________________
કર
पं० जिनदासविरचिता
तस्य
[ पृ० २२७जिनागमाय जिनप्रोक्तायै स्याद्वादवाण्यै नित्यं प्रणमामि सदा नमस्करोमि । कथंभूतोऽहम् । तत्तवेतिजिनागमस्य तत्त्वं स्वरूपं तस्य भावने चिन्तने मन: यस्य । कथंभूताय अहं प्रणमामि - मिथ्येति - मिथ्यातमः अतस्त्वश्रद्धानम् एव तमः तिमिरं तस्य पटलं समूहः तस्य भेदनकारणाय विनाशहेतवे । पुनः कथंभूताय स्वर्गेति — स्वर्गमोक्षनगर पथप्रदर्शकाय । पुनः कथंभूताय त्रैलोक्यमङ्गलकराय जगत्त्रयहितंकराय ॥४९९ ॥ [ इति ज्ञानभक्तिः ]
[ पृष्ठ २२७ चारित्रभक्तिः ] ज्ञानमिति - यदन्तरेण चारित्रभक्ति विना ज्ञानं दुर्भगस्य कुरूपनरस्य देहमण्डनम् इव शरीरालंकरणमिव, स्वस्य खेदावहं स्यात् । अयं सम्यक्त्वरत्नाङ्करः चारित्रं विना तत्फलश्रियं स्वफलशोभां साधु उत्तमतया न धत्ते धारयति । देव प्रभो, जिन, तास्ताः तपोभूमयः तपसां भूमयः स्थानानि कायवाङ्मनांसि यदन्तरेण कामं नितरां विफलाः स्वर्गमोक्षफलरहिताः भवन्ति । अतः तस्मै संयमदमध्यानादिवाने प्राणीन्द्रियसंयमी द्वौ दमः इन्द्रियनिग्रहः, ध्यानम् एकाग्रचिन्तनिरोधः आदो येषां तेषां गुप्तिसमित्यादीनां धाम्ने गृहाय त्वच्चरित्राय तव भगवतः चरिताय चारित्रगुणाय नमः अस्तु ॥ ५०० ॥ यश्चिन्तामणिरिति — अहं विविधं पञ्चविधं तच्चारित्रं सामायिक च्छेदोपस्थापन परिहारविशुद्धि-सूक्ष्मसाम्प राय यथाख्यातचारित्रभेदम् । नमामि । कथंभूतं तत्- यदिति - यच्चारित्रम् ईप्सितेषु इष्टेषु अभिलषितदाने चिन्तामणिः सौरूप्यस्य सौन्दर्यस्य, सौभाग्यस्य शुभदेवस्य च वसतिगृहम् । श्रीति - श्रियाः रमायाः पाणिग्रहकौतुकं विवाहोत्सव:, कुलेति - कुलं वंशः बलं सामर्थ्यम् आरोग्यं रोगविहीनता एषाम् आगमे संगमः मिलतस्थानम् | यदिति यत् पञ्चात्मकं पञ्चभेदं चारित्रं पूर्वैः प्राचीनः समाधिनिधिभिः प्राप्तानां सम्यग्दर्शनादीनां पर्यन्तप्रापणं समाधिः ध्यानं वा धम्यं शुक्लं च समाधिः । स एव निधिः येषां तैः साधुभिः मोक्षाय चरितं सेवितम् ||५०१ ॥ हस्ते इति - य यस्य मुनेः जैनः जिनप्रोक्तैः सामायिकादिचरितैः मनः पवित्रं तस्य हस्ते स्वर्गसुखानि आगच्छन्ति । अतर्कितभवा: अतर्कितो अकस्मात् भवः उत्पत्तिर्यासां ताः अकस्मात्प्राप्ताः अविचारगोचराश्चक्रवर्तिनः संपदः तं यान्ति । देवाः पादतले लुठन्ति द्यौः स्वर्गः सर्वतः दशभ्यो दिग्भ्यः कामितम् इष्टं फलति यच्छति । पुनः इमाः कल्याणोत्सवसंपदः गर्भादिकल्याणेषु इन्द्रादिभिः कृते उत्सवे रत्नादिवृष्टिः दिव्यभोगोपभोगवस्तु प्राप्तिः तस्य अवतारालये स्वर्गादवतरणं यस्मिन्नालये भविष्यति तत्र प्रागेव जन्मनः पूर्वमेव अवतरन्ति आगच्छन्ति ॥ ५०२ ॥ [ इति चारित्रभक्तिः ] [ अथार्हद्भक्तिः ] बोधो इति- हे जिनेन्द्र, ते तव अवधिर्बोधः अवध्याख्यम् इन्द्रियमनोऽनपेक्षं तृतीयं ज्ञानम् । अशेषनिरूपितार्थं अशेषाः सकलाः निरूपिताः परोक्षतया ज्ञाताः अर्थाः जीवादयः पदार्था येन तत् तथाभूतम् श्रुतज्ञानम् । ते तव मतिः मतिज्ञानं सहजा त्वया सहैव जाता कथंभूता । अन्तर्बहिःकरणजा - अन्तःकरणं मनः तस्मात् जाता अन्तःकरणजा, बहिःकरणानि बाह्येन्द्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि पञ्च तेभ्यो जाता मतिः । इत्थम् एवं स्वत: स्वस्मादेव सकलपदार्थविमर्शनमतेः भवतः परतः परस्माद् गुर्वादेः का व्यपेक्षा अभिलाषा स्यात् । न कापि इति । सहजज्ञानत्रितयवत्त्वात् तीर्थकरस्य ज्ञानसंपादने गुर्वपेक्षा नास्तीति भावः ||५०३ ॥
[ पृष्ठ २२८ ] ध्यानावलोकेति — देव हे विभो, शुक्लध्यानप्रकाशेन विगलद् विध्वस्यत् तिमिरप्रतानम् अज्ञानपटलं यस्य तस्मिन् । ताम् अनुपमां केवलमयीम् अनन्तज्ञानादिचतुष्टयरूपां श्रियं लक्ष्मीम् आदधाने बिभ्रति त्वयि । मुहुः पुनः पुनः । महाय उत्सवाय पूजनाय व्यापारमन्थरं त्रिभुवनम् । एकपुरमिव आसीत् अभवत् । भगवतः केवलज्ञाने जाते सति तदास्थाने नरसुरपशवः धर्मश्रवणार्थं संततमागच्छन्तीति भावः ॥ ५०४ ॥ छत्त्रमिति - अहं छत्रं प्रभोः मस्तके दधामि धारयामि । किमु चामरम् उत्क्षिपामि चालये । अथ जिनस्य पदे हेमाम्बुजानि सुवर्णकमलानि अर्पयामि । इत्थम् एवंप्रकारेण । अमरपतिः सोधर्मेन्द्रः स्वयमेव यस्मिन् जिने सेवापरः आराधनादक्षः । तत्र अहं परं किमु वच्मि भगवतो महिमा गणिनामपि वाचाम् अगोचर इति भाव: ।। ५०५ ।। त्वमिति - हे ईश नाथ, त्वं सर्वदोषरहितः क्षुलिपासाद्यष्टादशदोषद्रः । ते वचः सुनयम् अपेक्षया वस्तुधर्मप्रतिपादनपरम् । ते सकलो विधि: उपदेशादिकः । सत्त्वानुकम्पनपरः प्राणिदयामाश्रित्य प्रवर्तते । तथापि लोकः त्वदीयस कलंविधि दृष्ट्वापि न भोक्ष्यति । [ न तुष्यति ] ननु अस्य लोकस्य कर्म एव