________________
पं० जिनदासविरचिता
[ पृ० २१६
निरतिशया नितराम् अतिशयो माहात्म्यं यासु ताः सपर्या पूजाः तासां परंपराः पञ्चकल्याणपूजा यस्य स तस्येति भावः । परानपेक्षेति - पराणि इन्द्रियाणि, आलोकः ज्ञानाद्यावरणक्षयोपशमश्च पराणि तेषाम् अनपेक्षश्वासौ पर्यायश्च पूर्ण परमात्मावस्था तस्याः प्रवृत्तं जातं सकलवस्तुसमूहवीक्षणाय लोचनमिव नेत्रमिव यत् केवल . ज्ञानं तदेव साम्राज्यं तस्य लाञ्छनरूपाणि अभिज्ञानरूपाणि यानि पञ्चमहाकल्याणानि गर्भ जन्म-दीक्षा केवल - निर्वाणान्तानि । अष्टमहाप्रातिहार्याणि च अशोकतरुपुष्पवृष्टि- दिव्यध्वनि चामर - रत्नासन - भामण्डल - दुन्दुभि - छत्रत्रयाणि जन्मजातदशातिशयाः । देवकृताश्चतुर्दशातिशयाः । केवलज्ञानसंजाता दशातिशयाश्च एतैश्चतुस्त्रिंशदतिशयविराजितस्य एतेऽतिशयास्तीर्थकृतो विमुच्य अन्यत्र चक्रवर्त्यादिष्वपि नोपलभ्यन्ते । पुनः कथंभूतस्य अर्हतः । षोडशार्धेति षोडशस्य अर्धम् अष्टो लक्षणानां सहस्रं लक्षणसहस्रं षोडशार्धेन सहितं लक्षणसहस्रं तेन अङ्कितम् उपलक्षितं दिव्यदेहस्य माहात्म्यं प्रभावो यस्य तस्य । अर्हन्तो हि विषाग्निशस्त्रादिभिरप्रतिहतशरीराः धातुवैषम्यादिविरहितदेहा अत एव तेषां दिव्यदेहत्वम् । द्वादशेति - शिक्षकत्रादिविक्रियद्धिमुन्यादयो द्वादशगणाः तेषां प्रमुखाः श्रेष्ठाः गणधरदेवा महामुनयः तेषां मनः प्रणिधानं चित्तैकाग्र्यं तेन संनिधीयमानम् आरोप्यमाणं परमेश्वर इति परमसर्वज्ञ इति नाम्नां सहस्रं यस्य । पुनः कथंभूतस्य - विरहितेति - अरिर्मोहनीयं कर्म । रजसी ज्ञानदर्शनावरणे । रहः अन्तरायं कर्म । एभ्यो जाता ये मोहाज्ञानादयः कुहकभावा: मिथ्याभावाः ते विरहिताः नष्टाः अरिरजोरहः कुह्कभात्रा यस्य तस्य । पुनः कथंभूतस्य समवसरणेति -- समवसरणं केवलज्ञानिजिनवैभवम् उद्योतयन्ती इन्द्रनिर्मिता रत्नसभा समवसरणम्, तदेव सरः तत्र अवतीर्णम् उद्भूतम् आगतं जगत्त्रयमेव पुण्डरीकखण्डः कमलवृन्दं तस्य ( विकासने ) मार्तण्डमण्डलस्येव सूर्यस्येव । पुनः कथंभूतस्य दुष्पारेति — दुष्प्राप्यं पारं परतीरं यस्य स आजवंजवीभावः संसारभात्रः स एव जलनिधिः तत्र निमज्जन्तो डन्तो ये जन्तवः तेषां जातं समूहः तस्य हस्तावलम्ब इव परमागमः यस्य तस्य । पुनः कथंभूतस्ये भक्तिभरेति - भक्तेर्गुणानुरागस्य भरो भारः तेन विनता नम्राः विष्टपत्रयीं पालयन्तीति विष्टपत्रयोपालाः ये