________________
४६६
पं० जिनदासविरचिता
[ पृ० २३०पुराणि नगराणि तेषां पालाः रक्षकाः असुरेन्द्रादयः तेषां मौलयः किरीटानि तेषु विलसन्ति यानि रत्नानि तानि एव प्रदीपास्तैः अर्चिताः पूजिता: आकृती: साम्राज्याय मुक्तिसाम्राज्याय वन्दे || ५१३॥ [ इति चैत्यभक्तिः ] ।
[ पृष्ठ २३० ] [ पञ्चगुरुभक्तिः ] समवसरणेति — अहं तान् पञ्चपरमेष्ठिनः स्तुवे इति क्रियासंबन्धः । अहं समवसरणवासान् अर्हतः स्तुवे । समवसरणे वासो येषां तान् । मुक्तिलक्ष्मीविलासान् मुक्तिरमया विलासं क्रीडां कुर्वाणान् सिद्धान् स्तुवे । सकलसमयनाथान् सकलाश्च ते समयाः आगमाः तेषां नाथान् स्वपरागमवेदिनः आचार्यान् स्तुवे । वाक्यविद्याः व्याकरणादिशास्त्राणि तैः सनाथाः सहिताः तेषां ज्ञातारः इति भावः । तानुपाध्यायान् । भवनिगलेति – संसारशृङ्खलानां विनाशस्त्रोटनं तस्य उद्योगाय क्षमो यो योगः आतापनादिः तेन प्रकाशन्ते इति प्रकाशास्तान् साधुपरमेष्ठिनः । अहं क्रियावान् सामायिकादिक्रियाः कुर्वाणोऽहं संस्तुवे । कथंभूतान्पञ्चपरमेष्ठिनः स्तुवे । निरुपमेति - निरुपमाः निर्गता उपमा येभ्यस्ते निरुपमाः ते च ते गुणाश्च निरुपमगुणाः तेषां भावो अस्तित्वं येषां तान् स्तुवे । अर्हतां षट्चत्वारिंशद्गुणाः । सिद्धानां सम्यक्त्वादयोऽष्टौ । सूरीणां षट्त्रिंशद्गुणाः । उपाध्यायानां पञ्चविंशतिर्गुणा । साधूनाम् अष्टाविंशतिगुणास्तेषां गुणानाम् । [ इति पञ्चगुरुभक्तिः ] ॥ ५१४ ॥ [ शान्तिभक्तिः ] भवेति - जिनः शान्तिः शान्तिकरः स्तात् भवतु । कथंभूतः सः । भवेति - संसारासुखाग्निशान्तिः संसारदुःखाग्न्युपशामकः । धर्मामृतेति - धर्म एव अमृतमिति तस्य वर्षः वृष्टिः तस्मात् जनिता उत्पादिता शान्तिर्येन सः । पुनः कथंभूतः । शिवेति-मुक्तिसुखागमनाय शान्तिरूपः जिनः शान्तिकरः स्तात् । [ इति शान्तिभक्तिः ] ॥ ५१५ ॥ [ आचार्यभक्तिः ] मनोमात्रेति - मनोमात्रस्य उचितं मनोमात्रोचितं तस्मै मनोमात्रोचिताय मनसैव कर्तुं योग्याय पुण्याय । यः न चेष्टते न प्रवर्तते । हताशस्य दीनस्य तस्य मनोरथाः मनोऽभिलाषा : कथं कृतार्थाः कृतकार्याः सफलाः स्युर्भवेयुः ॥५१६॥
1
