________________
४६०
पं० जिनदासविरचिता
[पृ०२२०
रज्ञानानि तेषाम् उचितानि तदनुकूलानि यानि वचनानि तेषां प्रपञ्चा एव मरीचयः किरणा: तैः विदलितं निरस्तं सकलजनताकमलिन्या: मिथ्यात्वमोहान्धकारपटलं येन तथाभूतस्य । पुनः कथं भतस्य । ज्ञानेतिज्ञानस्य तपसश्च प्रभावेण प्रकाशितं जिनशासनं येन तस्य पुनः कथंभूतस्य । शिष्यसंपदा शिष्याणां विभवेन अशेषमिव सकलमिव भुवनं जगत् उद्धर्तुम् उद्यतस्य संनद्धस्य, भगवतो रत्नत्रयपुरःसरस्य आचार्यपरमेष्ठिन: अष्टतयीम् इष्टिं करोमोति स्वाहा । अपि च-विचार्यति-सर्वम् ऐतिह्यम् आगमं विचार्य मनसि चिन्तयित्वा आचार्यकम् आचार्यपदम् उपेयुषः प्राप्तवत: आचार्यत्रर्यान् हृदयाम्बुजे संचार्य अर्चामि पूजये ॥४८७॥
[पृष्ठ २२०-२२४ ] अथोपाध्यायपूजां वर्णयति-ॐ श्रीमदिति-श्रीमतः समवसरणानन्तचतुष्टयेत्युभयलक्ष्मीमत: भगवतः अर्हतः । वदनारविन्दात् मुखकमलात् । विनिर्गतद्वादशाङ्गानि आचाराङ्गादीनि. उत्पादादिचतुर्दशपूर्वाणि, सामायिकादिचतुर्दशप्रकीर्णकानि, एभिः विस्तीणों यः श्रुतपारावारः श्रुतज्ञानसमुद्रः तस्य पारंगमस्य । पुनः कथंभूतस्य । अपारेति-अपारश्चासौ संपरायः संसारः स एव अरण्यं तस्मात् विनिर्गम: बहिनिर्गमनं तदर्थं यः अनुपसर्गः बाधारहितः मार्गः तस्मिन् निरतास्तत्पराः ये विनेयजनाः शिष्यजनाः तेषां शरण्यस्य शरणे साधोः। पनः कथंभूतस्य । दुरन्तैकान्तेति-दुरन्तः दृष्फलः स चासो एकान्तवादः सर्वथा नित्यादिधर्माभिनिवेशः सा एवं मदमषी मदकृष्णजलं तेन मलिना ये परवादिकारणः परवादिगजाः तेषां कण्ठीरवोत्कण्ठेति-कण्ठयां रवो गर्जना यस्य सः कण्ठीरवः सिंहः तस्य उत्कण्ठः उत ऊर्ध्वं कण्ठात् निर्गतः स चासो कण्ठीरवः गर्जना तद्वत् भासमानाः याः प्रमाणनय-निक्षेपानुयोगानां वाचः तासां व्यतिकरः समूहो यस्य तथाभूतस्य । श्रवणेति-श्रवणम् आकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । अबगाहनं ज्ञानेन विषयस्य आलोडनम् । अवधारणा अविस्मरणम्, प्रयोग: विज्ञातमर्थम् अवलम्ब्य अन्यस्मिन्नर्थे व्याप्त्या तथाविधत्वसाधनं प्रयोगः । वाग्मित्वं प्रशस्ता वागस्यास्तीति वाग्मी तस्य भावः प्रशस्तवचनवक्तृत्वम् । कवित्वं-सरसतया विषयवर्णनशक्तिः। गमकशक्तिः गमयति बोधयति विषयान् लक्षणैर्यः स गमकः तस्य शक्तिः ताभिः विस्मापिता: आश्चर्य प्रापिता: विततनरनिलिम्पाम्बरचरचक्रवतिनः वितताः प्रसताः ये नराः निलिम्पा देवाः । अम्बरचराः आकाशगामिनः विद्याधराः। तेषां चक्रवर्तिनः स्वामिनः नपादयः तेषां सीमन्ताः केशवानि तेभ्यः प्रतिपर्यस्ताः गलिताः या उत्तंसस्रजः शिरोमालाः शेखराणीत्यर्थः तासां सौरभ सौगन्ध्यं तेन अधिवासितः संस्कारितः पादपीठस्य उपकण्ठः समोपप्रदेशः यस्य । पुनः कथं भूतस्य तस्य । व्रतेति-व्रतानाम् अहिंसादीनां महाव्रतानां विधानं समाचरणं तस्मिन् अनवद्यं हृदयं मनो यस्य तस्य भगवतः रत्नत्रयपुरस्सरस्य उपाध्यायपरमेष्ठिनोऽष्टतयोमिष्टि करोमीति स्वाहा । अपि च-अपास्तेति-अपास्ताः प्रतिविहिताः एकान्तवादिनाम् इन्द्राः प्रभवः यः तान् पराजितकान्तविबुधपतीन् । अपारागमपारगान् अपारइचासो आगमः तस्य पारं परतीरं गच्छन्तीति तान् उपाध्यायपरमेष्ठिनः श्रुतज्ञानलाभाय उपायभूताय अहं उपासे भजे ॥४८८॥ अधुना साधुपरमेष्ठिपूजनम् । ॐ विदितेति-विदितं ज्ञातं वेदितव्यं जीवादितत्त्वसप्तकं येन स तस्य । पुनः कथंभूतस्य । बाह्येति-बाह्यम् अनशनादिकमाचरणम्, अभ्यन्तरं च प्रायश्चित्तादिकम् इति बाह्याभ्यन्तराचरणे । करणत्रयं मनोवचःकायानां त्रयं करणत्रयम् अथवा अधःकरणम् अपूर्वकरणम् अनिबत्तिकरणं च परिणामविशेषाणां संज्ञाश्चेमाः, एभिः परिणामः जीवः सम्यग्दर्शनम्, अणुव्रतानि, महावतानि च लभते । एतत्त्रयविशुद्धिरेव त्रिपथगापगाप्रवाहः गङ्गानदीप्रवाहः । तेन निर्मलितः विनाशित: मनोजकुज. कुटुम्बाडम्बरो येन मनोजः मदनः स एव कुजः वृक्षः कुः पृथ्वी तस्या जायत इति कुजः तस्य कुटुम्बं रागद्वेष-मद-मात्सर्यादयः तस्य आडम्बरो दर्पः स निर्मूलितो येन तस्य तथाभूतस्य । पुनः कथंभूतस्य । अमराम्बरचरेति-अमरा देवाः, अम्बरचराः नभोगामिनः विद्याधराः तेषां नितम्बिन्यः रमण्यः तासां कदम्बः समूहः स एव नदः तस्मात् प्रादुर्भूतः मदनमद एव मकरन्दः मरन्दरसः तस्य दुर्दिनविनोदः एव अरविन्दं तस्य चन्द्रायमाणस्य मुकुलीकरणे चन्द्रवत् आचरणं कुर्वतः। पुनः कथंभूतस्य । उदितोदितेति-उत्तरोत्तरं प्रकर्ष प्राप्तानि यानि व्रतानि तेषां व्रात: समूहः तेन अपहसितः तिरस्कृतः अवाच्यकामनया निन्द्याभिलाषया पुत्रीसमागमाभिवाञ्छया चारित्रच्यतइचासो विरिञ्चः ब्रह्मा तपःप्रारम्भैः विरोचनश्चन्द्रः वैखानसा विश्वामित्रादि