________________
४६२
पं० जिनदासविरचिता
[पृ० २२५
ज्योतिर्लोकादीनां ज्योतिषव्यन्तरभवनवास्यादीनां या गतयः अवस्थाः ता एव गर्ताः श्वभ्राणि रन्ध्राणि तेषु पाते पतने यत तमस्काण्डं मिथ्यात्वतिमिरं तस्य भेदनमेतत्सम्यग्दर्शनम् । आमनन्ति मनीषिणः मनीषा बद्धिरस्ति येषां ते मनीषिणः धीमन्त इति भावः । तस्य संसारपादपोच्छेदे संसारवक्षभेदने आद्यकारणस्य सकलमंगलविधायिनः पञ्चपरमेष्ठिनाम् अग्रणीरूपस्य भगवतः पूज्यस्य सम्यग्दर्शनरत्नस्य अष्टतयोमिष्टिं करोमीति स्वाहा । अपि चमुक्तीति-लक्ष्मीलतेव तस्याः सम्यग्दर्शनमेतत् मूलमिव वर्तते । युक्तिश्रीवल्लरीवनम् प्रमाणनयात्मिका युक्तिश्री: तस्या वल्लरीणां लतानां वनमिवेदम् । भुक्तोति-भोगानां स्रक्कामिन्यादीनां दाने समर्थो यश्चिन्तामणिः तं प्रददाति सम्यग्दर्शनमिदम् । एनत् सम्यक्त्वम् अहं भक्तितोऽर्हामि पूजयामि ॥४९०।। अथ सम्यग्ज्ञानपूजाॐ यन्निखिलेति--यत् सम्यग्ज्ञानं सकलजगतः तृतीयं नेत्रम् । यत् स्वहिताहितविमर्शाज्जातो यो याथात्म्यावबोधः यथार्थपरिचयः तेन संप्राप्तसत्यस्वरूपम्। अधिगमेति--गुरूपदेशाज्जातं सम्यक्त्वरत्नमधिगममुच्यते तस्योत्पत्तिस्थानमैतत । अखिलास्वपि दशासु निगोदावस्थामारभ्य मुक्त्यवस्थापर्यन्तं सर्वास्वपि दशासु, क्षेत्रज्ञ आत्मा तस्य स्वभावाः सुखाद्यनन्तगुणाः त एव साम्राज्यं तस्यैतत् सम्यग्ज्ञानं परमम् अभिज्ञानलक्षणम् । अपि च यस्मिन्सम्यग्ज्ञाने इदानीमपि अस्मिन्कलिकालेऽपि नदीष्णातचेतोभिः कुशलमनोभिः सम्यगिति-- समीचीनतया उपाहितः प्रणिधानयतः स चासो उपयोग: अर्थग्रहणव्यापारः तेन संमार्जनं निर्मलीकरणं यस्मिन् तथाभूते द्युमणिमणिदर्पण इव द्युमणिः सूर्यः स चासो मणिः सूर्यकान्तरत्नं तस्य दर्पणे आदर्श साक्षाद्भवन्ति प्रत्यक्षतां प्रतिपद्यन्ते ते ते भावैकसंप्रत्यया भावोऽभिप्रायः एव एकः मुख्यः संप्रत्ययः परिज्ञानकारणं येषाम् स्वभावक्षेत्रसमयविप्रकर्षिणोऽपि भावाः स्वभावविप्रकर्षिणः परमाण्वादयः । क्षेत्रविप्रकर्षिणः देशान्तरिता इति ते च मेर्वादयः । • समयविप्रकर्षिणः कालान्तरिताः रामरावणादयः भावाः पदार्थाः। तस्य सम्यग्ज्ञानस्य, कथंभूतस्य पञ्चतयोमवस्थाम् अवगाहमानस्य, तस्य तादृशीम् अवस्थां विवृणोति-आत्मलाभेति-तस्य सम्यग्ज्ञानस्य आत्मलाभ-निबन्धस्य स्वोत्पत्तिविषयस्य उभयहेतुविहितविचित्रपरिणतिभिः बाह्याभ्यन्तरकारणाभ्यां कृतनानापरिणतिभिः कृतनानादशः मतिश्रुतावधिमनःपर्ययकेवल: पञ्चतयों पञ्चविधाम् अवस्थां दशामवस्याम् अवगाहमानस्याप्रविशतः सकलमंगलानां विधातुः पञ्चपरमेष्ठि-पुरःसरस्य भगवतः सम्यग्ज्ञानरत्नस्याष्टतयोमिष्टि करोमि स्वाहा ॥