________________
-पृ०२२६]
उपासकाम्ययनटीका
कारणम् न तु भवान् । यथा रवी उदिते कौशिकस्य घूकस्य स दोषः न तु रवेः । घूको रविं न प्रेक्षते तथा जनः न तुष्यति नासो दोषो जिनदेवस्य । लोकस्य मिथ्यात्वोदय एव तत्रापराध्यति ॥५०६॥ पुष्पमिति-देव अर्हन्, त्वदीयेति तव इमौ त्वदीयो तो च ती चरणी पादौ तयोः अर्चनस्य पुजनस्य यत्पीठं सिंहासनं तस्य संगात् संपर्कात् जगत्त्रयस्य त्रैलोक्यस्य । चुडामणीव भवति । तत्पुष्पं वन्द्यं भवति अतः जनः तत् मस्तके बिति । अतः अन्यशिरसि अपरेषां हरिहरादीनां मस्तके स्थितमपि अस्पृश्यं भवति । अत: ते तव । को नाम साम्यम् अनुशास्तु प्रतिपादयतु । कैः । रवीश्वराद्यैः सूर्यरुद्राद्यैः समतां प्रतिपादयतु । न कदापि सूर्यहरिहरादिभिः त्रैलोक्यवन्द्यस्य भगवतो जिनेश्वरस्य साम्यमस्तीति ज्ञेयम् ॥५०७॥ मिथ्येति-पुरा एतज्जगत् मिथ्या मिथ्यात्वम् अतत्त्वार्थश्रद्धानोपदेशः तदेव महान्धतमसं महागाढतिमिरं तेन आवतम् अत एव अप्रबोधं ज्ञानरहितम् । भवगर्तपाति संसाररन्ध्रे पातो यस्य तथाभूत् । परं तत्तस्मात्कारणात् हे देव, त्वमेव, भवानेव, दृष्टिहृदयाजविकासकान्तः दृष्टी नेत्रे, हृदयं मनः तान्येव अब्जानि कमलानि तेषां विकासे कान्तैः मनोहरैः । स्याद्वादेति-स्याद्वादरश्मिभिः स्वरूपचतुष्टयं पररूप चतुष्टयंचापेक्ष्य जातः सप्तभङ्गरज्जुभिः उद्धृतवान् भवगर्तपातात् उपरि निष्कासितवान् ।।५०८॥ पादाम्बुजद्वयमिति–देव विभो यस्य नरस्य स्वच्छे मनसि निर्मले हृदये । तव इदं पादाम्बुजद्वयं चरणकमलयुगलं समास्ते विद्यते। श्री लक्ष्मोः स्वयं तं भजति सेवते। स्वर्गमोक्षोत्यादिका मातेव इयं सरस्वती तं नियतं निश्चयेन गोते स्वोकरोति ।। ५०९ ॥ [ इत्यर्हद्भक्तिः ]
[पृष्ठ २२९] [सिद्धभक्तिः] सम्यग्ज्ञानत्रयेणेति-कथंभूताः सिद्धाः मतिश्रुतावधीनां त्रयेण प्रविदितः ज्ञातः सकलज्ञेयजोवादितत्त्व विस्तारो यः ते। पुनः कथंभूताः। अथ अनन्तरम् । ध्यानवातः सकलं कर्मरजः ज्ञानावरणादिघातिकर्मचतुष्करजः प्रोद्धय निरस्य । प्राप्तकवल्यरूपाः लब्धशद्धात्मरूपाः संप्राप्तकेवलज्ञानरूपा वा । पुनः कथंभूताः सिद्धाः । अथ सत्त्वोपकारं प्राण्युपकृतिं कृत्वा ये त्रिभुवनपतिभिः धरणेन्द्रचक्रवतिस्वःपतिभिः दत्तयात्रोत्सवाः उद्घोषितनिर्वाणकल्याणाः । ते लोकत्रयस्य शिखरे अग्रे सिद्धपुरोनिवासिनः सिद्धाः वः युष्माकं सिद्धये मुक्त्यै सन्तु भवन्तु ॥