः जिने रागेण द्वेषेण च प्रवर्तन्तेऽतस्तद्रागद्वेषयोजिनो गतेर्धर्मास्तिकायवत् कारणं मन्यते ॥ ५९३ ॥ अनन्तेति - जिनेश्वर, त्वयि अनन्तगुणसंनिधी अनन्तानां गुणानां सम्यक् अक्षये निधी निधाने सति । मयि च नियतबोधसंपन्निधो नियतः परिमितः स चासौ बोधो ज्ञानं स एव संपन्निधिः यस्य तथाभूते मयि अल्पज्ञे सतीत्यर्थः । पुनः कथंभूते भवति । श्रुताधीति श्रुतान्धिः द्वादशाङ्गज्ञानसमुद्रः तस्य बुधाः ज्ञातारः गणधर देवादयः तैः संस्तुगते स्तुति विषयतां नीते । मयि च कथंभूते परिमितोक्तेति - परिमितं सावधिकं यत् उक्तवृत्तम् अल्पज्ञताख्यं प्रोक्तं वृत्तम् उदन्तः तस्मिन् स्थिते मयि । हे जिनेश्वर, स्फुटं प्रकटं त्वयि ईदृशे महाज्ञानसमुद्रे । मयि च तादृशे पल्वलकल्पे, सति । तदिदं वस्तुद्वयं भवान् अहं च, सदृशनिश्चयं समानमिति निर्णयपात्रं कथं भवतु ।। ५९४ ।। तदलमिति — हे अतुल अनुपम त्वादृगिति त्वया सदृशाः त्वादृशाः तेषां वाणी त्वादृग्वाणी तस्याः पन्थाः त्वादृग्वाणीपथः तेन स्तवनं तस्य उचितः तस्मिन् त्वयि जिने । जडस्य मन्दस्य मादृशः । गुणानां गणः समूहः तस्य अपात्रैः अविषयभूतैः स्तोत्र: अलं पर्याप्तम् । गणधरदेवादयः तव गुणानां स्तोत्राणि विधातुं क्षमा भवन्ति यतस्ते तव गुणानां गणनाभिज्ञाः । नाहं मन्दः । प्रणतिविषये अस्मिन् व्यापारे कर्मणि सुलभे सति कथमयम् अवाक् स्तुतिं कर्तुम् असमर्थो जनः त्वद्गुणस्तुती प्रवर्तेत । हे स्वामिन् आस्तां स स्तुतिमार्गः नाहं तेन गन्तुं क्षमः अतः ते नमोऽस्तु अस्तु ॥ ५९५ ॥ जगन्नेत्रमिति — हे जिन त्वां जगतां नेत्रभूतम् । निखिलेति — सकल विषयज्ञानज्योतिषां पात्रं भाजनम् । पुनः कथंभूतम् । सकलेति — सकलाश्च ते नयाश्च सकलनयाः नैगमादिनयाः तेषां नीतिः पद्धतिः तया स्मृता गुणा यस्य तं महान्तं पूज्यं त्वाम् । पुनः कथंभूतम् । विनतेति - विनताः भक्ताः तेषां हृदयानन्दविषये महोदारं महान्तं वदान्यं दानशीलं सारम् उत्तमं त्वाम् अहं याचे । हे भगवन् अर्थिविमुखः याचकविमुखश्चेत्त्वं न भवसि ॥ ५९६ ॥ मनुजेति- इह् अस्मिन् लोके मनुजेति – मनुजा नराः । दिविजा दिवि स्वर्गे जायन्ते इति देवाः । तेषां लक्ष्मीः रमा तस्या लोचनयोः नेत्रयोः आलोकः प्रकाशः तस्य लीला शोभा येषां तथाभूताः प्राणिनः । त्वत्प्रसादात् तव कृपां प्राप्य । चिरं बहुना कालेन । चरितार्थाः कृतकृत्याः जाताः । स्वामीतिस्वामिनः प्रभोः सेवायाम् आराधनायाम् उत्सुकत्वात् हर्षनिर्भरत्वात् । इदानीम् अधुना । छात्रमित्रे छात्राणां शिष्याणां मित्रे सुहृदि मयि त्वं हृदयम् । सह वसतिसनाथां सह वसत्या निवासेन सनाथं मनः विधेहि कुरुष्वेत्यर्थः (परिपूरितवाञ्छं कुरु इत्यर्थः) ॥५९७॥ । - इस्युपासकाध्ययने स्तवनविधिर्नाम सप्तत्रिंशत्तमः कल्पः ||३७|| ३८. जपविधिर्नामाष्टत्रिंशत्तमः कल्पः । [ पृष्ठ २४९ - २५२ ] सर्वेति — केचित् आचार्याः सर्वाक्षरैः जपं निगिरन्ति प्रतिपादयन्ति । केचित् सूरयः नामाक्षरैर्जपम् केचित् मुख्याक्षरादिषु एकवर्णन्यासात् एकवर्णमवलम्ब्य जपं निगिरन्ति । परमहं तु

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664