Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 588
________________ ४६६ पं० जिनदासविरचिता [ पृ० २३०पुराणि नगराणि तेषां पालाः रक्षकाः असुरेन्द्रादयः तेषां मौलयः किरीटानि तेषु विलसन्ति यानि रत्नानि तानि एव प्रदीपास्तैः अर्चिताः पूजिता: आकृती: साम्राज्याय मुक्तिसाम्राज्याय वन्दे || ५१३॥ [ इति चैत्यभक्तिः ] । [ पृष्ठ २३० ] [ पञ्चगुरुभक्तिः ] समवसरणेति — अहं तान् पञ्चपरमेष्ठिनः स्तुवे इति क्रियासंबन्धः । अहं समवसरणवासान् अर्हतः स्तुवे । समवसरणे वासो येषां तान् । मुक्तिलक्ष्मीविलासान् मुक्तिरमया विलासं क्रीडां कुर्वाणान् सिद्धान् स्तुवे । सकलसमयनाथान् सकलाश्च ते समयाः आगमाः तेषां नाथान् स्वपरागमवेदिनः आचार्यान् स्तुवे । वाक्यविद्याः व्याकरणादिशास्त्राणि तैः सनाथाः सहिताः तेषां ज्ञातारः इति भावः । तानुपाध्यायान् । भवनिगलेति – संसारशृङ्खलानां विनाशस्त्रोटनं तस्य उद्योगाय क्षमो यो योगः आतापनादिः तेन प्रकाशन्ते इति प्रकाशास्तान् साधुपरमेष्ठिनः । अहं क्रियावान् सामायिकादिक्रियाः कुर्वाणोऽहं संस्तुवे । कथंभूतान्पञ्चपरमेष्ठिनः स्तुवे । निरुपमेति - निरुपमाः निर्गता उपमा येभ्यस्ते निरुपमाः ते च ते गुणाश्च निरुपमगुणाः तेषां भावो अस्तित्वं येषां तान् स्तुवे । अर्हतां षट्चत्वारिंशद्गुणाः । सिद्धानां सम्यक्त्वादयोऽष्टौ । सूरीणां षट्त्रिंशद्गुणाः । उपाध्यायानां पञ्चविंशतिर्गुणा । साधूनाम् अष्टाविंशतिगुणास्तेषां गुणानाम् । [ इति पञ्चगुरुभक्तिः ] ॥ ५१४ ॥ [ शान्तिभक्तिः ] भवेति - जिनः शान्तिः शान्तिकरः स्तात् भवतु । कथंभूतः सः । भवेति - संसारासुखाग्निशान्तिः संसारदुःखाग्न्युपशामकः । धर्मामृतेति - धर्म एव अमृतमिति तस्य वर्षः वृष्टिः तस्मात् जनिता उत्पादिता शान्तिर्येन सः । पुनः कथंभूतः । शिवेति-मुक्तिसुखागमनाय शान्तिरूपः जिनः शान्तिकरः स्तात् । [ इति शान्तिभक्तिः ] ॥ ५१५ ॥ [ आचार्यभक्तिः ] मनोमात्रेति - मनोमात्रस्य उचितं मनोमात्रोचितं तस्मै मनोमात्रोचिताय मनसैव कर्तुं योग्याय पुण्याय । यः न चेष्टते न प्रवर्तते । हताशस्य दीनस्य तस्य मनोरथाः मनोऽभिलाषा : कथं कृतार्थाः कृतकार्याः सफलाः स्युर्भवेयुः ॥५१६॥ 