इन्द्रधरणेन्द्रचक्रवर्तिनः तेषां मौलयः किरीटानि तेषां मणयः रत्नानि तेषां प्रभा कान्तिः तस्या आभोगो विस्तारः स एव नमः तत्र विजृम्भमाणाः चरणयोः पादयोः नखाः एव नक्षत्राणि तेषां निकुरुम्बं समूहो यस्य । पुनः कथंभूतस्य सरस्वतीति — सरस्वत्याः शारदायाः सकाशात् वरस्य वाञ्छितफलस्य प्रसादः दानानुग्रहः तत्करणे चिन्तामणेः चिन्तारत्नस्येव । पुनः कथंभूतस्य । लक्ष्मीति - लक्ष्मीरेव श्रीरेव लता तस्या निकेतो गृहम् आश्रयरूपस्तस्य कल्पवृक्षस्येव, पुनः कथंभूतस्य । कीर्तीति — कीर्तिरेव पोतिका अल्वा पोता पोतिका वत्सिका तस्याः प्रवर्धने कामधेनोरिव । अवीचीति — अवीचिर्न रक विशेषः तस्य परिचयः संगतिः तस्य खलीकारकरणम् अपकारकरणं विनाशकरणं तस्मिन् अभिधानमात्रमन्त्रस्य णमो अरिहन्ताणं इति मन्त्रस्य प्रभावो यस्येति । सौभाग्येतिसौभाग्यस्य शुभभाग्यवत्ताया: सौरभस्य सुगन्धस्य संपादने लाभे पारिजातपुष्पगुच्छसदृशस्य । पुनः कथंभूतस्य । सौरूप्येति - सौरूप्यस्य सातिशयं सौन्दर्यं तस्य उत्पत्तिः येषु ते च ते मणयश्च तेषां या मकरिका तस्या घटने रचनायां विकटाकारस्य विस्तृताकृतियुतस्य रत्नत्रयेण अग्रणित्वं प्राप्तस्य भगवतोऽर्हतो जिनस्य परमेष्ठिनः अष्टतयीम् अष्टविधाम् इष्टि पूजां करोमीति स्वाहा ॥ २५ ॥ अपि च- नरोरगेति – नराः मनुष्याः, उरगा नागासुराः सुराः अमराः एते एव अम्भोजानि कमलानि तेषां विकासने विरोचनस्य सूर्यस्य रुचेः इव श्रीः यस्य तम्, जिनाधीशम् अर्चनगोचरं पूजनविषयं करोमि । किमर्थम् आरोग्याय जातिजरामरणरोगाभावाय ।।४८५ ।।
४५८
[ पृष्ठ २१९ ] अधुना सिद्धपरमेष्ठिनः पूजनं क्रियते — ॐ सहचरेति - आत्मना सह चरतीति सहचरम् आत्मना सहैव विद्यमानम् । समीचीनं निर्दोषं सत्यं परमार्थभूतम् । चार्वीत्रयं सुन्दरत्रयं यत् आत्मना सहैव जातम्, यत्सत्यं यत् सुन्दरं च एतादृशं सम्यग्दर्शनम्, सम्यग्ज्ञानम् सम्यक्चारित्रं च चार्वीत्रयं तस्य विचारः मनसा चिन्तनं तस्य गोचरो विषयः यद् उचितं हिताहितं तस्य प्रविभागो यस्य । अत एव परनिरपेक्षतया स्वयंभुवः स्वयं परोपदेशानपेक्षतया भवति रत्नत्रयरूपेण परिणतो भवतीति स्वयंभूः तस्मात् सलिलात् मुक्ताफलमिव मौक्तिकं यथा । उपलादिव च पाषाणाद्यथा काञ्चनम् । अस्मादेवात्मनः पूर्वं संसारिणः कारणविशेषोपसर्पणात् सर्वसंगत्यागाजस्रश्रुतभावनेन्द्रियमनः संयमनशुद्धात्मध्यानविशेषात् आविर्भूतम् उत्पन्नम्,