३२॥ अपि च-नेत्रमिति--हिताहितयोः सुखदुःखयोः तत्कारणयोश्च आलोके दर्शने सम्यग्ज्ञानं नेत्रं लोचनम् अस्ति। तथा तत् धीसोधसाधने धी: बुद्धि : सा एव सौधः प्रासादः तस्य साधने रचनायां सूत्रम् यथा सूत्रेण शिल्पी प्रासादादिकं सप्रमाणं निर्मिनोति तथा सम्यग्ज्ञानेन बुद्धिसौधनिर्माणं सप्रमाणं भवति । लक्ष्म्याः समागमे क्षेत्रम् एतत्सम्यग्ज्ञानं पूजाविधेः पात्रं कुर्वे ॥४९१॥ अधुना सम्यक्चारित्रं पूज्यते । ॐ यत्सकलेति-यञ्चारित्ररत्नं सर्वलोकालोकदर्शनप्रतिबन्धकस्य अन्धकारस्य मोहस्य विध्वंसकमस्ति । अनवद्येति-अनवद्या निर्दोषा चासो विद्या सैव मन्दाकिनी गङ्गानदी तस्या धरमिव हिमाचलमिव । अशेषसत्त्वोत्सवेति-सकलप्राण्युत्सवप्रमोदचन्द्रोदयम्, अखिलेति--सकलव्रतगुप्तिसमितिगण एव लताः वल्लयः तासां य आरामः उद्यानं तस्य विकसने पुष्पाकरसमयं वसन्तकालः । अनल्पेति-- अनल्पफलानि स्वर्गादिसौख्यानि, तेषां प्रदाने कल्पवृक्षोत्पत्ति भूमिम् । अस्मयेति-न स्मयो गर्वो यस्मिन् स चासो उपशमः चारित्रमोहस्य अनुदयः, क्षयोपशमश्च, सौमनस्यं मनसः कापटयरहिता वृत्तिः, धैर्यं च एवे गुणाः प्रधाना येषां तैः अनुष्ठीयमानम् आचर्यमाणम् चारित्रं सद्धीमन्तः सती चासो धीर्बुद्धिः सा अस्ति येषां ते सद्धीमन्तः समीचीनबुद्धयः गणधरादयः परमपदप्राप्तः परमं सर्वोत्कृष्टं पदं स्थानं मुक्तिमन्दिरं तस्य प्राप्तेः लाभस्य प्रथम सोपानमिव उपानम् उपरिगमनं तेन सह विद्यमानम् आरोहणम् इव । तस्य पञ्चतयात्मनः सामायिकच्छेदोपस्यापन-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातेति पञ्चप्रकारस्य सकलमंगलविधायिनः पञ्चपरमेष्ठिपुरःसरस्य भगवतः सम्यक्चारित्ररत्नस्य अष्टतयोमिष्टिं करोमीति स्वाहा ।
[पृष्ठ २२५ ] अपि च-धर्मति-धर्मः उत्तमक्षमादिदशलक्षणाख्यस्तस्य योगी तदाचरणं कुर्वाणः साधुः एव नरेन्द्रः राजा तस्य । कमंति-कर्मण्येव वैरिणः शत्रवः तेषां जयार्जनं जयप्राप्ती तत्पराङ्मखीकरणसाधनम् । सर्वसत्त्वानां सर्वजीवानां शर्मकृत् सौख्यकारकम् वृत्तं चारित्रं धर्मधी: धर्मे धौर्बुद्धिर्यस्य सोऽहं वृत्त