Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 579
________________ -पृ० २१८ उपासकाध्ययनटीका श्रुतिस्मृत्योरप्रामाण्यं कथमिति चेदाह-यदिति-यत् यस्मात् । तत्र श्रुतिस्मृत्योः, भवभ्रान्तिनिर्मुक्तिहेतुधीः दुर्लभा । भवे संसारे भ्रान्तिः भ्रमणं तस्याः निर्मुक्तिः पृथग्भवनं तस्याः हेतुधीः उपायज्ञानं कारणज्ञानं दुर्लभ नितराम् अप्राप्यम् । संसारमुक्त्युपायज्ञानं श्रुतिस्मृत्योनस्त्येिवातस्ते न प्रमाणे । संसारव्यवहारे तयोः प्रामाण्यमस्तु इति चेन्न, यतः संसारव्यवहारे स्वतः सिद्धे सति तत्र आगमः वृथा। बाह्यशुद्ध्यादयो ये आचाराः ते यावन्तः सम्यक्त्वव्रतानुपघातहेतवस्तावन्तः प्रमाणं तेष्वेव श्रुतिस्मत्योः प्रामाण्यं जैनमन्यते ॥ ४७९ ॥ तथा चसर्व एवेति-यत्र यस्मिन् लौकिके विधौ होमभूतबल्यतिथिसत्कारादौ सम्यक्त्वहानिः सम्यग्दर्शनस्य विनाशो न स्यात् यत्र च व्रतदूषणम् अहिंसादिवतेषु दूषणम् उपघातः न स्यात् । सः सर्व एव लौकिको विधिः जनानां प्रमाणम् । श्रुतिस्मृत्योः प्राणिवधो यज्ञेऽवधत्वेन प्रतिपादितः। तदाचरणम् अहिंसावतोपघाताय भवेत् अतः स लौकिको विधिर्न प्रमाणं सम्यक्त्वव्रतविघातकत्वात् । ये च प्राणिवधयज्ञसमा अन्येऽपि लौकिका विषयः सम्यक्त्वव्रतविघातकृतः सन्ति ते सर्वेऽपि वा एव ॥४८०॥ इत्युपासकाध्ययने स्नानविधिर्नाम चतुस्त्रिंशत्तमः कल्पः ॥ ३४ ॥ ३५. समयसारविधिर्नाम पञ्चत्रिंशत्तमः कल्पः [पृष्ठ २१७-२१८ ] द्वये देवसेवाधिकृताः संकल्पिताप्तपूजापरिग्रहाः कृतप्रतिमापरिग्रहाश्च ।. देवेति दीव्यते स्तूयते इन्दादिभिरिति देवः परमात्मा तस्य सेवा पूजाभिषेकस्तुतिवन्दनाः तासु अधिकृताः अधिकारिणः । द्वये श्रावकाः सन्ति । संकल्पिताप्तेंति–दलफलोत्पलादिषु अयं जिनः इति संकल्पितः आप्तः तस्य पूजापरिग्रहः येषां ते प्रथमे श्रावकाः । कृतप्रतिमापरिग्रहाः अपरे श्रावकाः । इति श्रावकभेदो द्वौ। स संकल्पोऽपि दलं पत्रं फलं पूगीफलादिकम, उत्पलं कमलम्, आदिशब्देन कमलबोजादिकम्, तेषु यथा आप्तसंकल्पः क्रियते तथा समयान्तरं वैदिकसमयादिकं तत्प्रतिमासु हरिहरादिषु न विधेयः । यतः-शुद्ध इति-यथा कन्याजने शुद्धत्वात् इमां कन्याम् अहं तुभ्यं ददामि धर्मे चार्थे च कामे च नातिचर इति संकल्पेन कन्याप्रदानं क्रियते । तत्र च कन्यायां त्वमस्य भार्या भवेति संकल्पः देवाग्निसाक्षिकः क्रियते। स च कन्याजने एव कर्तुम् उचितः पूर्व तादकसंकल्पस्याकृतत्वात् । परपरिग्रहे परकीयभार्यायां संकल्पः कतूं नोचितो यथा, तथा आकारान्तरसंक्रान्ते हरिहरादिप्रतिमारूपे अयं जिन इति संकल्पकरणं नोचितमिति भावः ॥४८१॥ तत्र प्रथमं प्रतिसमयसमाचारं संकल्पिताप्तसमाचारविधिम् अभिधास्यामः कथयिष्यामः । तथाहि-अहंन्नतनुरिति-बहन जिनेश्वरः, अतनुः सिद्धः, मध्ये भूर्जफलकसिचयादीनां मध्यभागे स्थाप्यो । तयोर्दक्षिणतः सव्यभागे गणधर आचार्यः, पश्चात् वामभागे श्रुतगोः उपाध्यायपरमेष्ठो श्रुतं द्वादशाङ्गात्मकं श्रुतज्ञानं गिरि वाण्यां यस्य सः। तदनु तदनन्तरं साधुः परमेष्ठी। पुरोऽपि च दृगवगमवृत्तानि सम्यग्दर्शनज्ञानचारित्राणि स्थाप्यानि । एतेऽहंदादयः भूर्जे भूर्जपत्रे, फलके दारुपट्टके, सिचये वस्त्रे, शिलातले समतलपाषाणे, सैकते सिकताभिनिमिते स्थण्डिले, क्षिती भूमितले, व्योम्नि आकाशे, हृदये चेति समयसमाचारवेदिभिः नित्यं स्थायाः। संकल्पसमाचारस्य ज्ञातृभिः सदा स्थाप्याः ॥४८२-४८३॥ एवं स्थापनाकरणानन्तरं पञ्चपरमेष्ठिनां रत्नत्रयस्य चाष्टप्रकारेण पूजनवर्णनं क्रमशः क्रियते । प्रथमं तावत् अर्हत्परमेष्ठिपूजनं विवियते तद्यथा-रत्नत्रयेति-रत्नत्रयेण पुरस्कारः अग्रतःकरणं पूजनं येषां ते रत्नत्रयपुर ः रत्नत्रयेण पूजनीयाः पञ्चापि परमेष्ठिनः परमे इन्द्रादीनां वन्द्ये पदे तिष्ठन्तीति परमेष्ठिनः । अर्हत्सिद्धाचार्योपाध्यायसाधवः । कथंभूताः भुवनेन्दवः त्रिजगच्चन्द्राः, भव्यरत्नाकरानन्दं भव्याः रत्नाकरा इव समुद्रा इव तेषाम् आनन्दम् आह्लादं कुर्वन्तु जनयन्तु ॥४८४॥ ॐ निखिलेति-निखिलेति, परानपेक्षेति अनेकानि विशेषणानि अर्हत्परमेष्ठिनो विशेष्यस्य, अतः तानि क्रमशो विवियन्ते । रत्नत्रयपुरःसरस्य भगवतोऽहत्परमेष्ठिनः अष्टतयोमिष्टिम् अष्टविधां पूजां जल-गन्धाक्षत-पुष्प-नवेद्य-दोप-धूप-फल: अष्टप्रकारैर्द्रव्यैः पूजां करोमि इति स्वाहा । कथंभूतस्य पूजां करोमि निखिलेति-निखिलाश्च ते भुवनपतयः सकलजगत्स्वामिनः अधोलोकस्य घरणेन्द्रः प्रभुः मध्यलोकस्य नरलोकस्य चक्रवर्ती। ऊर्ध्वलोकस्य सौधर्मेन्द्रादयोऽधिपतयः । तैः विहिता कता ५८

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664