1 [ पृष्ठ २३१ ] येषां तृष्णेति - येषां आचार्याणां चित्तवृत्तिप्रचारः मनोवृत्तिप्रसरः तत्त्वलोकावलोकात् जीवादिसप्ततत्त्वमयो यो लोको जगत् तस्य अवलोकात् वीक्षणात् तृष्णातिमिरभिदुरः तृष्णा विषयाभिलाषा एवं तिमिरं तमः तस्य भिदुरः भेदकः अस्ति । प्रशमजलधेः क्रोधादिकषायाणां प्रशम: अनुद्भवः एव जलधिः समुद्रः, तस्य पारे अवारे च तोरे उभयोस्तीरयोः चित्तवृत्ति प्रचारः खेलति । संगवार्थेः परिग्रहसमुद्रस्य परस्मिन् च तटे खेलति। बाह्येति – बाह्येषु कनककामिन्यादिषु पुद्गलादिषु च अनात्मीयेषु व्याप्तिप्रसरविधुरः प्रवृत्तिप्रसररहितः वर्तते तेषाम् । आचार्याणाम् अर्चाविधिषु पूजाकर्मसु वारिपूर: जलप्रवाह: अर्पितः वः युष्माकं श्रिये लक्ष्मीप्राप्तिहेतवे भवतात् भवतु ॥ ५१७॥ दूरारूढे इति - अस्मिन् अन्तरात्माम्बरे अन्तरात्मा चित्तदोषात्मविभ्रान्तिः चित्तं च विकल्पः । दोषाश्च रागादयः । आत्मा च शुद्धं चेतना वद् द्रव्यम् । तेषु विगता विनष्टा भ्रान्तिर्यस्य । चित्तं चित्तत्वेन बुध्यते, दोषांश्च दोषत्वेन, आत्मानमात्मत्वेनेत्यर्थः स अन्तरात्मा स एव अम्बरम् आकाशम्, तस्मिन् प्रणिधितरणी एकाग्रतायुक्तं मन एव तरणिः सूर्यः तस्मिन् । दूरारूढे मध्यभागम् आरूढे सति । येषां हृदयकमलं मोदेन स्वात्मानुभूतिसौख्येन निष्पन्दवृत्ति निश्चलवृत्ति स्थिरं भवति । तत्वेति-—-तत्त्वं शुद्धात्मस्वरूपं तस्य अवलोकः अनुभवनं तस्य अवगमः ज्ञप्तिः तस्मात् गलिता नष्टा ध्वान्तबन्धस्थितिः मिथ्याज्ञानबन्धावस्था येषाम् । तेषां सूरीणां पादयोः चन्दनेन अहम् इष्टि पूजाम् उपनये निर्वर्तये । आत्मस्वरूपानुभवेन येषाम् अज्ञानबन्धस्त्रुट्यति तेषां पादी आचार्याणामहं चन्दनेन चर्चयामीत्यर्थः ॥५१८॥ येषामन्तरिति - येषाम् आचार्याणां क्षेत्राधीशे आत्मनि अन्तरिति - अन्तः चित्ते तदमृतरसास्वादमन्दप्रचारे सति स्वात्मानुभूत्यमृत रसस्यास्वादश्चर्वणं तेन मन्दः जड: प्रचारः आत्मानुभवं विहाय अन्यत्र अनात्मीयेषु पदार्थेषु गमनं तस्मिन् । अन्यत्र मनःप्रचारः आत्मानुभूतिपीयूषस्वादनिमग्नत्वात् येषां न भवतीति भावः । येषां योगीश्वराणाम् आतापनादियोगरधारिणाम् मुनीनाम् ईश्वरा अधिपतयस्तेषां सूरीणाम् । विगतेति — विनष्ट: निखिलः सकल: आरम्भः प्रक्रमः यस्य स चासौ संभोगः इन्द्रियविषयानुभवः । ग्रामोक्षाणां ग्रामीणानां बलीवर्दानाम् उदुषित इव श्रृंगाभ्यां घर्षित इव भाति । तेषां निर्ममाणां कलमसदकैः शाल्यक्षतैः तण्डुलै : पूजनं कुर्मः ॥ ५१९ ॥ देहारामे इति - देह एव आरामः उपवनम् तस्मिन्नपि उपरतधियः विरक्तमतयः । कस्मात्

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664