[ पृष्ठ २३१ ] येषां तृष्णेति - येषां आचार्याणां चित्तवृत्तिप्रचारः मनोवृत्तिप्रसरः तत्त्वलोकावलोकात् जीवादिसप्ततत्त्वमयो यो लोको जगत् तस्य अवलोकात् वीक्षणात् तृष्णातिमिरभिदुरः तृष्णा विषयाभिलाषा एवं तिमिरं तमः तस्य भिदुरः भेदकः अस्ति । प्रशमजलधेः क्रोधादिकषायाणां प्रशम: अनुद्भवः एव जलधिः समुद्रः, तस्य पारे अवारे च तोरे उभयोस्तीरयोः चित्तवृत्ति प्रचारः खेलति । संगवार्थेः परिग्रहसमुद्रस्य परस्मिन् च तटे खेलति। बाह्येति – बाह्येषु कनककामिन्यादिषु पुद्गलादिषु च अनात्मीयेषु व्याप्तिप्रसरविधुरः प्रवृत्तिप्रसररहितः वर्तते तेषाम् । आचार्याणाम् अर्चाविधिषु पूजाकर्मसु वारिपूर: जलप्रवाह: अर्पितः वः युष्माकं श्रिये लक्ष्मीप्राप्तिहेतवे भवतात् भवतु ॥ ५१७॥ दूरारूढे इति - अस्मिन् अन्तरात्माम्बरे अन्तरात्मा चित्तदोषात्मविभ्रान्तिः चित्तं च विकल्पः । दोषाश्च रागादयः । आत्मा च शुद्धं चेतना वद् द्रव्यम् । तेषु विगता विनष्टा भ्रान्तिर्यस्य । चित्तं चित्तत्वेन बुध्यते, दोषांश्च दोषत्वेन, आत्मानमात्मत्वेनेत्यर्थः स अन्तरात्मा स एव अम्बरम् आकाशम्, तस्मिन् प्रणिधितरणी एकाग्रतायुक्तं मन एव तरणिः सूर्यः तस्मिन् । दूरारूढे मध्यभागम् आरूढे सति । येषां हृदयकमलं मोदेन स्वात्मानुभूतिसौख्येन निष्पन्दवृत्ति निश्चलवृत्ति स्थिरं भवति । तत्वेति-—-तत्त्वं शुद्धात्मस्वरूपं तस्य अवलोकः अनुभवनं तस्य अवगमः ज्ञप्तिः तस्मात् गलिता नष्टा ध्वान्तबन्धस्थितिः मिथ्याज्ञानबन्धावस्था येषाम् । तेषां सूरीणां पादयोः चन्दनेन अहम् इष्टि पूजाम् उपनये निर्वर्तये । आत्मस्वरूपानुभवेन येषाम् अज्ञानबन्धस्त्रुट्यति तेषां पादी आचार्याणामहं चन्दनेन चर्चयामीत्यर्थः ॥५१८॥ येषामन्तरिति - येषाम् आचार्याणां क्षेत्राधीशे आत्मनि अन्तरिति - अन्तः चित्ते तदमृतरसास्वादमन्दप्रचारे सति स्वात्मानुभूत्यमृत रसस्यास्वादश्चर्वणं तेन मन्दः जड: प्रचारः आत्मानुभवं विहाय अन्यत्र अनात्मीयेषु पदार्थेषु गमनं तस्मिन् । अन्यत्र मनःप्रचारः आत्मानुभूतिपीयूषस्वादनिमग्नत्वात् येषां न भवतीति भावः । येषां योगीश्वराणाम् आतापनादियोगरधारिणाम् मुनीनाम् ईश्वरा अधिपतयस्तेषां सूरीणाम् । विगतेति — विनष्ट: निखिलः सकल: आरम्भः प्रक्रमः यस्य स चासौ संभोगः इन्द्रियविषयानुभवः । ग्रामोक्षाणां ग्रामीणानां बलीवर्दानाम् उदुषित इव श्रृंगाभ्यां घर्षित इव भाति । तेषां निर्ममाणां कलमसदकैः शाल्यक्षतैः तण्डुलै : पूजनं कुर्मः ॥ ५१९ ॥ देहारामे इति - देह एव आरामः उपवनम् तस्मिन्नपि उपरतधियः विरक्तमतयः । कस्मात्