________________
-पृष्ठ २३२] उपासकाध्ययनटीका
४६७ उपरतधियः सर्वसंकल्पशान्तः सर्वेषां संकल्पानां शान्तेः विनाशात् । अहमेषां स्वामी मम च इमे स्वम् इति संकल्पव्यपगमात् । ब्रह्मधामामृताप्ते : येषां ऊमिस्मयविरहिता ब्रह्मण आत्मनः धाम स्थानं यत् अमृतं स्वात्मानुभूतिः तस्य आप्तेर्लाभात् मिस्मयविरहिता- शोकमोही जरामृत्यू क्षुत्पिपासे इति षडूमयः । स्मयाश्च ज्ञानपूजाकुलजातिबलद्धितपोवपुषां मानित्वं स्मयाः अष्टविधाः । षडूमिभिः अष्टविधस्मयश्च विरहिताः रहितत्वम् लब्धम् । येषां च आत्मात्मीयानुगमविगमात् शुद्धबोधाः वृत्तयः संकल्पविकल्पानाम् अनुगमस्य उत्पत्तेविंगमात् येषां वृत्तयः मनोविमर्शाः शुद्धबोधाः शुद्धारमस्वरूपज्ञानयुक्ताः सन्ति । तेषां चरणकमलानि पुष्पः शिवाय मोक्षाय अर्चयेयं पूजयेयम् ॥५२०॥
[पृष्ठ २३२ ] येषामङ्गे इति--येषां सूरीणाम् अङ्गे मलयजरस: चन्दनगन्धः संगमः । लेपनं कर्दमैः मुदा लेपनं वा समानः हर्षाय विषादाय वा क्रमशो न भवति । स्त्रीविव्वोकः स्त्रीणां शृङ्गारभावजा क्रिया विन्वोकः अभिमतवस्तुप्राप्ती अपि गर्वादनादरः । सापराधस्य संयमनं ताडनं च विश्वोकः । एताभिः स्त्रीणां शृङ्गारक्रियाभिः अनुषङ्गःसंबन्धः समानः प्रतिभाति । पितृवनेति-पितृणां वनमिव श्मशानंतत्र चिताभस्मभिः चीयते श्मशानाग्निरस्याम् इति चिता तस्या भस्मभिः भसितः वा अनुषतः लिप्तिः समानः न प्रीत्यप्रोत्यं भवति । मित्रे शत्रावपि च विषये अनुषङ्गः संबन्धः निस्तरङ्गः तरङ्गः मनोवृत्तिः हर्षविषादात्मिका निर्गतौ तरङ्गी हर्षविषादी यस्मादसो निस्तरङ्गः मित्रे दृष्टे न हर्षः स्यात् अरो दृष्टे न खिन्नता। तेषां सूरोणां पूजाव्यतिकरविधौ पूजीत्सवविधौ एष हविनैवेद्यं वः युष्माकं भूत्यै वैभवदानाय अस्तु भवतु ॥५२१॥ योगाभोगाचरणचतुरे इति-येषां सूरीणां स्वान्ते मनसि । कथंभूते । योगेति-योगानाम् आतापनाभ्रावकाशवर्षायोगानाम् आभोगो विस्तारः तस्य आचरणं प्रवर्तनं तत्र चतुरे कुशले । पुनः कथंभूते। दीर्णेति-दीर्णः विनष्ट: • कन्दर्पस्य मन्मथस्य दर्प: मदो येन तस्मिन् । पुनः कथं मूते ध्वान्तति-ध्वान्तम् अज्ञानं तस्य उद्धरणं निरसनं तत्र सविधे तत्परे । पुनः कथंभूते ज्योतिरिति-ज्योतिष: स्वानुभूतिज्ञानस्य उन्मेषः उद्भूतिः तं भजतीति ज्योतिरुन्मेषभाक् तस्मिन् स्वान्ते स्वानुभूतिज्ञानसंपन्ने सतीति भावः । क्षेत्रनाथः क्षेत्र देहः तस्य नाथः स्वामी आचार्याणाम् आत्मा । अन्तः निजस्वरूपे उच्चैः अत्यन्तम्, अमृतभृत इव सुधापूर्ण इव संमोदेत ह्लादेत । तेषु क्रमपरिचयात् चरणपूजनात् प्रदीपः कः श्रिये लक्ष्म्य संपदे स्यात् भवेत् ॥५२२॥ येषां ध्येयेति-येषां सूरीणां बोधाम्मोधिः सम्यग्ज्ञानसागरः कथंभूतानां सूरीणाम् । ध्येयाशयेति-ध्येयो ज्ञानदर्शनलक्षणो निजात्मा तस्मिन ध्येये आशयः विमर्श कुर्वन्मनः स एव कुवलयं कमदं तस्य आनन्द प्रमोदे चन्द्रोदयतल्यानां । येषां सूरीणां ज्ञानाब्धिः प्रमदसलिलैः आनन्दनीरः आत्मावकाशे निजस्वरूपे नैव माति ॥ बहिः नानाविधलब्धिः बहिरुत्पूरो भवति । एतां अखिलेति-सकलजगद्विभवरमां समवसरणादिरूपां प्राप्यापि येषां चेतः मनः निःस्पृहम् अस्ति, तेषाम् अपचितो पूजायां धूपः वो युष्माकं श्रेयसे मुक्तये अस्तु ॥५२३॥ चित्ते चित्ते इति-चित्ते मनसि चित्ते आत्मनि विशति सति प्रवेशं कुर्वति सति । करणेषु स्पर्शनादिषु इन्द्रियेषु स्वान् विषयांस्त्यक्त्वा अन्तरात्मन्येव स्थितेषु । स्रोतस्यूते स्रोतोभिः स्पर्शनादिविषयैः स्यूते अनुषक्त पुंसि । बहिः बाह्ये अखिलतः सर्वशः व्याप्तिशून्ये बाह्यपदार्थविमर्शशून्ये सति । येषां ज्योतिः ज्ञानं किमपि अनिर्वचनीयरूपेण परमानन्दसन्दर्भगर्भ परमश्चासौ आनन्दश्च परमानन्दः विषयजादानन्दात् आत्मानन्दः स्वानुभूतिरूपः अपूर्वसुखजनकत्वात् परमानन्द उच्यते तस्य सन्दर्भः ज्ञानेन सह एकलोलोभाव: स गर्भे यस्य तथाभूतं ज्ञानज्योतिः जन्मच्छेदि जन्महन्तृ जन्मनः भवस्य हन्तृ प्रभवति समर्थं जायते । तेषु आचार्येषु फलैः सपर्या पूजां कुर्मः ॥५२४॥
वाग्देवतावर इति-हे सूरिवर, तत् ततः चरणार्चनेन तव पादपूजनेन अयं पुष्पाञ्जलि: इयं कुसुमानां प्रसृतिः । उपासकानाम् आचार्यभक्तानां वाग्देवतायाः सरस्वत्याः वरः इव वाञ्छिताभिलाष इव । पुनः कथंभूतः आगामिन्यां तत्फलप्राप्ती पुण्यपुञ्ज इव सुकृतसमूह इव । पुनः कथंभूतः । लक्ष्मीति-लक्ष्म्याः कटाक्षा एव मधुपा भृङ्गाः तेषां आगमने एकहेतुः मुख्य कारणम् । भवतु अस्तु ॥५२५॥ ( इत्याचार्यभक्तिः )
इत्युपासकाध्ययने समयसमाचारविधिर्नाम पञ्चत्रिंशत्तमः कल्पः ॥३५॥