________________
४६१
-पृ० २२४]
उपासकाध्ययनटीका यतयः तेषां रसोऽनुरागो येन सः तस्य । पुनः कथंभूतस्य । वनदेवताभिः विलुप्यमानचरणपरागस्य, कथंभूतैः तपःप्रारम्भः । अनेकश इति-अनेकशः बहुवारं त्रैलोक्यक्षोभकारिभिः, ध्यानधैयति--ध्यानेन आत्मस्वरूपचिन्तनेन, धैर्येण मनसोऽक्षोभेण च अवधूता विनाशिताः विष्वक् सर्वत: प्रत्यूहव्यूहाः विघ्नसमूहा यः पुनः कथंभूतः। अनन्येति--अन्यजनासंभविभिः, मनोविषयातिक्रामिभिः, आश्चर्यप्रभावास्पदैः, अनवधारितम् अनुद्दिष्टं विधानं भोजनं येषु तैः, तैः तः मूलोत्तरगुणेषु ग्रामणीभिः पुरोगमैः तपःप्रारम्भैः । पुनः कथंभूतस्य । सकलेति--सकलं च तत् ऐहिकसु खसाम्राज्यं च तस्य वरप्रदाने अवहिताः दत्तावधानाः आयाताः आगताः तथापि अवधीरिताः अवज्ञाताः तत्कारणात् विस्मिताः उपनता: नम्रीभूताः या वनदेवताः तासाम् अलकाः केशा एव अलयो भृङ्गाः तेषां कुलेन समूहेन विलुप्यमानः ह्रियमाणः चरणकमलयोः परागो यस्य तस्य । पुनः कथंभूतस्य । निर्वाणपथनिष्ठितात्मनः मक्तिमार्गे निष्ठित: निश्चयेन स्थितः आत्मा यस्य तथाभूतस्य रत्नत्रयपुरःसरस्य भगवतः सर्वसाधुपरमेष्ठिनः अष्टतयोमिष्टि करोमि इति स्वाहा । अपि चबोधेति-बोध एव आपगा नदी तस्याः प्रवाहेण, विध्यातो विध्वस्तः अनङ्गवह्निः यस्ते । विध्ये ति-- विधिना आगमकथितप्रकारेण पूजनेन आराध्याः पूज्याः अज्रयश्चरणा येषां ते साधवः साध्यबोधाय साधयितुं योग्यं साध्यं मुक्तिपदं रत्नत्रयं साध्यो बोध्यः आत्मा यस्य तत् साध्यबोध्यं केवलज्ञानं तस्मै वा तस्य बोधाय ज्ञानाय भवन्तु ॥ ४८९ ॥ अधना सम्यग्दर्शनरत्नस्य पजा। ॐजिनेति--जिनः दुर्जयकर्मठकर्मारातीन् जयतीति जिनः, अर्हन, जिनागमः जिनेन अर्हता प्रोक्तः आगमः द्वादशाङ्गानि आचारादीनि, जिनधर्मः तेन जिनेन प्रणीतो धर्मः क्षमादिलक्षणो दशविधः, जिनोक्तजीवादितत्त्वावधारणं च एभिः विजम्भितः प्रवृद्धः निरतिशयः निश्चयेन अतिशयो वैशिष्टयं यस्मिन् तथाभूतोऽभिनिवेशः परमार्थानाम् आप्तागमतपोभूतां दृढश्रद्धानं तदेव अधिष्ठानम् आधारः यासु तथाभूतासु चेतःप्रासादपरंपरासु । पुनः कथंभूतासु । प्रकाशितेति-प्रादुर्भूता या शङ्का जिनः अनेकान्तात्मकं सर्व प्रतिपादितं तद्यथार्थम् उत अन्यन्नित्यम् अनित्यं वा सर्वम् इति परमार्थम् एवंरूपा धीः शङ्का। सम्यग्दर्शनमाहात्म्यात् तपोमाहात्म्याच्च मम देवपदं नृपतिपदं वा लभताम् इति स्पृहा आकांक्षा प्राकाम्यमुच्यते । अवह्लादनम्-विचिकित्सा स्नानादिरहितस्य मुनेः शरीरं वीक्ष्य जुगुप्साकरणम् । कुमतातिः कुधर्मे तदाचरणवति पुरुषे प्रशंसादिकरणं मूढत्वम् । एते खलु विकाराः शल्यरूपाः तेषाम् उद्धारः अपनयनं यासु तासु चेत्तःप्रासादपरंपरासु । पुनः कथंभूतासु । प्रशमेति-प्रशमादिचतुष्टयस्य लक्षणानि प्रागुक्तानि एते प्रशमादय एव सुकृतिचेतःप्रासादपरंपरायाः स्तम्भाः तैरियं प्रासादपरंपरा संधृता भवति । पुनः कथंभूतासु । स्थितिकरणेति-धर्माद् भ्रश्यतो धर्मे स्थापन स्थितीकरणम । उपगहनम-धार्मिकजनदोषझम्पनम । वात्सल्यम-निर्मायेन मनसा धार्मिकजनस्य यथा योग्यम् आदरकरणम् । प्रभावना-दानतपोजिनपूजाविद्याविनयजिनधर्ममाहात्म्यसंवर्धनम् । स्थितिकरणोपगूहनवात्सल्यप्रभावनाभिः आचरिताः उत्सवसपर्याः महपूजाः यासु तासु । पुनः कथंभूतासु-अनेकेतिअनेके ये त्रिदशविशेषाः देवविशेषाः इन्द्रसामानिकादयः तेषां निर्मापिताः भूमिकाः यासु ताः । तथाभूतासु सुकृतिचेतःप्रासादपरंपरासु सुकृतीनां पुण्यवतां मनःसोधपंक्तिषु, कृतक्रोडाविहारमपि कृतः क्रोडायै विहारो येन तथाभूतमपि यत् सम्यग्दर्शनं निसर्गात् स्वभावतः महामुनीनां मन एव पयोधिः समुद्रः तेन सह परिचितं परिचयविशिष्टं भवति । अशेषेति-अशेषाः सकलाः ये भरतैरावतविदेहाः त्रीणि क्षेत्राणि वर्षधराश्च हिमबदादयः तेषां चक्रवर्ती स्वामी मेरुपर्वतः तस्य चूडामणिस्वरूपः तत्कालजन्मा तीर्थकरः तस्य कुलदैवतमेतत्सम्यग्दर्शनम् । अमरेति-अमरेश्वरा इन्द्राः तेषां या मतिर्ज्ञानं सा एव देवता तस्याः अवतंसः कर्णभूषणरूपम् एतत्सद्दर्शनं कल्पवल्लीपल्लवम् इव। अम्बरेति-अम्बरचरा विद्याधराः ते च ते लोका जनाः तेषां सम्यग्दर्शनमेतत् हृदयस्य एकम् अद्वितीयं मण्डनम् । अपवर्गेति-अपवर्गपुरं मुक्तिनगरं तत्र प्रवेशं कृत्वा यत् अगण्यपण्यस्य आत्मसात्करणं स्वीकरणं तदर्थ दीयमानं तस्य सत्यंकारमिवंतत्सम्यग्दर्शनम् । अवश्य मयततव्यम् इति सत्याकरणसदृशम् । अनुल्लध्येति-उल्लङ्घयितुम् अशक्यम् अवश्यभोग्यमिति भावः, एतादृग यत् दुरघं दुष्टम् अघं पापं तदेव घनघटा मेघसमूहः तस्य दुर्दिनानीव ये प्राणिनस्तेषु, ज्योतिरिति