Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 556
________________ पंजिनदासविरचिता [पृ० १७९तथा सा सगरं वृणुते स्म । भवति पात्र श्लोकः-अल्पैरिति-समर्थः अल्पैरपि सहायः साहाय्यं वितरद्भिः कार्यकारिभिः पुरुषः नृपः विजयी भवति । कुन्तस्य शस्त्रविशेषस्य अन्तः अग्रं कार्याय शत्रुविनाशाय भवति । परम् अस्य कुन्तस्य दण्डस्तस्य परिच्छदः सहायो भवति । तथा सगरस्य नृपस्य धात्रीपुरोहितो द्वावेव तत्कार्याय समयों जाताविति भावोऽत्र विज्ञेयः ।।३९४।। इत्युपासकाध्ययने सुरुसायाः सगरसंगमो नामाष्टाविंशः कल्पः ॥२४॥ २९. वसो रसातलसादनो नामैकोनत्रिंशः कल्पः [पृष्ठ १७६-१८१] [जातवैराग्यः मधुपिङ्गलः गृहीतदीक्षः विहरन् सगरद्वारमागात्, तत्र शिवभूतिविश्वभूतिशिष्यः उत्तमलक्षणोपेतं तमवलोक्य दह्यतामेतत्सामुद्रिकशास्त्रमित्युवाच । श्रुत्वा तगिरं विश्वभूतिः सकलं पूर्वेतिहासं तस्याकथयत् । सर्वमेतद्वयतिकरं श्रुत्वा 'मधुपिङ्गलो मुनिः क्रुद्धो जज्ञे । कालेनोत्पद्य कालासुरनामासुरो जातः । ] प्ररूढनिर्वेदकन्दलः उत्पन्नभववैराग्याङ्करः मधुपिङ्गलः, "धिगिदं भोगायतनं शरीरम् । अभोगायतनं सुलसाभोगरहितत्वात् अभोगास्पदम् । यत् यस्मात् एकदेशदोषात् एकदेशः शरीरकभागः नेत्र तत्र दोषात इमाम उचितसमागमाम् अपि उचितः न्याय्यः समागमः संभोगो यस्यास्ताम् अपि मामतनूदहां मामस्य पुत्रीम् अहं नालप्सि न लब्धवान् ।" इति मत्वा विमुक्तेति त्यक्तभवमोहः स्वीकृतदीक्षः, क्रमेण तांस्तान् प्रामारामनिवेशादीन् प्रामवनादिरचनाविशेषान् निरनुकः अकामः । जङ्घारिक इव प्रशस्ताम्यां वेगवतीभ्यां जह्वाम्या इयति गच्छतीति जङ्घारिक इव जाङ्घिकपुरुषवत् लोचनोत्सवतां नयन नयनानन्दतां नयन् तत्रत्यजनामां नयनयोर्मोद वितरन, अशनाया बुद्धया भोजनकामेनेति भावः, अयोध्यामागत्य अनेकेति-अनेकैरुपबासः अनाहारैः चतुर्विधाहारत्यागः पराधीनचित्तसामर्थ्यः, तीव्रोदन्यतया तीव्रतृष्णया भतिक्लान्तशरीरः। वाष्पीह इव जलं पातुमिच्छंश्चातक इव क्लमथुव्यपोहाय ग्लानिनाशाय सगरागारद्वारमन्दिरे सगरनपस्य द्वारगृहे मनाग ईषत्कालं व्यलम्बत तस्थौ। तत्रच पुरेति-[पुरा यदा सा सुलसा अतिथिदेव्या गर्ने बासीत् तदा मयेयं मधुपिङ्गलाय देयेति मनःसंकल्पमकरोत्सा । परं तस्याः सुलसायाः परिणयस्य प्रदानस्यापायः विश्वभूतिना बक्रियत । ] पुरा स्वयंवरकाले प्रयुक्ता योजिता परिणयापायस्य प्रदानविनाशस्य नीतिर्येन स विश्वभूतिः प्रगल्भमतये प्रगल्भा प्रौढा मतिर्बुद्धिर्यस्य तस्मै शिवभूतये रुचिष्याय प्रियाय शिष्याय, रहितेति-रहिता रहस्यस्य गोपनीयस्य मुद्रा प्रतीतिर्यत्र, तत्सामुद्रकं समुद्रेणपिणा प्रोक्तं देहचिह्नवन्दम् अशेषविदुषविचक्षणः सकलबुधनिपुणः ब्याचक्षाणो विवृण्वानः बभूव । परेतिपरामर्शः पूर्वापरालोचनशानं तस्य वशः असंशीतिः संशयरहितः स शिवभूतिः तं त्यक्षलक्षणपेशलं न्यक्षाणि सकलानि च तानि लक्षणानि शुभदेहचिह्नानि पनवजादीनि तैः पेशल: सुन्दरः तं मधुपिङ्गलम् अवलोक्य 'उपाध्याय, घनेति-घनं विपुलं तच्च तं तस्य भारतिभिर्वद्विर्यस्यास्तीति वृद्धिमत् तच्च तद्धाम च तेजः तेन शालते इति धामशालिनि, ज्वालामालिनि ज्वालानां शिखाना माला यस्य. तस्मिन् अग्नी, दह्यताम् एतस्य ऐतिहस्य पारम्पर्योपदेशस्य स्वाध्यायः अध्ययनं पठनम्, यत् यस्मात्. एवमिति एवंविषशरीरोऽपि अयं मुनिः ईदगवस्थायाः एतादृग्दशायाः कीर्तिवर्णनं यस्य । अतः एतल्लक्षणशास्त्रं विफलम् इति शिवभूतेषणं श्रुत्वा विश्वभूतिर्वक्ष्यमाणं उवाच 'कथंभूतो विश्वभूतिः । सदेति-सदाचारस्य निगृहीतिविनाशो यस्मात् स विश्वभूतिः ( वदति ) अपर्याप्तति-न परि सर्वतः साप्ता पूर्वापरसंगतिर्शानं येन तत्संबोधनम् हे शिवभूते, मा गाः खेदम्, यदेष नृपवरस्य सगरस्य निदेशादेशात निदेशात् कृतात् आदेशात् आज्ञायाः, अस्मदुपदेशात् च अनन्येति-अन्यत्र उपलभ्यमानं सामान्य लावण्यम् अन्यसामान्यलावण्यं न उपलभ्यमान सामान्यं लावण्यम् अनन्यसामान्यलावण्यम्, तस्य निवासो यस्यां सा तां सुलसाम् अलभमानः तपस्वी दीनः तपस्वी अभत मुनिरकायत । एतच्च भासना समीपा मरिटानां मरणलमणानां ततिः पङ्क्तिर्यस्य तस्य विश्वभूते: पचनम् एकायनमनाः एकस्मिन्मुस्खे भयन गमनं मनसो यस्य स एकायनमनाः एकापसावधानो वा।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664