५१०॥ दानज्ञानेति-आहारोषधावासशास्त्रभेदाच्चतुर्विधानि दानानि । ज्ञानम् आध्यात्मिकम्। चारित्रं सामायिकादिकम् । प्राणीन्द्रियसंयमो द्वो। तथा द्रव्यार्थिकपर्यायाथिको नयो एषां प्रारम्भः गर्भे यस्य तथाभूतं मनः कृत्वा । एषु विषयेषु मनः संस्थाप्य । तथा च अन्तरिन्द्रियं मनः बहिरिन्द्रियाणि च स्पर्शादीनि पञ्च । तथा पञ्चमरुतः प्राणापानसमानोदानव्यानाः तान् संयम्य वशीकृत्य पश्चात् तत् ध्यानं प्रविधाय । कथंभूतं ध्यानम्। वीतेति-वीतं नष्टं विकल्पानां रागद्वेषादीनां जालं यस्मात् । पुनः कथंभूतम् । भ्रस्यत्तमःसन्तति, भ्रस्यन्तो तमसाम् अज्ञानानां संततिर्यस्मात्तत् । अखिलं ध्यानं शुक्लाह्वयं चतुर्विधं प्रविधाय विचिन्त्य । ये च मुमुचुः ये मुनयः द्रव्यभावकर्मभ्यां मुक्ता बभूवुः । तेभ्योऽपि अञ्जलि: प्रसूतिबद्धः तान् सिद्धपरमेष्ठिनोऽपि वयं वन्दामहे ॥५११॥ इत्थमिति-इत्थम् एवम् । अत्र अस्मिन्लोके । ये मुनयः, कथंभूताः । धृतेति-धृता ध्याने अवधानद्धिः प्रणिधानवैपुल्यं यस्ते । कुत्र । समुद्रेति-समुद्रः । कन्दरः पर्वतदरो । सर: सरोवरम् । स्रोतस्विनी नदी। भूः भूमिः । नभ आकाशम् । द्वीपः जलवेष्टितभूमिः । अद्रिः पर्वतः । द्रुमः वृक्षमूलम् । काननं वनं तानि आदी येषां तेषु। धृतध्यानस्थिराः त्रिषु कालेषु भूतभविष्यद्भवत्सु कालेषु मुक्तिसंगमे मुक्तिसंगसुखसेविनः भव्येषु रत्नाकराः मुनयः रत्नत्रयमङ्गलानि ददतां समर्पयन्तु ॥५१२॥ [ इति सिद्धभक्तिः ] [चैत्यभक्तिः] भौमेति-भीमाः भवनवासिनो देवाः । व्यन्तराः विविधदेशान्तराणि येषां निवासास्ते व्यन्तरदेवाः। मां मनुष्याः सार्धद्वोपद्वितयवर्तिनः, भास्करसुराः चन्द्रसूर्यादयः पञ्चविधा ज्योतिष्काः। सुराः स्वर्गवासिनो देवाश्च । एषां श्रेणोविमानाभिताः पंक्तिबद्धविमानेषु आवासेषु श्रिताः स्थिताः पुनः कथंभूताः आकृतीः । स्वयॊतिरिति-स्वः स्वर्गः ज्योतिः ज्योतिर्मण्डलस्थानम् कुलपर्वतान्तरधरा हिमवदादयः कुलपर्वताः अन्तरघरा व्यन्तराणां निवासभूमिः । रन्ध्रप्रबन्धः भवनवासाः पंक्तिबद्धाः । एषु स्थितिः यासां ताः । पुनः कथंभूताः। जिनेन्द्रेति-जिनेन्द्रा अर्हन्तः। सिद्धाः मुक्ताः । गणभृतः आचार्याः। स्वाध्यायिनः उपाध्यायाः। साधवः साधुपरमेष्ठिनश्च एषाम् आकृतीः प्रतिमाः अहं वन्दे । पुनः कथंभूताः । तत्पुरेति-तेषां भौमादिदेवानां
५६