Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 561
________________ -पृ० १८६] उपासकाम्ययनटीका ४३६ अस्थाने इति-अस्थाने अकृत्ये बदकक्षाणां कृतप्रयत्नानां नराणां द्वयं सुलभम् । किं तत् । परत्र परलोके दीर्घा दुर्गतिः दुःखदा तिर्यङ्नरकगतिः, अत्र च शाश्वती सदातनी दुष्कोतिः ॥३९६।। इत्युपासकाध्ययने वसो रसातवासादमो नामैकोनत्रिंशः कस्पः ॥२९॥ ३०. असत्यफलसूचनो नाम त्रिंशत्तमः कल्पः [पृष्ठ १८६-१८९] [ वसोः पातालतलगमनान्निदं प्राप्तो नारदो मुनिदीक्षां गृहीत्वा शुक्लध्यानेन केवलमुत्पाद्य सिद्धोऽभवत् ] नारदस्तमेव निर्वेदम् असत्यपापफलं वीक्ष्य संसाराद्वैराग्यम् उररीकृत्य स्वीकृत्य । कुन्तलकलापं कचवन्दम् उन्मूल्य उत्पाटय, कथंभूतं कचकलापम् । नतभ्रू इति-नते वक्रे भ्रुवो यासां ताः नतभ्रवः ललनाः तासां विभ्रमाः शृंगारभावजक्रियाविशेषाः त एव भ्रमराः षट्पादाः तेषां कुलं समूहः तस्य निलया गहाणि इव तानि नीलोत्पलानि नीलकमलानि तेषां स्तूपमिव राशिमिव । जातरूपं निर्ग्रन्थतां नग्नताम् आस्थाय प्रतिज्ञाय, कथंभूतं तत् । परमनिष्किचनतारूप परमा लोकोत्तरा निष्किचनता नास्ति किंचन धनधान्यादि परिग्रहोऽस्येति निष्किमनः तस्य भावो निष्किचनता सैव निरूपं निश्चयेन स्वरूपं लक्षणं यस्य तत् । संयमोपकरण मयूरपिच्छिका प्राणिदयाकरम् आकलय्य गृहीत्वा । कथंभूतं तत् । सकलेति-समस्तजीवानाम् अभयदानसुधावृष्टेः अधिकरणम् आश्रयभूतं भाजनम् । उदकपरिचारिकां कमण्डलम् आदृत्य स्वीकृत्य कथंभूतां ताम् । मुक्ति इतिमक्तिलक्षम्याः समानमः संबन्धः तस्य संचारिकामिव दूतीमिव । स्वाध्यायं स्वस्मै आत्मने संवरनिर्जराहेतत्वात हितः उपकारकः अध्यायः अध्ययनम् स्वाध्यायस्तम् । कथंभूतम् । शिवेति-शिवश्रीः मुक्तिलक्ष्मीः तस्याः वशीकरणस्य आयत्तीकरणस्य अध्यायमिव अनुबध्य स्वीकृत्य । इन्द्रियारामम् उपरम्य इन्द्रिया इन्द्रियाणां विषयाः स्पर्शरसादयः त एव आरामः उपवनं तम् उपरम्य विनाश्य । कथंभूतं तम् । मनोमकटेतिमन एव मर्कट: वानरः तस्य क्रीडास्तासां प्रकामा अभिलाषा यत्र तम् । ध्यानदहनम् उद्दीप्य शक्लध्यानाग्नि प्रदीपयित्वा । कथंभूतम् । अन्तरेति-अन्तरात्मा अहं ज्ञानदर्शनलक्षणः, शरीरादयः कर्मसंयोगजास्ते न मम स्वरूपम् इति मत्वा तेषु रागद्वेषाम्याम् अवशः बात्मा अन्तरात्मा स एव हेमाश्म सुवर्णपाषाणः, तस्य समस्तमलानां दहनं दाहकं यथा सुवर्णे किट्टकालिकादिकं मलम् अग्निदहति तथा शुक्लध्यानाग्निः ज्ञानावरणादिकर्माणि तेषां विकारांश्च रागाज्ञानादिमलान् निरस्यति । श्रीनारदो मुनिः शुक्लध्यानेन संजातकेवलः तत्पदाप्तिपेशलो । बभूव तत्पदं परमात्मपदं सिद्धपदं तस्य आप्तिाभस्तेन पेशलो मनोरमो बभूव । [ वसुनपे मते सति प्रजाजनेन निर्घाटितः पर्वत: वनगहने प्रविष्टः कालासुरेण दृष्टः पर्वतस्तु तथा सर्वति-सकलसभासद्धिः समाजेन व उदीरितः उच्चारित: उद्दीर्घः महान् यः दुरपवादः धिक्कारः स एक रजः पांसुः यस्य सः, तस्मिन् वसो कथा शेषतेजसि कयैव शेषं तेजः यस्य तथाभूते सति, पुनः कथंभूते वसो मिथ्येति-मिथ्या असत्यः स चासो साक्षिपक्ष : प्रत्यक्षद्रष्ट्रपक्षः तस्मिन् विचक्षणं चतुरं वक्षः यस्य तस्मिन् । पुनः कथंभूते दुराचारेति-दुराचरणम् असत्यभाषणं तस्य ईक्षणम् अवलोकनं तेन क्षुभितः कुपितः स चासो सहस्राक्ष इन्द्रः तस्य अनुचराः किंकराः यक्षादयः तै: ईक्षितं जीवितस्य महः तेजो यस्य सः तथाभूते वसी कथाशेषतेजसि जाते सति । बहस्वहोणतया होणः लज्जित: अह्रस्वः महान् स चासो ह्रोणः तस्य भावस्तया अतीव लज्जिततयेति भावः, पौरापचिकोर्षया प. पोरेषु नागरिकेषु अपकारकरणेच्छया च, निरन्तरेति-निरन्तराः निविडाः उदञ्चन्तः ऊर्वाग्राः रोमाञ्चाः केशाः तेषां निकायः समूहो यस्य स पर्वतः शललेति-शललस्य श्वाविषः याः शलाकाः छत्रादीनाम् अयःशलाकावत् ताभिः निकीर्णः व्याप्तः कायः देहो, यस्य स इव, निजागणेयदुरीहितामातोदरचर्मपुटः निजानि स्वकीयानि अगणेयानि गणयितु संख्यातुम् अशक्यानि यानि दुरीहितानि दुष्टसंकल्पाः दुरभिप्रायाः तः आध्माती स्फोतो विवृद्धौ उदरचर्मणोः पुटी पार्यो यस्य, स्फुटन्निव स्फोट गच्छन्निव स पर्वतःकालासुरेण दृष्टः । पुनः कथंभूतः जनः नगरोनिष्कासितः। कोदशजनः निष्कासितः त: नृपतिविनाशवशामर्षिभिः नृपतेः वसोः विनाशः तस्य वशात् भामर्षः क्रोषो येषां तैः, पुनः कथंभूतः ।

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664