SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ४६८ पं० जिनदासविरचिता [पृ० २३३३६. स्नपनार्चनविधिर्नाम पत्रिंशः कल्पः [पृष्ठ २३३-२३५ ] जिनप्रतिमास्नपनम् । इदानीम् अधुना। ये कृतप्रतिमापरिग्रहाः कृतजिनबिम्बपूजाप्रतिज्ञाः तान्प्रति तानुद्दिश्य । स्नपनम् अभिषेकः । अर्चनं पूजनं जलादिद्रव्यैः । स्तवः प्रतिमापितार्हदादोनां गुणानां स्तुतिः। जपः अहंदादीनां मन्त्रस्य जपो वाचिको मानसिको वा जप्यः । ध्यानम् एकाग्रेण मनसाहदादीनां गुणानां चिन्तनम् । श्रुतदेवताराधनविधिः श्रुतदेवतायाः जलाद्यः गुणानुरागपूर्वकं पूजनम् । एतान् षडविधीन प्रोदाहरिष्यामः कीर्तयिष्यामः । तथाहि-श्रीकेतनमिति-अहं जिनाभिषेकाश्रयं जिनाभिषेकस्य आश्रयं गृहम् आश्रयामि तत्र प्रवेशं करोमि। कथंभूतं तम् आश्रयामि । श्रीकेतनं श्रियो देवतायाः केतनं गृहमिव । पुनः कथंभूतम् । वागिति-वाग्वनिता वाग्देवता श्रुतदेवता तस्या निवासम् आश्रयम् । उपासकानां देवपूजादिषट्कर्माणि कुर्वतां श्रावकाणां पुण्यार्जनक्षेत्र सस्यप्राप्तिस्थानमिव पुण्यप्राप्तिस्थानम् । पुनः कथंभूतम् । स्वर्गेति-स्वर्गमोक्षप्राप्तेर्मुख्यं निदानम् ॥५२६॥ [ इति जिनमन्दिर प्रवेशः ] भावामृतेनेतिभावो जिनगुणानुरागस्तदेव अमृतं जलं तेन मनसि प्रतिलब्धशुद्धिः संप्राप्तशौचः अहम् । पुण्यामृतेन च मन्त्रपूतेन जलेन । तनो शरीरे । नितरां पवित्रो भूत्वा सकलीकरणम् अङ्गन्यासं च कृत्वेत्यर्थः । श्रीमण्डपे यत्र जिनो भगवान् विराजते तत्स्थानं श्रीमण्डपः । तत्र विविधवस्तुविभूषितायाम् अष्टमङ्गलद्रव्यालंकृतायां वेद्यां पीठे। जिनस्य सवनम् अभिषेकम् । विधिवत् जिनस्नानशास्त्रोक्तप्रकारेण तनोमि करोमि ॥५२७॥ उदङ्मुखमिति-पूजकः स्वयम् उदङ्मुखम् उत्तरां दिशं प्रति मुखं कृत्वा तिष्ठेत् । जिनं प्राङ्मुखं स्थापयेत् पूर्वदिङ्मुखं जिनं कृत्वा तं स्थापयेत् । तथा पूजाक्षणे पूजनसमये पूजक: नित्यं यमी अणुव्रतधारकः वाचंयमक्रियः वाचंयमो पूजामन्त्रादपरस्य भाषणम् अकुर्वाणः पूजनक्रियां कुर्वाण: भवेत् ॥५२८॥ षड्विधं देवसेवनम् । प्रस्तावनेति-प्रस्तावना, पुराकर्म, स्थापना, संनिधापनम् । पूजा, पूजाफलं च इति देवसेवनं षड्विधम् ज्ञेयम् ।।५२९॥ १. प्रस्तावनाधिकारः प्रथमः, स वर्ण्यते-यः श्रीजन्मेति-यः श्रीजिनः श्रीजन्मपयोनिधिः श्रियो लक्षम्या जन्मने पयोनिधिः समुद्रः, यं योगिनः मनसि ध्यायन्ति । येनेदं भुवनं सनाथम्, स्वामिना सहितम् । यस्मै अमरा नमस्कुर्वते। यस्माज्जिनात् श्रुति: द्वादशाङ्गरूपा प्रादुरभूत जज्ञे। यस्य प्रसादात् जनाः सुकृतिनो भवन्ति । यस्मिन् जिने न एष भवाश्रयो भवः संसृतिः आश्रयो भाजनं यस्य तथाभूतः व्यतिकरः संबन्धः न, तस्य स्नापनाम् आरभे ॥५३०॥ वीतोपलेपवपुषः इति-वीतः विनष्टः मलस्य उपलेपः उपदेहः वपुषो शरीराद्यस्य तस्य जिनस्य नित्यनिर्मलस्य मलानुषङ्गः मलस्य संबन्धः कृतः कस्मात् कारणाद् भवेत् । त्रैलोक्यस्य पूज्यौ चरणो यस्य तस्य जिनस्य अर्ध्यः कुतः न तेन अर्येण जिनस्य किमपि प्रयोजनं सिद्धमिति । हे जिन, मोक्षामृते धृतधियः मोक्षपीयूषे विहितवाञ्छस्य तव नैव काम: अभिलाषः । ततः इदं स्नानं कम् उपकारं तव किं प्रयोजनं करोतु साधयतु ॥५३१॥ तथापीति-तथापि स्वस्य पुण्यार्थ पुण्यप्राप्त्यर्थं तव अभिषवं स्नानं प्रस्तुवे प्रारभे। को नाम कः पुमान् फलार्थी फलान्यभिलषन्, तरूपकारार्थ तरोः वृक्षस्य उपकारार्थम् उपकारकरणाय विहितोद्यमः कृतयत्नो भवेत् । यथा अभिषेकेण जिनेश्वरे काप्युपकृतिर्न भवेत् यतः स स्वभावनिर्मलः । अतः स्वपुण्योपचयार्थम् एव उपासकेन तस्य स्नानं विधेयम् । यथा फलार्थी जनः वृक्षं जलदानेन सेवतेन वृक्षोपकाराय तथा स्वपुण्याय जिनाभिषेकक्रियां श्रावकः करोति ॥५३२॥ इति प्रस्तावना ] २. पुराकर्म । रत्नाम्बुभिरिति-रत्नजल: तथा कुशानां कृशानुभिः अग्निभिः भूमौ स्नानभूमी जिनाभिषेकस्थाने आत्तशुद्धी सत्यां पवित्रायां जातायाम् । भुजङ्गमपतीन् नागेन्द्रान् अमृत: दुग्धः उपास्य प्रोणयित्वा। प्रजापतिनिकेतनदिङ्मुखानि प्रजापतिनिकेतनं ब्रह्मस्थानं तत्प्रमुखानि दिङ्मुखानि पूर्वादिदशदिशः । दूर्वा स्वनामख्याततृणविशेषः । अक्षताः अखण्डतण्डुलानि । प्रसवाः पुष्पाणि, दर्भाश्च कुशाः तः विदर्भितानि युक्तानि कुर्मः ॥५३३॥ पाथःपूर्णानिति-अहं पूजक: कोणेषु चतुरः कुम्भान् विदधे । कथंभूतान् पाथःपूर्णान् जल तान् । सुपल्लव: आम्राशोकादिकिसलयः प्रसूनः पुष्पः अान् पूज्यान् । पुनः कथंभूतान् प्रवालमुक्तोल्बणान् विद्रुममुक्ताहारशोभितान् चतुरः दुग्धाब्धीनिव चतुःसंख्यान क्षीरसमुद्रानिव । वेद्याश्चतुः कोणेषु विदधे स्थापयामि ॥५३४॥ [ अत्र जिनाभिषेकप्रस्तावनापुराकर्ममन्त्रा लिख्यन्ते । ॐ ह्रीं श्रीं क्लीं
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy