________________
-पृ० २२० ] उपासकाध्ययनटीका
४५६ परमात्मानम् उपेयुषः प्राप्तवतः सिद्धपरमेष्ठिनः इष्टिं करोमीति संबन्धः । कथंभूतं परमात्मानम् । अखिलेति-सकलमलानाम् आत्मगुणानां ज्ञानदर्शनादिकानाम् आच्छादकतया विरूपपरिणतिकारकत्वाद्वा ज्ञानावरणाद्यष्टकर्माणि मलत्वेन व्यवह्रियन्ते । तेषां विलयात निरवशेषक्षयात् लब्धात्मस्वभावं प्राप्तनिजशुद्धज्ञानादिगुणम् । असहायं क्षयोपशेमाद्यनपेक्षम् । अक्रमम् इन्द्रियाद्यनुत्पन्नत्वात् क्रमरहितम् । युगपत्सकलवस्तुगोचरम्, अवधीरितेति-अवधीरितं तिरस्कृतम् अन्यसंनिधिव्यवधानं येन, तिरस्कृतं पञ्चेन्द्रियविषयसांनिध्यस्य व्यवधानं येन । पञ्चेन्द्रियविषयेभ्योऽनुत्पन्नम् । साक्षादात्मन एव जायमानत्वात् व्यवधानरहितम् । अनवधिम् अवधिरन्तः ततोऽपसृतत्वात् अनवधिम्, निःसीमानम् अयत्नसाध्यम, केवलं यत्नेन न साध्यम् । अवसितातिशयसोमानम् समाप्ततरतमादिमर्यादम् । आत्मस्वरूपकनिबन्धनम् आत्मस्वरूपमेव एक केवलं निबन्धनं कारणं यस्य । अन्यवस्तुनः सकाशादनुपजायमानमित्यर्थः । अन्तःप्रकाशं सूर्यप्रकाशवद्वहिरनुपलभ्यमानम् अन्तरेव विद्यमानमपि सकलजगदवलोकमानम्, चैतन्यमधिष्ठितम्, अनन्तदर्शनगुणस्य वैशयेन निर्मलत्वेन साक्षादवलोकितसकलपदार्थस्वरूपसर्वस्वम् दृष्टसकलद्रव्यपर्यायलक्षणम् । अनवसानसुखस्रोतसम्-अवसानमन्तः न अवसानम् अन्तो यस्य तत् सुखं तस्य स्रोत: प्रवाहधारा तेन युक्तम् । अपर्यन्तवीर्यम् अनन्तशक्तिकम्, अचाक्षुष-सूक्ष्मावभासम् चक्षुामनुपलभ्यमानम् अतः सूक्ष्मतया अवभासयुक्तम्, असदशाभिनिवेशावगाहम, असदशम्, अनुपमम् अभि सर्वतः निवेशः प्रवेशः यत्र तथाभूतोऽवगाहगुणो यस्य । चरमदेहतः किंचिदूनः आत्मप्रदेशानाम् अवगाहः प्रवेशो यस्य तथाभूतम् । अगुरुलघुव्यपदेशम्, न गुरु भारयुक्तः न लघुश्च तादृग्गुणविशिष्टम् । अपगतेति-अपगता नष्टा बाधा पीडा यथा स्यात्तथा, परेषां सिद्धानाम् अनन्तानाम् आकाराणां संक्रमः प्रवेशो यत्र तथाभूतम् । अतिविशुद्धस्वभावतया अत्यन्तनिर्मलप्रकृतितया, निवृत्ताशेषशारीरद्वारतया च विनष्टसकलदैहिकद्वारतया च ईषन्मुक्तपूर्वदशान्तरम् । रूप-रस-गन्ध-शब्द-स्पर्शरहितम् । अशेषभुवम् सकलस्वप्रदेशान् व्याप्नुवन्तम् । आशिरः शेखरायमाणपदविश्वंभरम् आमस्तकं मकुटायमानपदं स्थानं यत्र तथाभूतं विश्वं जगत । बिभर्तीति तथाभूतम् । उपशान्तेति-उपशान्तः नष्टः सकलसंसारदोष यत्र तं परमात्मानम् । सकलकर्मविलयादत्यन्तशुद्धात्मानम् उपेयुषः प्राप्तवतः । गुरुणापि तीर्थकरपरमदेवेनापि नमः सिद्धेभ्य इति वचनात् प्रतिपन्नगुरुभावस्य स्वीकृतगुरुत्वस्य रत्नत्रयपुरःसरस्य भगवतः सिद्धपरमेष्ठिनः अष्टतयोम् इष्टि करोमि इति स्वाहा । अपि च प्रत्नेति-प्रत्नानि पुरातनानि यानि कर्माणि पूर्वानेकजन्मबद्धानि तैः विनिर्मुक्तान् रहितान्, नूत्नेति नूत्नानि नवानि अस्मिन्भवे बद्धानि यानि कर्माणि तः विवर्जितान् रहितान्, रत्नत्रयेण महोयसः श्रेष्ठान पूर्णरत्नत्रयळाभात् अर्हतोऽपि श्रेष्ठावस्थां बिभ्राणान् सिद्धान् मुक्तान् यत्नतः प्रमादं मुक्त्वा भक्तिभारेण संस्तुवे ऐहिकफलानभिलाषया स्व-स्वरूपप्राप्तिहेतोः स्तवीमि ॥४८६॥
[पृष्ठ २२० ] अधुनाचार्यपरमेष्ठिनः पूजां करोमि-ॐ पूज्यतमस्य उपाध्यायसाधुपरमेष्ठिनोऽपेक्षया, उदितोदितेति-उदितोदिताः प्रकर्षेण अभ्युदयं प्राप्ता या कुलशोलगुरुपरंपरा प्रकर्षेण अभ्युदिते कुलशीले यस्याः तथाभूता या गुरुपरंपरा गुरुपर्वक्रमः तस्याः उपात्तः गृहीतः जातः समस्तस्य सकलस्य ऐतिहरहस्यस्य आगमगूढतत्वस्य सारो येन तस्य । पुनः कथंभूतस्य । अध्ययनेति-अध्ययनं स्वयं शास्त्रा. भ्यासकरणम् । अध्यापनं शास्त्रपाठनम् विनियोगः अनेन छात्रेणेदं कर्तव्यमनेनेदमित्याज्ञाकरणम | विनयेन नियमानां पालनं व्रतानां तपसां वा पालनम् । उपनयनादिक्रियाकाण्डे च तेषु निष्णातचित्तस्यात्यन्तप्रगल्भमतेः। पुनः कथंभूतस्य । चातुर्वण्र्येति-चतुःप्रकारमुनिसमूहः चातुर्वर्ण्यसंघः ऋषिमुनियत्यनगारलक्षणः । ऋष्यायिका श्रावकश्राविकासमूहो वा तस्य प्रवर्धना तस्य माहात्म्यवर्धनं तस्य धुरम् अग्रं धरति वहतीति तस्य । पुनः कथंभूतस्य । द्विविधात्मेति-द्विविधः द्विप्रकारः स चासो आत्मधर्मश्च व्यवहारात्मधर्मः, निश्चयात्मधर्मश्च अथवा द्विविधा आत्मानः मुनयः श्रावकाश्च तयोर्धर्मावबोधने, विधूतेति-विधूतस्त्यक्तः ऐहिकफलापेक्षासंबन्धो येन तस्य । पुनः कथंभूतस्य । सकलवर्णेति-सकलाश्च ते वर्णाश्च ब्राह्मणादयः शूद्रान्ताश्च. तुर्वर्णाः पाश्रमाश्च आ शास्त्रोक्तकालात् श्राम्यन्ति यथास्वं तपस्यन्ति इत्याश्रमाः ब्रह्मचारी गृहस्थः वानप्रस्थः भिक्षकश्चेति । समयाः चत्वारः जैनमिनिशाक्यशांकरागमाः, एषां समाचाराः आचाराः विचाराः सम्य