________________
-पृ० २१८
उपासकाध्ययनटीका श्रुतिस्मृत्योरप्रामाण्यं कथमिति चेदाह-यदिति-यत् यस्मात् । तत्र श्रुतिस्मृत्योः, भवभ्रान्तिनिर्मुक्तिहेतुधीः दुर्लभा । भवे संसारे भ्रान्तिः भ्रमणं तस्याः निर्मुक्तिः पृथग्भवनं तस्याः हेतुधीः उपायज्ञानं कारणज्ञानं दुर्लभ नितराम् अप्राप्यम् । संसारमुक्त्युपायज्ञानं श्रुतिस्मृत्योनस्त्येिवातस्ते न प्रमाणे । संसारव्यवहारे तयोः प्रामाण्यमस्तु इति चेन्न, यतः संसारव्यवहारे स्वतः सिद्धे सति तत्र आगमः वृथा। बाह्यशुद्ध्यादयो ये आचाराः ते यावन्तः सम्यक्त्वव्रतानुपघातहेतवस्तावन्तः प्रमाणं तेष्वेव श्रुतिस्मत्योः प्रामाण्यं जैनमन्यते ॥ ४७९ ॥ तथा चसर्व एवेति-यत्र यस्मिन् लौकिके विधौ होमभूतबल्यतिथिसत्कारादौ सम्यक्त्वहानिः सम्यग्दर्शनस्य विनाशो न स्यात् यत्र च व्रतदूषणम् अहिंसादिवतेषु दूषणम् उपघातः न स्यात् । सः सर्व एव लौकिको विधिः जनानां प्रमाणम् । श्रुतिस्मृत्योः प्राणिवधो यज्ञेऽवधत्वेन प्रतिपादितः। तदाचरणम् अहिंसावतोपघाताय भवेत् अतः स लौकिको विधिर्न प्रमाणं सम्यक्त्वव्रतविघातकत्वात् । ये च प्राणिवधयज्ञसमा अन्येऽपि लौकिका विषयः सम्यक्त्वव्रतविघातकृतः सन्ति ते सर्वेऽपि वा एव ॥४८०॥
इत्युपासकाध्ययने स्नानविधिर्नाम चतुस्त्रिंशत्तमः कल्पः ॥ ३४ ॥
३५. समयसारविधिर्नाम पञ्चत्रिंशत्तमः कल्पः [पृष्ठ २१७-२१८ ] द्वये देवसेवाधिकृताः संकल्पिताप्तपूजापरिग्रहाः कृतप्रतिमापरिग्रहाश्च ।. देवेति दीव्यते स्तूयते इन्दादिभिरिति देवः परमात्मा तस्य सेवा पूजाभिषेकस्तुतिवन्दनाः तासु अधिकृताः अधिकारिणः । द्वये श्रावकाः सन्ति । संकल्पिताप्तेंति–दलफलोत्पलादिषु अयं जिनः इति संकल्पितः आप्तः तस्य पूजापरिग्रहः येषां ते प्रथमे श्रावकाः । कृतप्रतिमापरिग्रहाः अपरे श्रावकाः । इति श्रावकभेदो द्वौ। स संकल्पोऽपि दलं पत्रं फलं पूगीफलादिकम, उत्पलं कमलम्, आदिशब्देन कमलबोजादिकम्, तेषु यथा आप्तसंकल्पः क्रियते तथा समयान्तरं वैदिकसमयादिकं तत्प्रतिमासु हरिहरादिषु न विधेयः । यतः-शुद्ध इति-यथा कन्याजने शुद्धत्वात् इमां कन्याम् अहं तुभ्यं ददामि धर्मे चार्थे च कामे च नातिचर इति संकल्पेन कन्याप्रदानं क्रियते । तत्र च कन्यायां त्वमस्य भार्या भवेति संकल्पः देवाग्निसाक्षिकः क्रियते। स च कन्याजने एव कर्तुम् उचितः पूर्व तादकसंकल्पस्याकृतत्वात् । परपरिग्रहे परकीयभार्यायां संकल्पः कतूं नोचितो यथा, तथा आकारान्तरसंक्रान्ते हरिहरादिप्रतिमारूपे अयं जिन इति संकल्पकरणं नोचितमिति भावः ॥४८१॥ तत्र प्रथमं प्रतिसमयसमाचारं संकल्पिताप्तसमाचारविधिम् अभिधास्यामः कथयिष्यामः । तथाहि-अहंन्नतनुरिति-बहन जिनेश्वरः, अतनुः सिद्धः, मध्ये भूर्जफलकसिचयादीनां मध्यभागे स्थाप्यो । तयोर्दक्षिणतः सव्यभागे गणधर आचार्यः, पश्चात् वामभागे श्रुतगोः उपाध्यायपरमेष्ठो श्रुतं द्वादशाङ्गात्मकं श्रुतज्ञानं गिरि वाण्यां यस्य सः। तदनु तदनन्तरं साधुः परमेष्ठी। पुरोऽपि च दृगवगमवृत्तानि सम्यग्दर्शनज्ञानचारित्राणि स्थाप्यानि । एतेऽहंदादयः भूर्जे भूर्जपत्रे, फलके दारुपट्टके, सिचये वस्त्रे, शिलातले समतलपाषाणे, सैकते सिकताभिनिमिते स्थण्डिले, क्षिती भूमितले, व्योम्नि आकाशे, हृदये चेति समयसमाचारवेदिभिः नित्यं स्थायाः। संकल्पसमाचारस्य ज्ञातृभिः सदा स्थाप्याः ॥४८२-४८३॥ एवं स्थापनाकरणानन्तरं पञ्चपरमेष्ठिनां रत्नत्रयस्य चाष्टप्रकारेण पूजनवर्णनं क्रमशः क्रियते । प्रथमं तावत् अर्हत्परमेष्ठिपूजनं विवियते तद्यथा-रत्नत्रयेति-रत्नत्रयेण पुरस्कारः अग्रतःकरणं पूजनं येषां ते रत्नत्रयपुर
ः रत्नत्रयेण पूजनीयाः पञ्चापि परमेष्ठिनः परमे इन्द्रादीनां वन्द्ये पदे तिष्ठन्तीति परमेष्ठिनः । अर्हत्सिद्धाचार्योपाध्यायसाधवः । कथंभूताः भुवनेन्दवः त्रिजगच्चन्द्राः, भव्यरत्नाकरानन्दं भव्याः रत्नाकरा इव समुद्रा इव तेषाम् आनन्दम् आह्लादं कुर्वन्तु जनयन्तु ॥४८४॥ ॐ निखिलेति-निखिलेति, परानपेक्षेति अनेकानि विशेषणानि अर्हत्परमेष्ठिनो विशेष्यस्य, अतः तानि क्रमशो विवियन्ते । रत्नत्रयपुरःसरस्य भगवतोऽहत्परमेष्ठिनः अष्टतयोमिष्टिम् अष्टविधां पूजां जल-गन्धाक्षत-पुष्प-नवेद्य-दोप-धूप-फल: अष्टप्रकारैर्द्रव्यैः पूजां करोमि इति स्वाहा । कथंभूतस्य पूजां करोमि निखिलेति-निखिलाश्च ते भुवनपतयः सकलजगत्स्वामिनः अधोलोकस्य घरणेन्द्रः प्रभुः मध्यलोकस्य नरलोकस्य चक्रवर्ती। ऊर्ध्वलोकस्य सौधर्मेन्द्रादयोऽधिपतयः । तैः विहिता कता
५८